नश्च
8-3-30 नः च पदस्य पूर्वत्र असिद्धम् संहितायाम् वा शरि सि धुट्
Sampurna sutra
Up
पदस्य नः सि धुट् वा
Neelesh Sanskrit Brief
Up
पदान्तनकारात् परस्य सकारस्य संहितायाम् विकल्पेन धुडागमः भवति ।
Neelesh English Brief
Up
In the context of संहिता, a सकार present after a पदान्त नकार optionally gets a धुट् आगम.
Kashika
Up
नकारान्तात् पदादुत्तरस्य सकारस्य वा धुडागमो भवति। भवान्त्साये, भवान् साये। महान्त्साये, महान् साये। धुटश्चर्त्वस्य चासिद्धत्वाद् <<नश्छव्यप्रशान्>> ८.३.७ इति रुत्वं न भवति॥
Siddhanta Kaumudi
Up
नकारान्तात्सस्य धुड्वा । सन्त्सः । सन्सः ॥
Laghu Siddhanta Kaumudi
Up
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥
Neelesh Sanskrit Detailed
Up
पदान्त-नकारात् परस्य सकारस्य संहितायाम् विकल्पेन 'धुट्' इति आगमः भवति । अयम् टित्-आगमः, अतः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन अयम् सकारात् पूर्वम् विधीयते ।
द्वे उदाहरणे एतादृशे —
1. भवान् सुन्दरः इत्यत्र प्रकृतसूत्रेण धुडागमः —
भवान् सुन्दरः
→ भवान् धुट् सुन्दरः [<<नश्च>> 8.3.30 इत्यनेन सकारस्य पाक्षिकः धुडागमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ भवान् ध् सुन्दरः [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ भवान् त् सुन्दरः [धकारस्य <<खरि च>> 8.4.55 इति चर्त्वे तकारः । अत्र चर्त्वे कृते तस्य असिद्धत्वात् <<नश्छव्यप्रशान्>> 8.3.7 इति पदान्तनकारस्य रुँत्व नैव सम्भवति ।]
→ भवान्त्सुन्दरः
<<नश्च>> 8.3.30 इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना केवलं वर्णमेलनं कृत्वा भवान्सुन्दरः इत्यपि सिद्ध्यति ।
2. महान् सः इत्यत्र प्रकृतसूत्रेण धुडागमः —
महान् सः
→ महान् धुट् सः [<<नश्च>> 8.3.30 इत्यनेन सकारस्य पाक्षिकः धुडागमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ महान् ध् सः [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ महान् त् सः [धकारस्य <<खरि च>> 8.4.55 इति चर्त्वे तकारः । अत्र चर्त्वे कृते तस्य असिद्धत्वात् <<नश्छव्यप्रशान्>> 8.3.7 इति पदान्तनकारस्य रुँत्व नैव सम्भवति ।]
→ महान्त्सः
<<नश्च>> 8.3.30 इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना केवलं वर्णमेलनं कृत्वा महान्सः इत्यपि सिद्ध्यति ।
सूत्रे स्थानिनिर्णयः
प्रकृतसूत्रे
नः इति पदम् पञ्चमीविभक्तौ विद्यते, तथा च
सि इति सप्तम्यन्तम् पदम् अनुवर्तते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते,
नः इति पूर्वनिमित्तम् स्वीकृत्य सकारः स्थानिरूपेण ग्रहीतव्यः, उत
सि इति परनिमित्तम् स्वीकृत्य नकारः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते) <<विप्रतिषेधे परं कार्यम्>>
1.4.2 इत्यस्याः परिभाषायाः साहाय्यं स्वीक्रियते । अष्टाध्याय्याम् <<तस्मादित्युत्तरस्य>>
1.1.67 इति पञ्चमीनिमित्तकम् कार्यम् <<तस्मिन्निति निर्दिष्टे पूर्वस्य>>
1.1.66 इति सप्तमीनिमित्तकात् कार्यात् अनन्तरम् पाठितम् अस्ति, अतः
विप्रतिषेधेन अत्र पञ्चमीनिमित्तकम् कार्यं बलवत् स्वीकृत्य नः इति पूर्वनिमित्तरूपेण स्वीक्रियते, अतश्च सि इत्यनेन निर्दिष्टः सकारः स्थानित्वं गृह्णाति । अतएव अयम् धुडागमः
सि इति स्थानिनः पूर्वम् भवति ।
अयमेव विषयः <<उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् >> इति परिभाषायाः रूपेण नागेशेन प्रतिपादितः अस्ति —
यत्र तु डः सि धुट् इत्यादौ उभयोः अपि अचारितार्थ्यम् तत्र 'तस्मिन्' इति सूत्रापेक्षया 'तस्मादित्युत्तरस्य' इत्यस्य परत्त्वात् तेनैव व्यवस्था । — परिभाषेन्दुशेखरे 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इत्यत्र नागेशः ।
अस्मिन् व्याख्याने विद्यमाने 'इत्यादौ' इति शब्देन प्रकृतसूत्रम् अपि गृह्यते । प्रकृतसूत्रे
नः इत्यस्य पञ्चमीविभक्तिः तथा च
सि इत्यस्य सप्तमीविभक्तिः — एते द्वे अपि अन्यत्र चारितार्थ्यं नैव प्राप्नुतः । इत्युक्ते, एतयोः द्वयोः अपि पदयोः विभक्ती अनुपयोगिन्यौ एव स्तः, यतः यद्यपि एतयोः उभयोः शब्दयोः प्रयोगः अन्यसूत्रेषु कृतः अस्ति तथापि एतयोः पञ्चमीनिर्देशः सप्तमीनिर्देशः वा तेषु स्थलेषु न हि उपयुज्यते । अतश्च अस्मिन् स्थले <<उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् >> इति परिभाषया पञ्चमीनिर्देशस्य बलीयस्त्वम् स्वीकृत्य सप्तमीविभक्तिः षष्ठ्या विपरिणम्यते ।
Balamanorama
Up
<<नश्च>> - नश्च । 'सि धुट्' इति,वे॑ति चानुवर्तते । न इति पञ्चमी । तस्मादित्युत्तरस्येति परिभाषया सीति षष्ठी सम्पद्यते । तदाह-नकारान्तात्परस्येति । सन्त्स इति । धुटि धस्य चर्त्वम् ।
Padamanjari
Up
अत्रापि परादित्वात् कुर्वन् सीदतीत्यादौ'पदान्तस्य' इति णत्वप्रतिषेधो भवति । धुटश्चर्त्वस्यासिद्धत्वादिति । धुटो यच्चर्त्वं तस्यासिद्धत्वादित्यर्थः । यद्यपि धुडप्यसिद्धः, तथापि न तदुच्यते; सिद्धेऽपि तस्मिन्विना चर्त्वेन रुत्वस्याप्राप्तेः । नन्वस्तु चर्त्वमसिद्धम्, तथापि नैव रुः प्राप्नोति, अनम्परत्वात् ? सत्यम्; यस्त्वसौ धुट उकारः, तेन भूतपूर्वेणाम्परत्वमंभ्युपेत्यैतदुक्तम् । अन्ये तु ग्रन्थमिमं न पठन्ति ॥