1-1-19 ईदूतौ च सप्तम्यर्थे प्रगृह्यम्
ईदूतौ सप्तम्यर्थे प्रगृह्यम्
सप्तम्यर्थे प्रयुक्तः ईकारान्तः / ऊकारान्तः शब्दः प्रगृह्यसंज्ञकः भवति ।
An ईकारान्त and an ऊकारान्त word that represents the meaning of सप्तमी gets the term 'प्रगृह्य'.
शाकल्यस्येतावनार्ष इति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसंज्ञं भवति। अध्यस्यां मामकी तनू (पै०सं० ६.६.८)। मामक्यां तन्वामिति प्राप्ते। मामक्याम् , मामकी इति। तन्वाम् ,तनू इति। सोमो॑ गौ॒री अधि॑ श्रि॒तः (ऋ० ९.१२.३)। ईदूताविति किम् ? प्रि॒यः सूये᐀्॑ प्रि॒यो अ॒ग्ना भ॑वाति (ऋ० ५.३७.५)। अग्निशब्दात् परस्याः सप्तम्या डादेशः। सप्तमीग्रहणं किम् ? धीती मती सुष्टुती। धीत्या मत्या सुष्टुत्या इति प्राप्ते। अर्थग्रहणं किम् ? वाप्यश्वः। नद्यातिः। तपरकरणमसन्देहार्थम् ।
ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद् भवेत् ।
पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते॥ १॥
वचनाद् यत्र दीर्घत्वं तत्रापि सरसी यदि।
ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत्॥ २॥
सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुक् <{SK3561}> इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् । वाप्यामश्वो वाप्यश्वः ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् अन्तिमम् (नवमं) सूत्रम् । ये ईकारान्तशब्दाः ऊकारान्तशब्दाः सप्तमीविभक्तेः अर्थं प्रदर्शयन्ति, तेषाम् अनेन सूत्रेण प्रगृह्यसंज्ञा विधीयते ।
वस्तुतः लौकिकसंस्कृते विद्यमानानि सप्तमीविभक्तेः रूपाणि ईकारान्तानि उत ऊकारान्तानि नैव सन्ति । अतः भाषायाम् विद्यमानानाम् शब्दानाम् विषये अनेन सूत्रेण प्रगृह्यसंज्ञा न हि दीयते । परन्तु वेदेषु कुत्रचित् ईकारान्त/ऊकारान्तप्रातिपदिकात् परस्य सप्तमीविभक्तिप्रत्ययस्य <<सुपां सुलुक्पूर्वसवर्णा...>> 7.1.39 इत्यनेन लोपः कृतः दृश्यते । एतादृशे लोपे कृते अवशिष्टम् ईकारान्तम् / ऊकारान्तं प्रातिपदिकम् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययलक्षणां पदसंज्ञां संप्राप्य सप्तमीविभक्तेः एव अर्थं बोधयति । एतादृशस्य पदसंज्ञकस्य प्रातिपदिकस्य अनेन सूत्रेण प्रगृह्यसंज्ञा भवति । यथा - 'सोमो गौरी अधिश्रितः' (ऋग्वेदः 9.12.3) इति वाक्ये 'गौरी' इति शब्दः वस्तुतः सप्तम्येकवचनस्य रूपम् अस्ति । प्रक्रिया इयम् —
<<ईदूतौ च सप्तम्यर्थे>> - ईदूतौ च ।प्रगृह्र॑मित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । शब्दस्वरूपस्य विशेष्यत्वात्तदन्तविधिः ।ईदूतौ च सप्तम्या॑वित्येव सिद्धेऽर्थग्रहणाद्यत्र सप्तम्या लुकियः शिष्यते स लुप्यमानार्थाभिधायी॑ इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसानं तथाविधत्वमीदूदन्तयोर्गम्यते । तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्रौ स्त इत्यक्षरार्थः । फलितमाह — सप्तम्यर्थ इत्यादिना । सोमो गौरी इति । गौर्यामित्यर्थः ।सुपां सुलु॑गिति सप्तम्या लुक् । प्रगृह्रत्वे प्रकृतिभावान्न यण् । वातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम्, तत्र सप्तम्या लुप्तत्वाऽभावेन प्रकृतेः सप्तम्यर्थेऽप्रवृत्तेः । मामकी तनू इति । मामक्यां तन्वामित्यर्थः ।सुपां सुलु॑गिति सप्तम्यालुक् । प्रगृह्रेभ्यः परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् पदपाठे 'मामकी इति'तनू इती॑त्यत्र प्रगृह्रत्वफलं बोध्यम् । ननु 'ईदूतौ च सप्तम्याः' इत्येव सूत्र्यताम् । षटआ चाऽर्थद्वारा संबन्धो विवक्ष्यतां, ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्यार्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति — अर्थग्रहणं किमिति । कस्म#ऐ प्रयोजनायेत्यर्थः ।कि॑मित्यव्ययम् । वृत्ताविति । अर्थग्रहणसामर्थ्याल्लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यर्थो विवक्षितः । ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घ्य उत्तरपदार्थे प्रवृत्ते सति प्रगृह्रसंज्ञा न भवति । मा भूदिति । 'माङि लुङ्' सर्वलकारापवादः । वाप्यआ इति । 'वाप्याम् — अआ' इति विग्रहे सुप्सुपेति समासे 'वाप्यआ' इति रूपमित्यर्थः । अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतं, तच्चाधिकरणकारकं क्रियापेक्षं । तत्र वाप्यामआओ वर्तत इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या विद्यमानेऽओ लक्षमया प्रवृतिंत पुरस्कृत्य समासो वक्तव्यः । एवं च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलङ्घ्य तत्संसृष्टे आधेयभूतेऽओऽपि प्रवृत्तेः सप्तम्यर्थमात्राविश्रान्त्यभावान्न प्रगृह्रत्वमिति भावः ।
शाकल्यस्येताविति निवृतमिति । अस्वरितत्वात् । इह चश्ब्देन प्रत्नेन प्रकृतमनुकृष्यते, तत्र संज्ञाया अननुवृतौ विधेयं नास्तीति सैवानुकृष्यते । मामक्यां तन्वामिति प्राप्त इति । सप्तम्यर्थं दर्शयति । मामकीतनूशब्दौ शुपां सुलुक्' इति लुप्तसप्तमीकौ । मामकी इति, तनू इतीति । कार्योदाहरणे । गौरी अधिश्रित इति तु संहितापाठेऽपि कार्योदाहरणमिति । स एव तत्र दर्शतः । अग्ना भवातीति । रूपप्रत्युदाहरणम्, कार्यं तु पदकाले । धीतीत्यादि । धीति-मति-सुष्टुअतिशब्देभ्यः परस्य तृतीयेकवचनस्य पूर्वसवर्ण ईकारः, तद्दर्शयतिधीत्या, मत्येत्यादिना । वाप्यश्वः, नद्यातिरिति । शंज्ञायाम्' इति सप्तमीसमासः । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति, अस्ति ह्यत्रापि सप्तम्यर्थः ? उच्यते; जहत्स्वार्था वृत्तिरिति पक्षे समासस्यैवार्थवत्वात्पूर्वोतरपदयोर्वर्णवदानर्थक्यमिति सप्तम्यर्थो नास्ति । अजहत्स्वार्थायामपि वृतावुपसर्जनपदं न स्वार्थमात्रे पर्यवस्याति; किन्तु तत्संसृष्टे प्रधानार्थे । तत्रार्थग्रहणसामर्थ्याद्यावानर्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्टरूपस्तसयैव ग्रहणमिति संसृष्टे न भविष्यति । तपरकरणं गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां प्लुतानां निवृत्यर्थमिति चेत्, न; अनण्त्वादसंभावाच्च । न हि सप्तम्यर्थवृत्ति प्लुतान्तं सम्भवतीत्यत आह-तपरकरणमित्यादि । ईदूतावित्यादि । 'ईदूतौ सप्तमी' इत्येवास्तु, ङार्थोऽर्थग्रहणेन । लुप्तेऽर्थग्रहणाद्भवेदिति । असत्यर्थग्रहणे संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् सप्तम्या एव संज्ञा स्यात्, ततश्च शोमो गौरी अधिश्रितः' इत्यत्र न स्याल्लुप्तत्वात् । अर्थग्रहणे त्वर्थनिमितेयं संज्ञा, न तु प्रत्ययश्रवणनिमिता । अतः 'लुप्तेऽर्थग्रहणाद्भवेत्'। नात्र सप्तमी लुप्यते, पूर्वसवर्णोऽत्र भवति-सुपां सुलुगिति । ततोऽकः सवर्णे दीर्घत्वेन तस्यादिवत्वात् सप्तमीग्रहणेन ग्रहणाद् अस्त्येव सप्तमीति शङ्कतेपूर्वस्य चेदिति । दूषयति-आडाम्भाव इति । यदि ह्यत्र पूर्वसवर्णः स्यात्, दीर्घा देशं बाधित्वाऽऽडामौ स्याताम्, अतो लुगेव युक्तः । तस्मादर्थग्रहणं कर्तव्यम् ? न कर्तव्यम्, यस्मात्सर्वत्रैव लुका भाव्यमिति न क्वचित्सप्तम्यस्ति । उच्यते चेदम्-'तत्र वचनसामर्थ्यात्संज्ञाविधावपि तदन्तविधिर्भविष्यति । नेदं वचनाल्लभ्यम्,यतो वचनाद्यत्र दीर्घत्वं तत्रैव स्याद्-दृतिं न शुष्कं सरसीशयानम् ' इति । अत्र हि सरः शब्दात्परस्य ङिशब्दस्य 'इयाडियाजीकाराणामुपसङ्ख्यानम्' इतीकारे कृते सप्तम्येव श्रूयते इति तत्रैव स्याद्, न गौरी इत्यादौ । तत्रापि सरसी यदि । तत्रापि सिद्धम्, कथम् ? यदि सरसीशब्दो विद्यते । असंदिग्धे संदिग्धाभधानमेतद्, शास्त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति च सरसीशब्दः, दक्षिणापथे महान्ति सरांसि शरस्यः' उच्यन्ते । ततश्च सरसीशब्दोऽपि लुप्तसप्तमीक एवेति वचनातदन्तविधिरित्येतदेव स्थितम् । एवं तर्हि-ज्ञापकं स्यातदन्तत्वे । 'ईदूदेद्' इत्यत्र चत्वारः पक्षा उपन्यस्ताः, तत्र तदन्तत्वे इत्यनेन तृतीयचतुर्थपक्षावुपलक्षयति । तत्र ज्ञापकं स्याद्-इह प्रगृह्यप्रकरणे प्रत्यलक्षणं न भवतीति; यदि स्यात्, पूर्वोक्तन्यायेन संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेराश्रयणात् लुप्तायामपि सप्तम्यां प्रत्ययलक्षणेन सप्तम्यन्तमिति संज्ञा भविष्यति, किमर्थग्रणेन ? तेन तदन्तत्वे यो दोष उक्तः-प्रत्ययलक्षणेन संज्ञा प्राप्नोति, स न भवतीति संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र नैव स्थित इत्याह - मा वेति ॥