7-3-70 घोः लोपः लेटि वा
index: 7.3.70 sutra: घोर्लोपो लेटि वा
घुसंज्ञकानां लेटि परतो वा लोपो भवति। दधद्रत्नानि दाशुषे। सोमो ददद् गन्धर्वाय। न च भवति। यदग्निरग्नये ददात्। आडागमे सति लोपेऽपि ददातिति सिद्धं भवति। तत्र वावचनं विस्पष्टार्थम्, एषा हि कस्यचिदाशङ्का स्यात्, ददातित्येव नित्ये प्राप्ते लोपः आरभ्य माणो बाधते एव एतद् रूपम् इति।
index: 7.3.70 sutra: घोर्लोपो लेटि वा
दधद्रत्नानि दाशुपे (दध॒द्रत्ना॑नि दा॒शुपे॑) । सोमो ददद्गन्धर्वाय (सोमो॑ ददद्गन्ध॒र्वाय॑) । यदग्निरग्नय ददात् (यद॒ग्निर॒ग्नय॑ ददात्) ।
index: 7.3.70 sutra: घोर्लोपो लेटि वा
दधदिति । दधातेर्लेट्, तिप् ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः । दाशुषे यजमानाय सत्नानि, दद्यादित्यर्थः । अन्ये त्वाहुः - दधदिति शत्रन्तमेतत्, दददिति दाञो रूपम् । वावचनं प्रत्याचिख्यासुराह - आडागमे सतीति । अस्त्वत्र लोपः; आटः श्रवणं भविष्यतीत्यर्थः । किमर्थ तर्हि वावचनम् ? इत्यत आह - तत्रेति । किमत्र विस्पष्टनीयम् ? अत आह - एषा हीति । अन्ये त्वाहुः - ज्ञापकार्थं वाग्रहणम्, एतज्ज्ञापयति - अनित्यमागमशासनमिति । अनित्यत्वे त्वाट।ल्सति ददादिति न स्यादिति तत्सिद्धये वाग्रहणं कर्तव्यमिति ॥