द्विस्त्रिश्चतुरिति कृत्वोऽर्थे

8-3-43 द्विस्त्रिश्चतुः इति कृत्वोर्थे पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः अन्यतरस्याम्

Sampurna sutra

Up

कृत्वः-अर्थे द्विस्-त्रिस्-चतुः इणः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् सः

Neelesh Sanskrit Brief

Up

'कृत्व' इत्यस्मिन् अर्थे प्रयुज्यमानानाम् द्विस्/त्रिस्/चतुर्-शब्दानाम् इण्-वर्णात् परस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन षकारादेशः भवति ।

Neelesh English Brief

Up

For the words द्विस् (= twice), त्रिस् (= thrice), and चतुर् = (four times) which are used to indicate frequency, their विसर्ग when followed by a letter from कवर्ग or पवर्ग is optionally converted to ष्.

Kashika

Up

ष इति संबध्यते। द्विस् त्रिस् चतुर् इत्येतेषां कृत्वोऽर्थे वर्तमानानां विसर्जनीयस्य षकार आदेशो भवत्यन्यतरस्यां कुप्वोः परतः। द्विष्करोति, द्विःकरोति। त्रिष्करोति, त्रिःकरोति। चतुष्करोति, चतुःकरोति। द्विष्पचति, द्विःपचति। त्रिष्पचति, त्रिःपचति। चतुष्पचति, चतुःपचति। कृत्वोऽर्थ इति किम्? चतुष्कपालम्। चतुष्कण्टकम्। पूर्वेण नित्यं षत्वं भवति। <<इदुदुपधस्य०>> ८.३.४१ इत्यस्यानुवृत्तौ सत्यां कृत्वोऽर्थविषयेण च पदेन विसर्जनीये विशेष्यमाणे द्विस्त्रिश्चतुरिति शक्यमकर्तुम्।

कृत्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुष्कपाले मा।

षत्वं विभाषया भून्ननु सिद्धं तत्र पूर्वेण ॥ १॥

सिद्धे ह्ययं विधत्ते चतुरः षत्वं यदापि कृत्वोऽर्थे ।

लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयो हि॥ २॥

एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम्।

अन्यो हि नेदुदुपधः कृत्वोऽर्थः कश्चिदप्यस्ति ॥ ३॥

अक्रियमाणे ग्रहणे विसर्जनीयस्तदा विशेष्येत।

चतुरो न सिध्यति तथा रेफस्य विसर्जनीयो हि ॥ ४॥

तस्मिंस्तु क्रियमाणे युक्तं चतुरो विशेषणं भवति।

प्रकृतं पदं तदन्तं तस्यापि विशेषणं न्याय्यम् ॥ ५॥

एवं त्वक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे चतुःशब्दस्य कृत्वोऽर्थेऽपि वर्तमानस्य पूर्वेणैव नित्यं षत्वं स्यात्। पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य॥

Siddhanta Kaumudi

Up

कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यादि । कृत्वोऽर्थे किम् । चतुष्कपालः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अस्य सूत्रस्य अर्थम् ज्ञातुम् सर्वप्रथमम् 'कृत्व' इत्युक्ते किम् तत् पश्यामः । 'कतिवारम्' अस्य प्रश्नस्य उत्तरार्थम् येषाम् शब्दानाम् प्रयोगः भवति, ते कृत्वर्थाः । यथा, सामान्यभाषायाम् यत् 'द्विवारम्' / 'त्रिवारम्' / 'पञ्चवारम्' एतादृशाः शब्दाः प्रयुज्यन्ते, ते सर्वे कृत्वर्थे सन्ति । तद्धितप्रकरणे 'कृत्वसुँच्' , 'सकृत्' तथा 'सुँच्' एते त्रयः प्रत्ययाः अस्मिन्नेव अर्थे उक्ताः सन्ति । एतेभ्यः 'सुँच्' प्रत्ययस्य विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति, अतः अत्र 'सुँच्' प्रत्ययं एव पश्यामः । 'सुँच्' अयं प्रत्ययः <<द्वित्रिचतुर्भ्यः सुच्>> 5.4.18 अनेन सूत्रेण द्वि, त्रि, तथा चतुर् - एतेभ्यः प्रातिपदिकेभ्यः कृत्वर्थे विधयते । अस्मिन् प्रत्यये उकार-चकारयोः इत्संज्ञा लोपश्च भवति, अतः केवलं 'स्' इत्यवशिष्यते । अग्रे - - द्वि + सुच् → द्विस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → द्विः । - त्रि + सुच् → त्रिस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → त्रिः । - चतुर् + सुच् → चतुर् स् → [<<रात्सस्य>> 8.2.24 इत्यनेन सकारस्य लोपे कृते] चतुर् -→ [रेफस्य अवसाने खरि परे वा विसर्गे] → चतुः । एतादृशम् 'द्विस् ', 'त्रिस् ' तथा चतुर् एतानि प्रातिपदिकानि सिद्ध्यन्ति । इदानीमस्य सूत्रस्य अर्थज्ञानम् सरलरूपेण भवेत् । एतत् सूत्रम् द्विस्, त्रिस्, चतुर् - एतेषाम् शब्दानाम् विषये उक्तमस्ति । एतेषामन्तिमवर्णस्य यः विसर्गः भवति, तस्य कवर्गे पवर्गे परे <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यनेन विकल्पेन जिह्वामूलीये/उपध्मानीये प्राप्ते वर्तमानसूत्रेण विकल्पेन षकारादेशः अपि भवति । यथा - द्विः + करोति → द्विष्करोति, द्विःकरोति, द्वि≍करोति । त्रिः + करोति → त्रिष्करोति, त्रिःकरोति, त्रि≍करोति । चतुः + करोति → चतुष्करोति, चतुःकरोति, चतु≍करोति । चतुर्-शब्दस्य विषये किञ्चित् अधिकम् ज्ञेयम् - अत्र प्रयुक्तः 'चतुर्' शब्दः कृत्वर्थे अस्ति - सङ्ख्यार्थे न इति स्मर्तव्यम् । सङ्ख्यार्थे प्रयुज्यमानः चतुर्-शब्दः (यथा - चत्वारि फलानि - आदयः) भिन्नः, अत्र कृत्वर्थे प्रयुक्तः चतुर्-शब्दः (यथा - सः चतुः पठति) भिन्नः । सङ्ख्यार्थे यः चतुर्-शब्दः प्रयुज्यते, तस्य विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>>8.3.41 इत्यनेन नित्यमेव षत्वं विधीयते । परन्तु कृत्वर्थे प्रयुज्यमानस्य चतुर्-शब्दस्य वर्तमानसूत्रेण विकल्पेन षत्वं विधीयते ।

Balamanorama

Up

Padamanjari

Up