नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च

8-4-17 नेः गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद्

Sampurna sutra

Up

रषाभ्यां उपसर्गात् - गद-नद-पत-पद-घु-मा-स्यति-हन्ति-याति-वाति-द्राति-प्साति-वपति-वहति-शाम्यति-चिनोति-देग्धिषु नेः नः णः

Neelesh Sanskrit Brief

Up

गद्, नद्, पत्, पद्, मा, सो, हन्, या, वा, द्रा, प्सा, वप्, वह्, शम्, चि, दिह् धातूनां योगे, तथा घुसंज्ञकधातूनां योगे णत्वनिमित्तकात् उपसर्गात् परस्य 'नि' उपसर्गस्य णत्वं भवति

Neelesh English Brief

Up

A णत्वनिमित्तक उपसर्ग causes the णत्व of the उपसर्ग 'नि' attached to the following verbs - गद्, नद्, पत्, पद्, मा, सो, हन्, या, वा, द्रा, प्सा, वप्, वह्, शम्, चि, दिह् , and also for घुसंज्ञक verbs.

Kashika

Up

नि इत्येतस्योपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति गद नद पत पद घु मा स्यति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धि इत्येतेषु परतः। गद — प्रणिगदति। परिणिगदति। नद — प्रणिनदति। परिणिनदति। पत — प्रणिपतति। परिणिपतति। पद — प्रणिपद्यते। परिणिपद्यते। घु — प्रणिददाति। परिणिददाति। प्रणिदधाति। परिणिदधाति। माङ् — प्रणिमिमीते। परिणिमिमीते। मेङ् — प्रणिमयते। परिणिमयते। मा इति माङ्मेङोर्ग्रहणमिष्यते। स्यति — प्रणिष्यति। परिणिष्यति। हन्ति — प्रणिहन्ति। परिणिहन्ति। याति — प्रणियाति। परिणियाति। वाति — प्रणिवाति। परिणिवाति। द्राति — प्रणिद्राति। परिणिद्राति। प्साति — प्रणिप्साति। परिणिप्साति। वपति — प्रणिवपति। परिणिवपति। वहति — प्रणिवहति। परिणिवहति। शाम्यति — प्रणिशाम्यति। परिणिशाम्यति। चिनोति — प्रणिचिनोति। परिणिचिनोति। देग्धि — प्रणिदेग्धि। परिणिदेग्धि। अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते। प्रण्यगदत्। परिण्यगदत्॥

Siddhanta Kaumudi

Up

उसर्गस्थान्निमित्तात्परस्य नेर्णः स्यात् गदादिषु । प्रणिगदति । जगाद ।{$ {!53 रद!} विलेखने$} । विलेखनं भेदनम् । रराद । रेदतुः ।{$ {!54 णद!} अव्यक्ते शब्दे$} ॥

Laghu Siddhanta Kaumudi

Up

उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु। प्रणिगदति॥

Neelesh Sanskrit Detailed

Up

यदि णत्वनिमित्तकात् उपसर्गात् परः 'नि' उपसर्गः आगच्छति, तर्हि तस्य नकारस्य अस्मिन् सूत्रे निर्दिष्टानां धातूनां विषये णत्वं भवति । क्रमेण पश्यामः - (1) भ्वादिगणस्य धातवः - अ) गद् (व्यक्तायां वाचि) - प्रणिगदति, परिणिगदति । आ) णद् (अव्यक्ते शब्दे) - प्रणिनदति, परिणिनदति । इ) वप् (बीजसन्ताने) - प्रणिवपति, परिणिवपति । ई) वह् (प्रापणे) - प्रणिवहति, परिणिवहति । (2) अदादिगणस्य धातवः - अ) हन् (हिंसागत्योः) - प्रणिहन्ति, परिणिहन्ति । आ) या (प्रापणे) - प्रणियाति, परिणियाति इ) वा (गतिगन्धनयोः) - प्रणिवाति, परिणिवाति । ई) द्रा (कुत्सायां गतौ) - प्रणिद्राति, परिणिद्राति । उ) प्सा (भक्षणे) - प्रणिप्साति, परिणिप्साति । ऊ) दिह् (उपचये) - प्रणिदेग्धि, परिणिदेग्धि । (3) दिवादिगणस्य धातवः - अ) पद् (गतौ) - प्रणिपद्यते, परिणिपद्यते । आ) सो (अन्तकर्मणि) - प्रणिष्यति, परिणिष्यति । इ) शम् (उपशमे) - प्रणिशाम्यति, परिणिशाम्यति । (4) स्वादिगणस्य धातुः अ) चिञ् (चयने) - प्रणिचिनोति, परिणिचिनोति । (5)चुरादिगणस्य धातुः - अ) पत् (गतौ) - प्रणिपतति, परिणिपतति । (6) मा - इत्यनेन त्रयः धातवः गृह्यन्ते - (अ) भ्वादिगणस्य मेङ् (प्रणिदाने) - प्रणिमयते, परिणिमयते । (आ) जुहोत्यादिगणस्य माङ् (माने शब्दे च) - प्रणिमिमीते, परिणिमिमीते । (इ) दिवादिगणस्य माङ् (माने) - प्रणिमायते, परिणिमायते । अत्र 'मा माने' इत्यस्य अदादिगणस्थस्य ग्रहणं न भवति । (7) घुसंज्ञकः धातवः (<<दाधा घ्वदाप्>> 1.1.20 इत्यनेन घुसंज्ञकधातवः पाठ्यन्ते) । यथा - (अ) दा (दाने)- प्रणिददाति, परिणिददाति । (आ) धा (धारणपोषणयो) - प्रणिदधाति, परिणिदधाति ।

Balamanorama

Up

<<नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति- वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च>> - नेर्गद ।रषाभ्यां नो मः॑इत्यनुवर्तते ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तच् उपसर्गस्थे लाक्षणिकं । तदाह — उपसर्गस्थादिति । श्तिता शपा च निर्देशा यङ्लुग्निवृत्त्यर्था । प्रणिगदतीति । भिन्नपदस्थत्वादप्राप्तौ वचनम् । रदेति । णलि उपधावृद्धिमभिप्रेत्याह — ररादेति । रेदतुरित्यादि । अरादीत् अरदीत् । णदेति । अव्यक्तशब्दः — अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः ।

Padamanjari

Up

'गामादाग्रहणेष्वविशेषः' इति वचनात्'मीनातिमिनोतिदीङम्' इत्यात्वे कृते यन्मारूपम्, यच्च'मा माने' इति, तेषामपि ग्रहणप्रसङ्गः ? इत्या शङ्क्याह - माङ्मेङेर्ग्रहणमिष्यत इति । इष्टिरेवेयम् । प्रणिष्यतीति । ठोतः श्यनिऽ, ठुपसर्गात्सुनोतिऽ इत्यादिना षत्वम् । हन्तिप्रभृतयः प्सातिपर्यन्ता अदादयः,'मा माने च' । प्रणिशाम्यतीति ।'शमामष्टानां दीर्घः श्यनि' । स्य्त्यादिषु तिपा निर्देशो यङ्लुग्निवृत्यर्थः । अड्व्यवायेऽपीति । अन्यथाङ्गस्याडुच्यते, विकरणान्तं चाङ्गम्, सोऽसौ सङ्घातभक्तोऽशक्यो गदादिग्रहणेन ग्रहीतुमिति न स्यात् । आङ चेति वक्तव्यम् - प्रण्यागददिति । ततर्हि वक्तव्यम् ? न वक्तव्यम्, ठटकुप्वाङ्नुम्व्यवायेऽ इति वर्तते, तेन नेर्गदादीनां चाड्व्यवाये च भविष्यति । प्रन्युपगदतीत्यादौ तु'पदव्यवाये' पिऽ इति प्रतिषेधादप्रेसङ्गः ॥