आद्यन्तवदेकस्मिन्

1-1-21 आद्यन्तवत् एकस्मिन्

Sampurna sutra

Up

एकस्मिन् आदि-अन्तवत्

Neelesh Sanskrit Brief

Up

केवलं एकः वर्णः अस्ति चेत् सः यथा आदिवत् कार्यम् करोति, तथैव अन्तवदपि कार्यं करोति ।

Neelesh English Brief

Up

If a word has a single letter, it acts as the first letter, and it also acts as the last letter.

Kashika

Up

असहायस्याद्यन्तोपदिष्टानि कार्याणि न सिध्यन्तीत्ययमतिदेश आरभ्यते । सप्तम्यर्थे वतिः। आदाविव अन्त इव एकस्मिन्नपि कार्यं भवति। यथा क॒र्तव्य॑म् इत्यत्र प्रत्ययाद्युदात्तत्वं ३.१.३ भवति, एवम् औ॒प॒ग॒वम् इत्यत्रापि यथा स्यात् । यथा वृक्षाभ्यामित्यत्रातोऽङ्गस्य दीर्घत्वम् ७.३.१०२ एवमाभ्यामित्यत्रापि यथा स्यात् । एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः। आकारमाश्रित्य वृद्धसंज्ञा न भवति॥

Siddhanta Kaumudi

Up

एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥

Laghu Siddhanta Kaumudi

Up

एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥

Neelesh Sanskrit Detailed

Up

यदि कुत्रचित् शब्दस्य 'आदिवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव आदिवर्णसंज्ञां स्वीकरोति । तथैव, यदि कुत्रचित् शब्दस्य 'अन्तिमवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव अन्तिमवर्णः ज्ञातव्यः - इति अस्य सूत्रस्य आशयः । यथा - 1. 'अ' (= विष्णुः) इति अकारान्तपुंलिङ्गशब्दः । अस्य तृतीयाद्विवचनस्य रूपसिद्धौ 'अ + भ्याम्' इति स्थिते एकः प्रश्नः आगच्छति - <<सुपि च>> 7.3.102 इत्यनेन अङ्गस्य अन्तिम-अकारस्य दीर्घादेशः भवति । परन्तु अत्र अङ्गे केवलं एकः एव वर्णः अस्ति । तर्हि सः एव अन्तिमवर्णरूपेण स्वीकर्तुं शक्यते वा? (तस्मात् पूर्वम् किमपि नास्ति चेत् अयमन्तिमवर्णः कथं स्यात् - इति संशयः ।) अस्य उत्तरमनेन सूत्रेण दीयते - यत्र एकः एव वर्णः अस्ति, तत्र सः आदिवर्णवत् अपि कार्यं करोति, अन्तिमवर्णवत् अपि कार्यं करोति । अतः अत्र अनेन <<सुपि च>> 7.3.102 इत्यनेन अकारस्य दीर्घः भवितुमर्हति । 2. 'गुरोः भावः' अस्मिन् अर्थे गुरु-शब्दस्य अण्-प्रत्यये कृते 'गौरव' शब्दः सिद्ध्यति । अत्र प्रत्यये णकारः इत्संज्ञकः अस्ति, अतः केवलं अकारः एव अवशिष्यते । अयम् यद्यपि एकाल्-प्रत्ययः अस्ति, तथापि <<आद्यन्तवदेकस्मिन्>> 1.1.21 इत्यनेन सः आदिवत् अपि कार्यम् करोति, अतः <<आद्युदात्तश्च>> 3.1.3 इत्यनेन 'गौरव' अस्मिन् शब्दे वकारात् परः अयम् (प्रत्ययस्य आदिभूतः) अकारः उदात्तसंज्ञकः भवति । सामान्यभाषायाम् एतत् सूत्रम् स्पष्टीकर्तुम् एकमुदाहरणम् दीयते - 'देवदत्तस्य एकः एव पुत्र अस्ति चेत्, स एव ज्येष्ठः, स एव कनिष्ठः ' । इत्युक्ते, देवदत्तस्य यदि केवलं एकः एव पुत्रः अस्ति, तर्हि 'रे देवदत्त, तव ज्येष्ठपुत्रः कः' इति पृष्टेऽपि देवदत्तः तस्यैव निर्देशं करोति यस्य सः 'रे देवदत्त, तव कनिष्ठपुत्रः कः' इति पृष्टे करोति । अनेनैव प्रकारेण शब्दे एकः एव वर्णः अस्ति चेत् सः एव आदिवर्णः, सः एव अन्तिमवर्णः भवति । परिभाषेन्दुशेखरे विषयेऽस्मिन् एका परिभाषा दत्ता अस्ति - <<व्यपदेशिवदेकस्मिन्>> । अस्याः परिभाषायाः अर्थः अयम् - कस्यापि पदार्थस्य 'एकस्य भागस्य' दत्तमभिधानमपि सः पदार्थः तदा स्वीकरोति यदा सः पदार्थः स्वयम् एकभाग-इत्येव अस्ति । इयम् परिभाषा अस्य सूत्रस्यैव अर्थम् स्पष्टीकरोति ।

Balamanorama

Up

<<आद्यन्तवदेकस्मिन्>> - ननु इदम् भ्यामिति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ-भ्याम् इति स्थिते अङ्गस्याकारात्मकत्वाददन्तत्वाभावात्कथंसुपि चे॑ति दीर्घ इत्यत आह-आद्यन्तवदे । आदित्वान्तत्वयोर्नित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्पाप्त्यर्थमिदमारभ्यते ।एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । सप्तम्यन्ता॒त्तत्र तस्येवे॑ति वतिः, एकस्मिन्नित्युपमेये सप्तमीदर्शनात् । वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकं संबध्यते । तदाह-एकस्मिन्नित्यादि । तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः । एकस्मिन्निति किम् । दरिद्रातेरेरजिति न । आदिवत्त्वफलम्-औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम् । आभ्यामित्यादौ अन्तवत्त्वाद्दीर्घादिर्भवति । भाष्ये तु आद्यन्तवदित्यपनीय व्यपदेशिवदेकस्मिन्निति सूत्रपाठः शिक्षितः । तेन इयायेत्यादौएकाचो द्वे प्रथमस्ये॑ति द्विर्भावः, धुगित्यत्र व्यपदेशिवत्त्वेन धात्ववयवत्वाद्भष्भावश्च सिध्यति । विशिष्टोऽपदेशो-व्यपदेश=मुख्यो व्यवहारः । सोऽस्यास्तीति व्यपदेशी । मुख्य इति यावत् । एकस्मिन् तदादित्वतदन्तत्वतदवयवत्वादिप्रयुक्तकार्यं स्यादिति फलितम् । ()इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।२.४.३२ ।इदम् — भिसिति स्थिते त्यदाद्यत्वे पररूपे 'हलि लोपः' इति इदो लोपे अ-भिस् इति स्थितेअतो भिस ऐ॑सिति प्राप्ते — नेदमदसोरकोः ।अतो भिस ऐ॑सित्यतो भिस ऐसित्यनुवर्तते ।अको॑रिति षष्ठो । न विद्यते ककारो ययोरिति बहुव्रीहिः । तदाह — अककारयोरित्यादिना । एत्त्वमिति ।बहुवचने झलीत्यनेने॑ति शेषः । ङयि विशेषमाह-अत्वमित्यादि । अत्वं ङेः स्मै इत्यन्वयः । इदम् एव इति स्थिते स्मैभावात्परत्वादनादेशेविप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायेन पुनः स्मैभावो न स्यादित्यत आह — नित्यत्वादिति । कृतेऽकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात्प्रागेव स्मैभावे कृतेऽनादेशस्य हलि लोपेन बाध इति भावः । आभ्यामिति । पूर्ववत् । एभ्य इति । त्यदाद्यत्वं, पररूपत्वं, हलि लोपः,बहुवचने झल्ये॑दित्येत्त्वंचेति भावः । अस्मादिति । त्यदाद्यत्वं, पररूपत्वं हलि लोपःस 'ङसिङ्योः' इति स्मादिति भावः । अस्येति । त्यदाद्यत्वं, पररूपत्वं, स्यादेशः, हलि लोपश्चेति भावः । अनयोरिति । त्यदाद्यत्वंस पररूपत्वम्, 'अनाप्यकः'ओसि चे॑त्येत्त्वम्, अयादेशश्चेति भावः । एषामिति । आमि त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । अस्मिन्निति । अत्वं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः । एइआति अत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । ककारयोगे त्विति ।अव्ययसर्वनाम्नामकच् प्राक् टे॑रित्यनेन इदंशब्दस्य, अकचि सतीत्यर्थः । अयकमिति । अकचि सति निष्पन्नस्य इदकम्शब्दस्यतन्मध्यपतिन्यायेन 'इदमो मः' इत्यादाविदंग्रहणेन ग्रहणान्मत्वादिकमिति भावः । 'अनाप्यकः' इति, 'हलि लोपः' इति,नेदमदसोरको॑रिति च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेनाह — इमकेन इमकाभ्यामिति । इत्यादीति । इमकैः । इमकस्यै । इमकेभ्यः । इमकस्मात् । इमकस्य, इमकयोः २, इमकेषाम् । इमकस्मिन् इमकेषु ।

Padamanjari

Up

'द्वन्द्वे घि' इत्येतद्वाधित्वा 'अजाद्यदन्तम् ' इत्यन्तशब्दस्य पूर्वनिपातः प्राप्नोऽस्मादेव निर्द्देशान्न भवति । न चात्यन्तबाधः, अन्तादिवच्चेति लिङ्गात् । असहायस्येत्यादिना सूत्रारम्भस्य प्रयोजनमाह । सति परस्मिन् यस्मात्पूर्वं नास्ति स आदिः, सति च पूर्वस्मिन्यस्मात्परं नास्ति सोऽन्तः, तदेतदुभयमसहाये न सम्भवति । तस्मादाद्यन्तयोर्यान्युपदिष्टानि उक्तानि कार्याणि तान्यसहायस्यापि यथा स्युरित्ययमारम्भः । असहायस्येत्यनेनासहायवचन एकशब्दो न संख्यावचन इति दर्शयति । बहुष्वपि व्यवस्थितस्यैकत्वसंख्यास्तीति 'एकस्मिन्' इति व्यर्थं स्यादिति भावः । 'एकस्मिन्' इत्युपमेये सप्तमीश्रवणादुपमानस्यापि सप्तमीसमर्थतेत्याह-सप्तम्यर्थे वतिरिति । वर्तमानादिति शेषः । 'तत्र तस्येव' इति इवार्थे वतिः । पूर्वं त्वसहायस्येति षष्ठीनिर्देशः सप्तम्यर्थस्यैव शेषरूपविवक्षया । कार्यार्थत्वात्सर्वातिदेशानां प्राधान्यात्कार्यातिदेशोऽयमित्याह-कार्ये भवतीति । । आद्यन्तवद्व्यपदेशो निमितम् । 'पूर्ववत्सनः' इति तु निर्मूलम्, व्यपदेशातिदेशे हि कुरुते, कुर्वे इत्यादौ अन्तवद्व्यपदेशेऽपि अन्त्योऽजादिरस्येत्येवं रूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वाते इत्यादौ तु दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे न दोषः । आभ्यामिति । अत्र द्वे अन्तत्वे उपयुज्येते-आकारान्तस्याङ्गस्यालोऽन्त्यस्य दीर्घ इति । सभासन्नयन इति । असत्येकग्रहणे यत्रादिव्यपदेशो नास्ति मध्येऽसहाये च सोऽतिदेशस्य विषयः । 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इत्यत्रादिग्रहणस्याप्येतदेव व्यावर्त्यमिति विकल्पः स्यात्-कदाचिद् वृद्धसंज्ञा, कदाचिन्न इति । तस्मादाकारमाश्रित्य पक्षे वृद्धसंज्ञा न भवतीति ग्रन्थार्थः ॥