उदीचां वृद्धादगोत्रात्

4-1-157 उदीचां वृद्धात् अगोत्रात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् फिञ्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) उदीचामगोत्रात् वृद्धात् फिञ्

Neelesh Sanskrit Brief

Up

यः वृद्धसंज्ञकः शब्दः गोत्रसंज्ञकः नास्ति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन फिञ्-प्रत्ययः भवति ।

Kashika

Up

वृद्धं यच्छब्दरूपमगोत्रम्, तस्मादपत्ये फिञ् प्रत्ययो भवत्युदीचामाचार्याणां मतेन। आम्रगुप्तायनिः। ग्रामरक्षायणिः। कारिशब्दादपि वृद्धादगोत्रात् परत्वादनेनैव भवितव्यम्। नापितायनिः। उदीचामिति किम्? आम्रगुप्तिः। वृद्धादिति किम्? याज्ञदत्तिः। अगोत्रादिति किम्? औपगविः॥

Siddhanta Kaumudi

Up

आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उदीचां वृद्धादगोत्रात्>> - उदीचां वृद्धा । वृद्धसंज्ञकादगोत्रप्रत्ययान्तात्फिञ्स्यादुदीचां मते इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यमिति विग्रहः । प्राचां त्विति । 'मते' इति शेषः । आम्नगुप्तिः । अत इञ् । औपगविरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इञेवेति भावः ।

Padamanjari

Up

कारिशब्दादपीति । कारिलक्षणस्योदीचामिञोऽवकाशः - तान्तुवायिः, फिञोऽवकाशः - आम्रगुप्तायनिः; नापितादुभयप्रसङ्गे फिञ् भवति । याज्ञदतिरिति ।'वा नामदेयस्य वृद्धसंज्ञा वक्तव्या' । पक्षे याज्ञदतायनिरिति भवत्येव ॥