ङ्णोः कुक्टुक् शरि
8-3-28 ङ्णोः कुक्टुक् शरि पदस्य पूर्वत्र असिद्धम् संहितायाम् वा
Sampurna sutra
Up
पदस्य ङ्णोः शरि कुक् टुक् वा
Neelesh Sanskrit Brief
Up
पदान्ते विद्यमानस्य ङकारस्य णकारस्य च संहितायाम् शर्-वर्णे परे यथासङ्ख्यम् विकल्पेन कुक् तथा टुक् आगमः भवति ।
Neelesh English Brief
Up
In the context of संहिता, a ङकार and a णकार at end of a पद optionally get कुक् and टुक् आगम respectively.
Kashika
Up
ङकारणकारयोः पदान्तयोः कुक् टुग् इत्येतावागमौ वा भवतः शरि परतः। प्राङ्क् शेते, प्राङ् शेते। प्राङ्क् षष्ठः, प्राङ् षष्ठः। प्राङ्क्साये, प्राङ् साये। णकारस्य — वण्ट् शेते, वण् शेते। पूर्वान्तकरणं प्राङ्क् छेते इत्यत्र छत्वार्थम्। <<शश्छोऽटि>> ८.४.६३ इति हि पदान्ताद् झय इति तद् विज्ञायते। इह मा भूत् — पु॒रा क्॒रूरस्य॑ वि॒सृपो॑ विरप्शिन् (मा०सं० १.२८), प्राङ्क् साय इत्यत्रापि <<सात्पदाद्योः>> ८.३.१०९ इति षत्वप्रतिषेधार्थं च, वण्ट् साय इत्यत्र च <<न पदान्ताट्टोरनाम्>> ८.४.४२ इति ष्टुत्वप्रतिषेधार्थम्॥
Siddhanta Kaumudi
Up
ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाज्जश्त्वं न ।<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् !> (वार्तिकम्) ॥ प्राङ्ख्षष्ठः । प्राङ्क्षष्ठः । प्राङ्षष्ठः । सुगण्ठ्षष्ठः । सुगण्टषष्ठः । सुगण्षष्ठः ॥
Laghu Siddhanta Kaumudi
Up
वा स्तः। <<चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्>> (वार्त्तिकम्) । प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥
Neelesh Sanskrit Detailed
Up
शर् = श् , ष् , स्
पदान्तङकारस्य संहितायाम् श्/ष्/स्-वर्णे परे विकल्पेन कुक्-आगमः भवति, पदान्तणकारस्य च संहितायाम् श्/ष्/स्-वर्णे परे विकल्पेन टुक्-आगमः भवति । द्वौ अपि एतौ आगमौ कितौ स्तः, अतः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन एतौ स्थानिनः अनन्तरम् विधीयेते । उदाहरणानि क्रमेण एतानि —
1. शकारे परे आगमविधानम्
i) प्राङ् (east) इत्यस्मात् शब्दात् शेते शब्दे परे पदान्तङकारस्य कुक्-आगमः भवति ।
प्राङ् + शेते [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]
→ प्राङ् + कुक् + शेते [<<ङ्णोः कुक्टुक् शरि>> 8.3.28 इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अन्त्यावयवः]
→ प्राङ् + क् + शेते [अन्तिमककारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ प्राङ् + क् / ख् + शेते [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ प्राङ्क्शेते / प्राङ्ख्शेते [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् <<खरि च>> 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे कुगागमं विना प्राङ्शेते इत्यपि रूपं सिद्ध्यति ।
ii) सुगण् (the one who counts well) इत्यस्मात् शब्दात् शेते शब्दे परे पदान्तणकारस्य टुक्-आगमः भवति ।
सुगण् + शेते [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।
→ सुगण् + टुक् + शेते [<<ङ्णोः कुक्टुक् शरि>> 8.3.28 इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अन्त्यावयवः । अस्मिन् आगमे विद्यमानः टकारः इत्संज्ञकः नास्ति, केवलम् ककारः एव इत्संज्ञकः अस्ति । अतः अयम् आगमः कित्-आगमः अस्ति, न हि टित्-आगमः ।]
→ सुगण् + ट् + शेते [ककारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ सुगण् + ट् / ठ् + शेते [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र टकारस्य विकल्पेन ठकारादेशः अपि सम्भवति ।]
→ सुगणट्शेते / सुगणठ्शेते [वर्णमेलनम् । अत्र ठकारस्य विधानसामर्थ्यात् <<खरि च>> 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे टुगागमं विना सुगण्शेते इत्यपि रूपं सिद्ध्यति ।
2. षकारे परे आगमविधानम्
i) प्राङ् (east) इत्यस्मात् शब्दात् षष्ठ शब्दे परे पदान्तङकारस्य कुक्-आगमः भवति ।
प्राङ् + षष्ठः [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]
→ प्राङ् + कुक् + षष्ठः [<<ङ्णोः कुक्टुक् शरि>> 8.3.28 इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अन्त्यावयवः]
→ प्राङ् + क् + षष्ठः [अन्तिमककारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ प्राङ् + क् / ख् + षष्ठः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ प्राङ्क्षष्ठः / प्राङ्ख्षष्ठः [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् <<खरि च>> 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे कुगागमं विना प्राङ्षष्ठः इत्यपि रूपं सिद्ध्यति ।
ii) सुगण् (the one who counts well) इत्यस्मात् शब्दात् षष्ठ शब्दे परे पदान्तणकारस्य टुक्-आगमः भवति ।
सुगण् + षष्ठः [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।
→ सुगण् + टुक् + षष्ठः [<<ङ्णोः कुक्टुक् शरि>> 8.3.28 इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अन्त्यावयवः ।]
→ सुगण् + ट् + षष्ठः [ककारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ सुगण् + ट् / ठ् + षष्ठः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र टकारस्य विकल्पेन ठकारादेशः अपि सम्भवति ।]
→ सुगणट्षष्ठः / सुगणठ्षष्ठः [वर्णमेलनम् । अत्र ठकारस्य विधानसामर्थ्यात् <<खरि च>> 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे टुगागमं विना सुगण्षष्ठः इत्यपि रूपं सिद्ध्यति ।
3. सकारे परे आगमविधानम्
i) प्राङ् (east) इत्यस्मात् शब्दात् सप्तमः शब्दे परे पदान्तङकारस्य कुक्-आगमः भवति ।
प्राङ् + सप्तमः [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]
→ प्राङ् + कुक् + सप्तमः [<<ङ्णोः कुक्टुक् शरि>> 8.3.28 इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अन्त्यावयवः]
→ प्राङ् + क् + सप्तमः [अन्तिमककारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ प्राङ् + क् / ख् + सप्तमः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ प्राङ्क्सप्तमः / प्राङ्ख्सप्तमः [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् <<खरि च>> 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे कुगागमं विना प्राङ्सप्तमः इत्यपि रूपं सिद्ध्यति ।
ii) सुगण् (the one who counts well) इत्यस्मात् शब्दात् सप्तमः शब्दे परे पदान्तणकारस्य टुक्-आगमः भवति ।
सुगण् + सप्तमः [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।
→ सुगण् + टुक् + सप्तमः [<<ङ्णोः कुक्टुक् शरि>> 8.3.28 इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अन्त्यावयवः ।]
→ सुगण् + ट् + सप्तमः [ककारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ सुगण् + ट / ठ् + सप्तमः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ सुगणट्सप्तमः / सुगणठ्सप्तमः [वर्णमेलनम् । अत्र पदान्तटकारात् / पदान्तठकारात् परस्य सकारस्य ष्टुत्वम् <<न पदान्ताट्टोरनाम्>> 8.4.42 इति निषिध्यते, अतः अत्र ष्टुत्वं नैव सम्भवति । एवमेव, अत्र ठकारस्य विधानसामर्थ्यात् <<खरि च>> 8.4.55 इति तस्य चर्त्वम् न विधीयते ।]
पक्षे टुगागमं विना सुगण्सप्तमः इत्यपि रूपं सिद्ध्यति ।
वार्त्तिकम् — <!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् !>
चय्-वर्णात् (इत्युक्ते, वर्गप्रथमवर्णात्) अनन्तरम् संहितायाम् यदि शर्-वर्णः विद्यते, तर्हि 'पौष्करसादिः' इति नाम्नः आचार्यस्य मतेन (इत्युक्ते, विकल्पेन) चय्-वर्णस्य स्थाने वर्गद्वितीयः वर्णः आदेशरूपेण विधीयते — इति अस्य वार्त्तिकस्य आशयः । विधानसामर्थ्यात् अस्य वर्गद्वितीयवर्णस्य अग्रे <<खरि च>> 8.4.55 इति चर्त्वम् न भवति ।
उपरि निर्दिष्टेषु सर्वेषु अपि उदाहरणेषु <!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् !> इति वार्त्तिकेन ककारस्य विकल्पेन खकारादेशः, एवमेव टकारस्य विकल्पेन ठकारादेशः कृतः अस्ति ।
अस्मिन् वार्त्तिके चय् इति प्रत्याहारः प्रयुक्तः अस्ति । अयम् प्रत्याहारः पाणिनिना न हि कुत्रचित् प्रयुक्तः दृश्यते । केवलम् अस्मिन् वार्त्तिके एव अस्य प्रत्याहारस्य निर्देशः लभ्यते । वस्तुतस्तु, अस्य प्रत्याहारस्य सिद्ध्यर्थम् एव खकारस्य फकारस्य च <<खफछठथचटतव्>> अस्मिन् शिवसूत्रे आवश्यकता विद्यते । यदि चय्-प्रत्याहारः नैव स्यात्, तर्हि <<कपय्>> सूत्रे खकारफकारयोः ग्रहणेन अपि न कश्चन दोषः उत्पद्येत । अस्मिन् विषये अधिकम् ज्ञातुम् अत्र दृश्यताम् ।
काशिकायाम् <!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> इति वार्त्तिकम् <<नादिन्याक्रोशे पुत्रस्य>> 8.4.48 अस्मिन् सूत्रे पाठितम् अस्ति । कौमुद्यां तु प्रसङ्गवशात् इदम् वार्त्तिकम् अस्मिन् एव सूत्रे निर्दिष्टम् वर्तते ।
Balamanorama
Up
<<ङ्णोः कुक्टुक् शरि>> - ङ्णोः ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । कुक् च टुक् चेति समाहारद्वन्द्वः । आगमाविति । एतच्च आद्यन्तौ टकिता॑विति लभ्यम् । यतासङ्ख्यपरिभाषया च ङकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्ष उकार उच्चारणार्थः ।प्राङ् षष्ठः सुगण् षष्ठः॑ इति स्थिते, यथाक्रमङ्कुकिटुकि च तयोः पूर्वावयवत्वेन पदान्तत्वाज्जश्त्वमाशङ्क्याह — कुक्टुकोरिति । चयो द्वितीया इति ।पौष्करसादिशब्दस्य चयो द्वितीया॑ इत्यर्थभ्रमं वारयति — पौश्करसादिराचार्य इति । तथाच विकल्पः फलतीति भावः । प्राङ्क् षष्ठ इति कुकि रूपम् । 'चयो द्वितीया' इति पक्षे प्राङ् ख् षष्ठ इति रूपम् । नचात्र खकारस्य खरि चेति चर्त्वं खकारारम्भविधिसामर्थ्यात् । 'चयो द्वितीया' इति 'नादिन्याक्रोश' इति सूत्रभाष्यपठितमिदम् । 'प्राङ् षष्ठ' इति कुगभावे रूपम् । एवं टुक्यपि सुगण्टषष्ठ इत्यादि ।
Padamanjari
Up
उदाहरणेषु'खयो द्वितीयाः शरि पौष्करसादेः' इति पक्षे ककारस्य खकारः, टकारस्य ठकारः । पूर्वान्तकरणमित्यादि । किं पुनः कारणंपदादौ च्छत्वं न सिध्यतीत्यत आह - शश्छाएऽटीति । विरप्शिन्निति । महन्नामैतत्, विपूर्वाद्रपेरौणादिकः कर्मणि शिनिप्रत्ययः । यदि वा विरपणं विरप्, सोऽस्यास्तीति विरप्शः उ शब्दितः, सङ्कीर्तत इत्यर्थः । षत्वप्रतिषेधार्थमिति । परादौ तु सकारः पदादिर्न स्यात् । ष्टुअत्वप्रतिषेधार्थमिति । परादौ तु टकारः पदान्तो न स्यात् ॥