3-3-92 उपसर्गे घोः किः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
भावेऽकर्तरि च कारक इति वर्तते। उपसर्ग उपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति। कित्करणमातो लोपार्थम्। प्रदिः। प्रधिः। अन्तर्धिः॥
प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥
प्रधिः। उपधिः॥