8-2-71 भुवः च महाव्याहृतेः पदस्य पूर्वत्र असिद्धम् रुः रः ऊधरवर् इति उभयथा छन्दसि
भुवस् इत्येतस्य महाव्याहृतेश्छन्दसि विषय उभयथा भवति, रुर्वा रेफो वा। भुव इत्यन्तरिक्षम्। भुवरित्यन्तरिक्षम्। महाव्याहृतेरिति किम्? भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ (ऋ० १०.५०.४)। भुवरित्येतदव्ययमन्तरिक्षवाचि महाव्याहृतिः॥
भुव इति (भुव॒ इति॑) । भवरिति (भुव॒रिति॑) ॥
तिस्रो महाव्याहृतयः - पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः, इह तु मध्यमाया ग्रहणम् । भुवो विश्वेषु सवनेष्विति । तिङ्न्तमेतत् । भवतेः'च्छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ्, सिप्, शपि गुणाभावश्च्छन्दसः,'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यडभावः । लाक्षणिकत्वादेवास्याग्रहणे सिद्धे महाव्याहृतिग्रहणम् - अस्याः परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन क्रापयतीत्यादौ पुक् सिद्धो भवति ॥