2-1-13 आङ् मर्यादाभिविध्योः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा पञ्चम्या
index: 2.1.13 sutra: आङ् मर्यादाभिविध्योः
मर्यादा-अभिविध्योः आङ् पञ्चम्याः विभाषा अव्ययीभावः समासः
index: 2.1.13 sutra: आङ् मर्यादाभिविध्योः
'मर्यादा' तथा 'अभिविधिः' एतयोः अर्थयोः प्रयुक्तः 'आङ्' शब्दः पञ्चम्यन्तेन सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति ।
index: 2.1.13 sutra: आङ् मर्यादाभिविध्योः
The word 'आङ्' used in the meaning of मर्यादा (exclusive limit) and अभिविधि (inclusive limit) optionally undergoes a समास with a related word in पञ्चमी, and the समास is called अव्ययीभावसमास.
index: 2.1.13 sutra: आङ् मर्यादाभिविध्योः
आङित्येतन् मर्यादायामभिविधौ च वर्तमानम् पज्चम्यन्तेन सह विभाषा संस्यते, अव्ययीभावश्च समासो भवति। आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात्। अभिविधौ आकुमारं यशः पाणिनेः, आ कुमारेभ्यः।
index: 2.1.13 sutra: आङ् मर्यादाभिविध्योः
एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः आ मुक्तेः । आबालं हरिभक्तिः आ बालेभ्यः ॥
index: 2.1.13 sutra: आङ् मर्यादाभिविध्योः
आङ् मर्यादाभिविध्योः - आङ्मर्यादाभिविध्योः । एतयोरिति । मर्यादाभिविध्योर्विद्यमानादित्यर्थः । मर्यादायामुदाहरति-आमुक्तीति । मुक्तेः प्रागित्यर्थः । अमिविधावुदाहरति-आबलमिति । बालानारभ्येत्यर्थः । 'आङ्मर्यादावचने' इत्युभयत्रापि कर्मप्रवचनीयत्वात्पञ्चम्यपाङ्परिभि॑रिति पञ्चमी ।
index: 2.1.13 sutra: आङ् मर्यादाभिविध्योः
'मर्यादाभिविध्योः' इति शक्यमकतुंम्, कथम्? पञ्चम्येति वर्तते, आङ च कर्मप्रवचनूयेनैव योगे पञ्चमी विहिता, एतयोश्यैवार्थयोराङ्ः कर्मप्रवचीयसंज्ञा-ठाङ् मर्यादावचनेऽ इति। तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्याद् इत्यभिविधावपि भवति। तत्रैव वाऽभिविधिग्रहणमेवास्तु॥