स्था घ्वोरिच्च

1-2-17 स्थाध्वोः इत् च कित् आत्मनेपदेषु सिच्

Kashika

Up

index: 1.2.17 sutra: स्था घ्वोरिच्च


सिजात्मनेपदेषु इति वर्तते । तिष्ठतेर्धातोः घुसंज्ञकानां च इकारश्च अन्तादेशः सिच् च किद् भवति आत्मनेपदेषु परतः । उपास्थित, उपास्थिषाताम्, उपास्थिषत । घुसंज्ञकानाम् - अदित, अधित ।

इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः ।

अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ॥1॥

Siddhanta Kaumudi

Up

index: 1.2.17 sutra: स्था घ्वोरिच्च


अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः । अदिषि ।{$ {!963 श्यैङ्!} गतौ$} । श्यायते । शश्ये ।{$ {!964 प्यैङ्!} वृद्धौ$} । प्यायते । पप्ये । प्याता ।{$ {!965 त्रैङ्!} पालने$} । त्रायते । तत्रे ।{$ {!966 पूङ्!} पवने$} । पवते । पुपुवे । पविता ।{$ {!967 मूङ्!} बन्धने$} । मवते ।{$ {!968 डीङ्!} विहायसा गतौ $}। डयते । डयिता ।{$ {!969 तॄ!} प्लवनतरणयोः$} ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.17 sutra: स्था घ्वोरिच्च


अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत॥ {$ {! 10 डुधाञ् !} धारणपोषणयोः $} ॥ दधाति॥

Balamanorama

Up

index: 1.2.17 sutra: स्था घ्वोरिच्च


स्थाघ्वोरिच्च - लुङि सिचि अदास् त इति स्थिते — स्थाध्वोरिच्च । 'असंयोगाल्लिट्' इत्यतः किदिति,हनस्सि॑जित्यतः सिजिति चानुवर्तते । तदाह - अनयोरित्यादिना । परस्मैपदेषु नेदं प्रवर्तते, तत्र 'गातिस्थे' ति सिचो लुका लुप्तत्वात् । अत एव 'लिङ्सिचौ' इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यवर्त्त्याऽभावात् । अदितेति । इत्त्वेकृतेह्रस्वादङ्गा॑दिति सिचो लुक् । त इत्यस्य ङित्त्वादिकारस्य न गुणः । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक्, झलिपरतएव लुग्विधेः । सिचः कित्त्वादिकारस्य न गुणः । अदिषातामदिषत । अदिथाः अदिषाथाम् । अदिढ्वम् । अदिषीति । अदिष्वहि अदिष्महि । अदास्यदित्यपि ज्ञेयम् । श्यैङ् गतौ । श्यायते इति । शपि आयादेशः । शिद्विषत्वादात्वं नेति भावः । शश्ये इति । एशि आत्वे आतो लोपः । शश्याते शश्यिरे । क्रादिनियमादिट् । शश्यिषे शश्याथे शश्यिध्वे । शश्ये शश्यिवहे शश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्यैङ्धातुरपि श्यैङ्वत् । त्रैङप्येवम् । पूङ् पवने इति । पवते इति । सेट्, ऊदन्तानामनिट्सु पर्युदासात् । पवते इति । शपि गुणः । अवादेशः । पुपुवे इति । कित्त्वाद्गुणाऽभावे उवङ् । पुपुवाते पुपुविरे । पुपुविषे पुपुवाथे पुपुविध्वे । पुपुवे पुपुविवहे पुपुविमहे । पविता । पविष्यते । पवताम् । सेडयम्, अनिट्सु डीङः पर्युदासात् । डयते इति । शपि ईकारस्य गुणेऽयादेश इति भावः । डिडए डिडिवहे डिडिमहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयीषीष्ट डयिषीयास्ताम् । डयिषीरन् । डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्-डयिषीध्वम् । डयिषीय डयिषीवहि डयिषीमहि । अडयिष्ट ।अडयिष्यत । इति स्मिङादयो डीङन्ता ङितः । तृधातुः सेट् परस्मैपदी । अनिट्सु ॠदन्तपर्युदासात्सेट् ।

Padamanjari

Up

index: 1.2.17 sutra: स्था घ्वोरिच्च


चकारेण कित्वं समुच्चीयत इत्याह - सिच्च किदिति । प्रयोजनं गुणो मा भूदिति । इत्वं तु गुणविधानार्थमेव स्यात्; लघुत्वात् । उपास्थितेति । ऽउपान्मन्त्रकरणेऽ ऽअकर्मकाच्चऽ इत्यात्मनेपदम्, ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । न चेत्वं सिजीत्युच्यते, किं तर्हि ? इकारश्चान्तादेशस्सिच्च किद्भवतीत्येतावत् । तेनेत्वस्यासिज्निमितत्वाद् भवत्येव लोपः । इच्चेत्यादि । तकार इद्यस्य तस्य भावः तकोरेत्वम्, इच्चेत्यत्र निर्देशे कस्य, कार्यस्य सिद्धये इकारस्य तकारेत्वं क्रियत इत्यर्थः । दीर्घो मा भूदिति । आन्तर्यतः प्राप्नोतीति भावः । ऋतेऽपि स इति । इकारविधानेनापि विनेत्यर्थः । कित्वे हि घुमास्थादिसूत्रेणैव दीर्घस्सिद्धः, तस्मादित्वविधानसामर्थ्याद् अनन्तरतमोऽपि ह्रस्व एव भविष्यतीत्यर्थः । भाव्यमानोऽण्सवर्णान्न गृह्णाति इत्ययमप्यत्र परिहारः संभवति । अनन्तर इति । असदृश आदेशे क्रियमाणे ह्रस्व इव प्लुतोऽपि स्यात्,स मा भूदित्यर्थः । प्लुतश्चेति । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधीयेत, तदा यत्र विषये ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इत्यादिना प्लुतो विहितस्तत्राप्यनेनैव स्याद्, अस्मिन्कर्तव्ये तस्यासिद्धत्वादिति पक्षेऽनुवाददोषः प्राप्नोति,ततो ह्रस्व एव भविष्यति । अन्ये तु तपरत्वमनेन समर्थितं मन्यन्तेअसति तकार आन्तरयंतो दीर्घस्य दीर्घः प्राप्नोति । ननु चोक्तम्-ऽसिद्धोऽत्र दीर्घःऽ इति ? सिद्धे सत्यारम्भो नियमार्थः स्याद्-दीर्घ एव यथा स्यात् प्लुतो मा भूदिति तदिदमुक्तम् - अन्न्तर इत्यादिना । घुमास्थादिसूत्रेणानेन वा दीर्घे सति यद्यपि विशेषो नास्ति, तथाप्यनन्तरेऽविद्यमानेऽपि विशेषे प्लुतो मा भूदिति दीर्घः स्यादित्यर्थः । मा भूद् इति चेत् तत्राह-प्लुतश्चेति । स चासति तपरत्वे न प्राप्नोति, सति तु तस्मिन् दीर्घस्याप्रसङ्गाद्विधिरेव संपद्यत इति स्वविषये प्लुतो न व्यावर्त्यते । तदेवमन्यत्र भिन्नकालनिवृत्यर्थं तपरकरणम्, इह तु दीर्घनिवृत्यर्थं प्लुतप्रवृत्यर्थं च वस्तुबलात्समपादि ॥