8-3-48 कस्कादिषु च पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः समासे
index: 8.3.48 sutra: कस्कादिषु च
कस्कादिषु विसर्जनीयस्य सः , इणः षः
index: 8.3.48 sutra: कस्कादिषु च
कस्कादिगणे निर्दिष्टानां शब्दानां विषये विसर्गस्य सकारादेशः भवति । इण्-वर्णात् परः तु षकारादेशः भवति ।
index: 8.3.48 sutra: कस्कादिषु च
For the words in the कस्कादिगण, the विसर्ग is to be converted to षकार / सकार as shown for each word.
index: 8.3.48 sutra: कस्कादिषु च
कस्क इत्येवमादिसु च विसर्जनीयस्य सकारः वा यथायोगमादेशो भवति कुप्वोः परतः। कस्कः। कौतस्कुतः। कुत आगतः इत्यण्। भ्रातुष्पुत्रः। शुनस्कर्णः। सद्यस्कालः। सद्यस्क्रीः। क्रीणातेरयं सम्पदादित्वात् क्विप् प्रत्ययः, तत्र भवः क्रतुः साद्यस्क्रः। कांस्कान्, कानाम्रेडिते 8.3.12 इति रुत्वमत्र सर्पिष्कुण्डिका, धनुष्कपालम्, वर्हिष्पूलम्, यजुष्पात्रम् इत्येषां पाठः उत्तरपदस्थस्य अपि षत्वं यथा स्यादिति। परमस्र्पिःफलम् इत्येवमादि प्रत्युदाहरणातिति पारायणिका आहुः। भाष्ये वृत्तौ च नित्यं समासेऽनुत्तरपदस्थस्य 8.3.45 इत्यत्र प्ररमसर्पिःकुण्दिका इत्येतदेव प्रत्युदाहरणम्। अयस्काण्डः। मेदस्पिण्डः। अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः।
index: 8.3.48 sutra: कस्कादिषु च
एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । ≍क≍पयोरपवादः । इति सः । काँस्कान् । कांस्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥
index: 8.3.48 sutra: कस्कादिषु च
एष्विण उत्तरस्य विसर्गस्य षोऽन्यस्य तु सः। इति सः। व्यूढोरस्कः॥
index: 8.3.48 sutra: कस्कादिषु च
'कस्कादिगणः' अयम् गणपाठस्य 144-तमः गणः । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । अस्मिन् गणे निर्दिष्टाः शब्दाः 'यथानिर्दिष्टाः' प्रयोक्तव्याः, तेषाम् विषये विसर्गस्य सकारः / षकारः कथमभवत् अस्मिन् विषये चर्चा मास्तु - इति अस्य आशयः ।
अस्मिन् गणे उपस्थितेषु शब्देषु इण्-वर्णात् परस्य विसर्गस्य षकारादेशः कृतः दृश्यते, अकार-आकारात् परस्य विसर्गस्य सकारादेशः कृतः दृश्यते ।
अस्मिन् गणे आहत्य 18 शब्दाः सन्ति । तेषामावली इयम् -
कस्कः , कौतस्कुतः , भ्रातुष्पुत्रः , शुनस्कर्णः , सद्यस्कालः , सद्यस्कीः , साद्यस्कः , कांस्कान् , सर्पिष्कुण्डिका , धनुष्कपालम् , बहिष्पलम् , यजुष्पात्रम् , अयस्कान्तः , तमस्काण्डः , अयस्काण्डः , मेदस्पिण्डः , भास्करः , अहस्करः ।
कस्कादिगणः आकृतिगणः अस्ति । इत्युक्ते, कस्मिंश्चित् शब्दे यदि शिष्टप्रयोगेण विसर्गस्य सकारादेशः / षकारादेशः कृतः अस्ति परन्तु तदर्थम् किमपि सूत्रम् न अवगम्यते, तर्हि तस्य शब्दस्य अस्मिन् गणे समावेशः भवितुमर्हति ।
index: 8.3.48 sutra: कस्कादिषु च
कस्कादिषु च - कस्कादिषु च ।इण इत्यनुवर्तते । तच्च पञ्चम्यन्तम् । 'विसर्जनीयस्य स' इत्यतो विसर्जनीयस्येत्यनुवर्तते । कस्कादिष्विति विषयसप्तमी । कस्कादिगणे इणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः । सोऽपदादावित्यतः स इति प्रथमान्तमनुवर्तते । कस्कादिष्वनिणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः । तदेवं वाक्यद्वयं सम्पद्यते । कस्कादिषु तथाविधानामेव कृतषत्वसत्वानां निर्देशादयं विषयविभागः । ᳵकᳶपयोरपवाद इति । ᳵकᳶपयोरित्युपलक्षणं कुप्वोरिति विहितविसर्गस्यापि । अन्यस्य तु स इति । प्रकृते विसर्गस्य इणः परत्वाऽभावान्न षत्वं, किन्तु सत्वमित्यर्थः । काँस्कानिति । अनुनासिकपक्षे रूपम् । कांस्कानिति । अनुस्वारपक्षे रूपम् । अथ कस्कादिगणं पठति — कस्क इत्यादिना । वाप्सायां द्वित्वे पूर्वखण्डेऽकारात्परस्य विसर्गस्य सत्वम् । 'कः कोऽत्र भोः' इति प्रयोगे तु संहिताविरहात्सत्वाऽभावः,कस्कादिषु चे॑त्यस्यतयोय्र्यावाचि संहिताया॑मिति संहिताधिकारस्थात्वादित्याहुः । कोतस्कुत इति । वीप्सायां द्विर्वचने कुतः-कुत आगत इत्यर्थे तत आगत इत्यण् ।अव्ययानां भमात्रे टिलोपः॑ । अत व निपातना॒दव्ययात्यवि॑ति न । सर्पिष्कुण्डिकेति । अत्र इणः परत्वात्षत्वम् । एवं धुनिष्कपालं, चतुष्कपालमित्यत्रापि । ननु कस्कादिगणे कांस्कानित्यत्र सत्वसिद्धेः संपुङ्कानामित्यत्र कान्ग्रहणं न कर्तव्यमिति भावः ।
index: 8.3.48 sutra: कस्कादिषु च
'कुप्वोः ःकःपौ च' इत्यस्यापवादः । यथायोगमिति । इणः परस्य षत्वम्, अन्यस्य सत्वमित्येष यथायोगार्थः । कस्क इति । स्वन्तस्य किमो वीप्सायां द्विर्वचनम् । कौतस्कुत इति । कुतः शब्दस्य पूर्ववद् द्विर्वचनम्, तस्मात्'तत आगतः' इत्यण्, ठव्ययानां भमात्रे टिलोपःऽ । भ्रातुष्पुत्र इति । ठृतो विद्यायोनिसम्बन्धेभ्यःऽ इत्यलुक् । शुनस्कर्ण इति ।'षष्ठ।ल आक्रोशे' इत्यलुक् । पारायणेन दीव्यन्ति व्यवहरन्तीति पारायणिकाः । पारायणं द्विविधम् - धातुपारायणम्, नामपारायणमिति । भाष्ये वृतावित्यादिनाऽनन्तरोक्तमर्थं निराकरोति । अविहितलक्षण इत्यादिनाऽऽकृतिगणोऽयमिति दर्शयति । विसर्जनीयस्थानिकयोः सकारषकारयोः उपचार इति संज्ञा ॥