1-2-3 विभाषोः णोः ङित् इट्
index: 1.2.3 sutra: विभाषोर्णोः
इटिति वर्तते । 'ऊर्णुञ् आच्छादने' (अदादिगणः) अस्मात् परः इडादिः प्रत्ययो विभाषा ङिद्वद् भवति । प्रोर्णुविता, प्रोर्णविता । इटित्येव - प्रोर्णवनम्, प्रोर्णवनीयम् ॥
index: 1.2.3 sutra: विभाषोर्णोः
इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णौतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥
index: 1.2.3 sutra: विभाषोर्णोः
इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ, ऊर्णुनविथ । ऊर्णुविता, ऊर्णविता । ऊर्णुविष्यति, ऊर्णविष्यति । ऊर्णौतु, उर्णोतु । ऊर्णवानि । ऊर्णवै ॥
index: 1.2.3 sutra: विभाषोर्णोः
विभाषोर्णोः - विभाषोर्णोः । 'गाङ्कुटादिभ्यः' इत्यतो ङिदित्यनुवर्तते, 'विज इ' डित्यत इडिति, — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — इडादीति । ऊर्णुनुविथेति । ङित्त्वपक्षे गुणाऽभावादुवङ् । ऊर्णुनविथेति । ङित्त्वाऽभावपक्षे गुणः । ऊर्णुनुवथुः ऊर्णुनुव । ऊर्णुनाव — ऊर्णुनव । लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽऽह — ऊर्णविता ऊर्णुवितेति । ऊर्णविष्यति ऊर्णुविष्यति । ऊर्णविष्यते — ऊर्णुविष्यते । लङि और्णुदिति स्थितेऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पे, गुणे च प्राप्ते —
index: 1.2.3 sutra: विभाषोर्णोः
ऽऊर्णुञ् आच्छादनेऽ ञिद्, नोपधः; ऽरषाभ्याम्ऽ इति णत्वेन पाठः । प्रोर्णुनाव - रेफवियोगेऽभ्यासात्परस्य नकारस्य श्रवणं भवति । प्रोर्णुवितेति । ङ्त्विपक्षे उवङ्, अन्यत्र गुणः ॥