तिरसोऽन्यतरस्याम्

8-3-42 तिरसः अन्यतरस्याम् पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः

Sampurna sutra

Up

तिरसः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् सः

Neelesh Sanskrit Brief

Up

तिरस्-शब्दस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन सकारादेशः भवति ।

Neelesh English Brief

Up

The विसर्ग of the word तिरस् is optionally converted to सकार in presence of कवर्ग / पवर्ग letter.

Kashika

Up

तिरसो विसर्जनीयस्यान्यतरस्यां सकारादेशो भवति कुप्वोः परतः। तिरस्कर्ता। तिरस्कर्तुम्। तिरस्कर्तव्यम्। तिरः कर्ता। तिरः कर्तुम्। तिरः कर्तव्यम्। गतेरित्येवतिरः कृत्वा काण्डं गतः॥

Siddhanta Kaumudi

Up

तिरसो विसर्गस्य सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'तिरस्' इति शब्दः स्वरादिगणे निर्दिष्टः अस्ति । अतः <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन अव्ययत्वे, ततश्च पदत्वे प्राप्ते अस्य सकारस्य खरि परे रुँत्वविसर्गः भवति । अस्य विसर्गस्य <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यनेन कवर्गे पवर्गे परे विकल्पेन जिह्वामूलीय-उपध्मानीयौ प्राप्ते तिरस्-शब्दस्य विषये विकल्पेन सकारादेशः अपि विधीयते । यथा - 1. तिरस् + करोति → तिरः करोति → तिर≍करोति, तिरःकरोति, तिरस्करोति । 2. तिरस् + पतति → तिरः पतति → तिर≍पतति, तिरःपतति, तिरस्पतति ।

Balamanorama

Up

Padamanjari

Up

'तिरो' न्तर्धौऽ इति तिरः शब्दस्य गतिसंज्ञा । तिरः कृत्वेति । अत्रान्तर्धेरविवक्षितत्वादगतित्वम् ॥