त्यदादीनि च
1-1-74 त्यदादीनि च वृद्धम्
Sampurna sutra
Up
त्यदादीनि च वृद्धम्
Neelesh Sanskrit Brief
Up
त्यदादिगणस्य शब्दानाम् 'वृद्धम्' इति संज्ञा भवति ।
Neelesh English Brief
Up
The words of the त्यदादिगण are called 'वृद्ध'.
Kashika
Up
यस्याचामादिग्रहणमुत्तरार्थमनुवर्तते। इह तु न संबध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम् एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवदीयम्। किमीयम्॥
Siddhanta Kaumudi
Up
वृद्धसंज्ञानि स्युः ॥
Laghu Siddhanta Kaumudi
Up
वृद्धसंज्ञानि स्युः॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> 1.1.73 इत्यतः <<एङ् प्राचां देशे>> 1.1.75 इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । त्यदादिगणे विद्यमानानाम् शब्दानाम् 'वृद्ध' इति संज्ञा भवति । - इति अस्य सूत्रस्य आशयः ।
'त्यदादिगणः' इति <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यत्र पाठितस्य सर्वादिगणस्य उपगणः अस्ति । त्यदादिगणे आहत्य द्वादश सर्वनामशब्दाः विद्यन्ते —
त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् । इति त्यदादिगणः ॥
एतेषां सर्वेषाम् शब्दानाम् प्रकृतसूत्रेण 'वृद्ध'संज्ञा भवति ।
त्यदादिगणस्य शब्दानां वृद्धसंज्ञायाः प्रयोजनम्
'वृद्ध' संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । एते सर्वे विधयः त्यदादिगणस्य शब्दानां विषये अपि इष्यन्ते, अतः एतेषाम् अनेन सूत्रेण वृद्धसंज्ञा क्रियते । कानिचन उदाहरणानि एतानि —
1. <<वृद्धाच्छः>>
4.2.114 इति सूत्रेण वृद्धसंज्ञकेभ्यः शब्देभ्यः तद्धितसंज्ञकः 'छ'प्रत्ययः भवति । प्रक्रियाः एतादृश्यः —
त्यस्य / तस्य / यस्य / एतस्य / अस्य / अमुष्य / कस्य इदम् [तद्धितवृत्तिः]
= त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + छ [<<तस्येदम्>> 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> 4.2.114 इति छ-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]
→ त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय्-आदेशः । ]
→ त्यदीय / तदीय / यदीय / एतदीय / इदमीय / अदसीय / किमीय
एकस्य इदम्
= एक + छ [<<तस्येदम्>> 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> 4.2.114 इति छ-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]
→ एक + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय्-आदेशः । ]
→ एक् + ईय [<<यस्येति च>> 6.4.148
→ एकीय
तव / मम इदम् [तद्धितवृत्तिः]
= युष्मद् / अस्मद् + छ [<<तस्येदम्>> 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> 4.2.114 इति छ-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]
→ युष्मद् / अस्मद् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय्-आदेशः । ]
→ त्वद् / मद् + ईय [<<प्रत्ययोत्तरपदयोश्च>> 7.2.98 इति त्व/म-आदेशः]
→ त्वदीय / मदीय
2. <<उदीचां वृद्धादगोत्रात्>>
4.1.157 इति सूत्रेण 'युष्मद्' / 'अस्मद्' एतयोः वृद्धसंज्ञकशब्दयोः 'फिञ्' इति प्रत्ययः भवति । प्रक्रिया इयम् —
तव / मम अपत्यम्
→ युष्मद् / अस्मद् + फिञ् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे षष्ठीसमर्थात् <<उदीचां वृद्धादगोत्रात्>> 4.1.157 इति सूत्रेण फिञ्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]
→ युष्मद् + अस्मद् + आयनि [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति फकारस्य आयन्-आदेशः ।]
→ त्वद् / मद् + आयनि [<<प्रत्ययोत्तरपदयोश्च>> 7.2.98 इति त्व/म-आदेशः]
→ त्वाद् / माद् + आयनि [ञित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
→ त्वादायनि / मादायनि
3. त्यदादिगणस्य 'भवत्' इति वृद्धसंज्ञकशब्दात् <<भवतष्ठक्छसौ>>
4.2.115 इत्यनेन छस्-प्रत्ययः भवति । प्रक्रिया इयम् —
भवतः इदम्
→ भवत् + छस् [<<तस्येदम्>> 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> 4.2.114 इति छ-प्रत्यये प्राप्ते; तदपवादत्वेन <<भवतष्ठक्छसौ>> 4.2.115 इत्यनेन छस्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]
→ भवत् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय्-आदेशः । ]
→ भवद् + ईय [सित्-प्रत्यये परे प्रकृतेः <<सिति च>> 1.4.16 इति पदसंज्ञा । पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> 8.2.39 इति तकारस्य जश्त्वे दकारः]
→ भवदीय
Balamanorama
Up
<<त्यदादीनि च>> - त्यदादीनि च । शेष पूरणेन सूत्रं व्याचष्टे — वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः ।
Padamanjari
Up
उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता; उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् - उतरार्थमनुवर्तत इति । त्यादायनिरति । 'उदीचां वृद्धादगोत्राद्' इति फञ्, 'प्रत्ययोतरपदयोश्च' ॥