8-1-2 तस्य परम् आम्रेडितम् सर्वस्य द्वे
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
सर्वस्य द्वे, तस्य परमाम्रेडितम्
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
सर्वस्य द्वे 8.1.1 अस्मिन् अधिकारे द्वित्वे कृते, द्विरुक्तस्य यत् द्वितीयम् तस्य आम्रेडितम् इति संज्ञा भवति ।
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
When a word gets replicated in the 'सर्वस्य द्वे' अधिकार, the second occurrence is known as आम्रेडित.
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदाम्रेडितसंज्ञं भवति। चौर चौर 3, वृषल वृषल 3, दस्यो दस्यो 3 घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आम्रेडितप्रदेशाः आम्रेडितं भर्त्सने 8.2.95 इत्येवमादयः।
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
द्विरूक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
द्विरुक्तस्य परमाम्रेडितम् स्यात् ॥
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
सर्वस्य द्वे 8.1.1 इत्यस्मिन् अधिकारे विद्यमानेषु सन्दर्भेषु यदा शब्दानां द्वित्वं भवति, तदा द्वित्वे कृते द्वयोः आवृत्त्योः यः द्वितीयः शब्दः, तस्य आम्रेडितम् इति संज्ञा भवति । यथा,
आम्रेडितसंज्ञायाः प्रयोगः अष्टाध्याय्याम् आहत्य सप्तसु सूत्रेषु कृतः अस्ति —
नाम्रेडितस्यान्त्यस्य तु वा 6.1.99
नित्यमाम्रेडिते डाचि 6.1.100
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः 8.1.57
आम्रेडितं भर्त्सने 8.2.95
स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु 8.2.103
कानाम्रेडिते 8.3.12
छन्दसि वाऽप्राम्रेडितयोः 8.3.49
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
तस्य परमाम्रेडितम् - अभियुक्ताश्चाहुः — ॒क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु ।॑ इति । ननु किमाम्रेडितं नाम , तत्राह — तस्य परमाम्रेडितम् । 'सर्वस्य द्वे' इत्यनन्तरमिदं सूत्रं पठते । ततश्चतस्ये॑त्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात्षष्ठी । तदाह — द्विरुक्तस्येत्यादिना । पटत्पटेतीति । पटत् पटत् इतीति स्थिते तकारस्येकारस्य च पररूपमिकारः । ततश्च आद्गुणः ।
index: 8.1.2 sutra: तस्य परमाम्रेडितम्
'तस्य' इत्यवयवयोगे षष्ठी, परशब्दोऽवयवचनः ।'दिक्शब्दाञ्चूतरपद' इत्यत्र यद्यपि'दिशि दृष्टः शब्दो दिक्शब्दः' - इत्याश्रयणात्सम्प्रत्यदिक्शिब्दत्वेऽपि पञ्चमी विहिता, तथाप्यस्मादेव निर्देशादवयववाचिभिर्योगे षष्ठी भवति । एवं च पूर्वं कायस्येत्यादि सिद्धं भवति । उदाहरणे - ठाम्रडितं भर्त्सनेऽ इति प्लुतः । तस्य ग्रहणं विषयावधारणार्थम् -तस्यैतस्यानन्तरस्य द्विरुक्तस्येति, तेन पाष्ठिके द्विर्वचने इयं संज्ञा न भवति । ननु आम्रेडितशब्दो निघण्टुअषु प्रसिद्धः - ठार्म्रडितं द्विस्त्रिरुक्तम्ऽ इति ? सत्यमर्थे प्रसिद्धः; इह तु शब्दे परिभाष्यते महासंज्ञाकरणं पूर्वाचार्यानुरोधेन ॥