यथासादृश्ये

2-1-7 यथा असादृश्ये आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः अव्ययं

Sampurna sutra

Up

यथा असादृश्ये सुपा सह अव्ययीभावः समासः

Neelesh Sanskrit Brief

Up

'सादृश्यम्' इति अर्थं विहाय अन्येषु अर्थेषु प्रयुक्तः 'यथा' इति शब्दः समर्थेन सुबन्तेन सह समस्यते । अयम् समासः 'अव्ययीभावः' नाम्ना ज्ञायते ।

Neelesh English Brief

Up

The word 'यथा', when used in a meaning different than 'similarity', undergoes a समास with a related सुबन्त, and the समास is called अव्ययीभावसमास.

Kashika

Up

यथेत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। यथावृद्धं ब्राह्मणानामन्त्रयस्व। येये वृद्धाः, यथावृद्धम्। यथाध्यापकम्। असादृश्य इति किम्? यथा देवदत्तस्तथा यज्ञदत्तः। यथार्थे यदव्ययमिति पूर्वेणैव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम्॥

Siddhanta Kaumudi

Up

असादृश्ये एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं निषिध्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यथाऽसादृश्ये>> - यथाऽसादृस्ये । 'असादृश्ये' इति छेदः । व्याख्यानात् । असादृश्ये योग्यतावीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्य यथार्थत्वादेव सिद्धे नियमार्थमिदमित्याह-असादृश्ये एवेति । ननुप्रकारवचने था॑लिति विहिततताल्प्रत्ययान्तस्य कथं सादृश्ये वृत्तिरित्यत आह — हरेरिति । सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन्प्रकारे थालिति 'प्रकारवचने थाल्' इत्यास्यार्थः । ततश्च यद्विशेषधर्मवान्हरिस्तद्विशेषधर्मवान्हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोरभेदावगमादुपमानत्वप्रतीतिरिति भावः । तेनेतिप्राप्त॑मित्यत्रान्वयः । सादृश्यार्थकत्वेनेत्यर्थः । सादृश्य इति वेति ।अव्ययं विभक्ती॑ति सूत्रगतेन सादृश्ये वर्तमानमव्ययं समस्यत इत्यंशेन वा, यथार्थे विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्तमव्ययीभावसमासकार्यं निषिध्यत इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृस्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता । यथाशब्दस्य सूत्रगृहीतत्वेन तद्योगे यतार्थेत्यस्याऽप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः ।

Padamanjari

Up

सादृश्ये समासस्य पूर्वेणैव सिध्दत्वादसंदेहार्थं सादृश्ये यथेत्यवचनाच्च नञोऽत्र प्रश्लेषः। असादृश्ये इति कितिति। सूत्रं किमर्थमित्यर्थः। यथा देवदत इति । देवदतस्य यज्ञदतं प्रत्युपमानत्वं यथाशब्दो द्योतयति। तत्रोपमानस्योपमेयापेक्षत्वेऽपि यथा-देवदतशब्दयोः सामर्थ्यात्परस्परेम समासप्रसङ्ग इति भावः। अथ पूर्वेणात्र सादृश्य इति वा, यथार्थ इति वा कस्मान्न भवतीत्याह पूर्वेणैवेति॥