अव्ययीभावः

2-1-5 अव्ययीभावः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा

Sampurna sutra

Up

अव्ययीभावः समासः

Neelesh Sanskrit Brief

Up

इतः परम् <<तत्पुरुषः>> 2.1.22 इति यावत् उक्ताः समासाः अव्ययीभावसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

The समासाः told till 2.1.22 are called अव्ययीभावसमासाः ।

Kashika

Up

अव्ययीभाव इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वमनुक्रमिष्यामः, अव्ययीभावसंज्ञास्ते वेदितव्याः। वक्ष्यति — <<यथासादृश्ये>> २.१.७ — यथावृद्धं ब्राह्मणानामन्त्रयस्व। अन्वर्थसंज्ञा चेयं महती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति। अव्ययीभावप्रदेशाः — <<अव्ययीभावश्च>> २.४.१८ इत्येवमादयः॥

Siddhanta Kaumudi

Up

अधिकारोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

अधिकारोऽयं प्राक् तत्पुरुषात् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अव्ययीभावः>> - अव्ययीभावः । अधिकारोऽयमिति । एकसंज्ञाधिकारेऽपि अनया संज्ञया समास संज्ञा न बाध्यते इति 'प्राक्कडारात्' इत्यत्रोक्तम् ।

Padamanjari

Up

इह लघ्वर्थ संज्ञाकरणमित्येकाक्षरा संज्ञां कार्या, किमर्थं महती क्रियते इत्याहृ-अन्वथसंज्ञा चेयमिति। अनवव्ययमव्ययं भवतीत्यव्ययीभावः,'भेवतेर्ण उपसंख्यानम्' इति णप्रत्ययः। अन्वर्थत्वे किं सिध्यतीत्यत आहतेनेति। पूर्वपदग्रङ्णमव्ययस्योपलक्षणार्थम्। सूपप्रति, शाकप्रतीत्यादावुतरपदार्थप्रधान्यान्न स्यातस्मादव्ययीभावेऽव्ययार्थः प्रधानमिति सूत्यते। एवं ह्यव्ययानव्ययसमुदायोऽव्ययधर्मभादव्ययं भवतीति। किं सिध्दं भवति? समृध्दा मद्राः समद्रा इत्यादावुतरपदार्थप्रधान्येऽव्ययीभावस्यातिप्रसङ्गः परिहृतो भवति। पारेगङ्गम्, द्विमुनि, उन्मतगङ्गमित्यादौ चच वचनादव्ययीभावः। एवं चानव्ययमव्ययं भवतीत्यन्वर्थतयैवाव्ययकार्यस्यापि लाभाद् ठव्ययीभावश्चऽ इत्येतदपि न तदिति चोत्, न; अत्रैव परिगणय्यान्वर्थत्वेन वा विशिष्टकार्यविषयमव्ययत्वमनुनीयताम्॥