नाव्ययीभावादतोऽम्त्वपञ्चम्याः

2-4-83 न अव्ययीभावात् अतः अम् तु अपञ्चम्याः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वेण लुक् प्राप्तः प्रतिषिध्यते। अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः। एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति। उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अत इति किम्? अधिस्त्रि। अधिकुमारि। अपञ्चम्या इति किम्? उपकुम्भादानय॥

Siddhanta Kaumudi

Up

अदन्तादव्ययीभावात्सुपो न लुक् किंतु तस्य पञ्चमीं विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियामित्यमरः ॥

Laghu Siddhanta Kaumudi

Up

अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात् ॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> - तथाच अव्ययीभावसमासादुत्पन्नानां सुपामव्ययादाप्सुप इति लुक् स्यादिति शङ्कायामाहनाव्ययीभावात् । 'अम् तु अपञ्चम्या' इति छेदः । 'नाव्ययीभावदतः' इत्येकं वाक्यम् ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते । 'अव्ययादाप्सुपः' इत्यतः 'सुप' इति च । अता अव्ययीभावो विशेष्यते । तेन तदन्तविधिः । तदाह अदन्तादव्ययीभावात्सुपो न लुगिति । 'अम् तु अपञ्चम्याः' इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात् । पञ्चम्यास्तु अम्न भवतीति लभ्यते । तदाह — तस्य पञ्चमीं विना अमादेश इति । अत्राऽपञ्चम्या इति प्रतिषेधोऽयमनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि । एवंचाऽदन्तादव्ययीभावात्परस्य सुपो न लुक्, किंत्वमादेशः । पञ्चम्यास्तु लुगमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तुशब्दः ।अव्ययीभावादतोऽम्त्वपञ्चम्याः॑ इत्येवोक्तौ तु अदन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादोऽमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे 'अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाऽप्येतत्सिध्यति,अव्ययीभावश्चे॑ति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापिगोस्त्रियो॑रिति सूत्रं चित्रगु अतिखट्व इत्याद्यर्थमावश्यकमितीहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्याऽदृष्टेनापि योगविभागेनाऽपदिशमिति रूपसाधनं वृद्धसंमतमित्याह-क्लीबेऽव्ययमिति ।

Padamanjari

Up

नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ किमर्थः प्रतिषेधः? पूर्वसूत्रेण लुङ्माभूदिति। अमत्र विधीयते, स नाप्राप्ते लुकारभ्यमाणस्तस्य बाधको भविष्यति, यत्र तर्हि प्रतिषिध्यते, पञ्चम्यास्तत्र लुक् प्राप्नोति। प्रतिषेधे तु सतित तत्सामर्थ्याद् द्वे वाक्ये भवतः - -नाव्ययीभावादित्येकम्, अम्त्वपञ्चम्या इति द्वितीयम्। अत्र चात इत्यपेक्ष्यते। तत्रापञ्चम्या इत्यनेनानन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पञ्चम्या आदेशः प्रतिषिद्ध्यते, न पूर्ववाक्यविहितः प्रतिषेधः। इममेवार्थ तुशब्देन द्योतयति - अविशेषेण प्रितषेधः अम्त्वपञ्चम्या इति, तदेतदुक्तम् - तस्मिन्प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवतीति। वाक्यभेदस्तु वृतावेव स्पष्टः। उपकुम्भादिति। समीपभूतात्कुम्भादित्यर्थः। कुम्भस्य समीपादित्यपरे। उन्मतगङ्गादिरन्यपदार्थप्रधानः सत्ववाच्यव्ययीभावः क्रियासम्बन्धसद्भावादपादानत्वात्पञ्चम्या मुख्यमुदाहरणम्॥