सः स्यार्द्धधातुके

7-4-49 सः सि आर्धधातुके तः

Sampurna sutra

Up

सः अङ्गस्य आर्धधातुके सि तः

Neelesh Sanskrit Brief

Up

सकारान्तस्य अङ्गस्य सकारादि-आर्धधातुके प्रत्यये परे तकारादेशः भवति ।

Neelesh English Brief

Up

A सकारान्त अङ्ग gets a तकारादेश When followed by a सकारादि-आर्धधातुक प्रत्यय.

Kashika

Up

सकारान्तस्य अङ्गस्य सकारादौ आर्धधातुके परतः तकारादेशो भवति। वत्स्यति। अवत्स्यत्। विवत्सति। जिघत्सति। सः इति किम्? वक्ष्यति। सि इति किम्? घासः। वासः। आर्धधातुके इति किम्? आस्से। वस्से।

Siddhanta Kaumudi

Up

सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥

Laghu Siddhanta Kaumudi

Up

सस्य तः स्यात्सादावार्धधातुके । अत्तुमिच्छति जिघत्सति । एकाच इति नेट् ॥

Neelesh Sanskrit Detailed

Up

किम् नाम आर्धधातुकम्? <<आर्धधातुकम् शेषः>> 3.4.114 इत्यनेन धातुविहिता तिङ्भिन्नाः शिद्भिन्नाः च सर्वे प्रत्ययाः आर्धधातुकप्रत्ययाः सन्ति । यदि सकारादि-आर्धधातुकप्रत्ययः (यथा - स्य, सन्) सकारान्तात् अङ्गात् परः विधीयते, तर्हि तस्य सकारस्य तकारादेशः भवति । यथा - 1) वस्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनम् - वस् + लृट् [<<लृट् शेषे च>> 3.3.13] → वस् + स्य + लृट् [<<स्यतासी लृलुटोः>> 3.1.33 इति स्य-विकरणप्रत्ययः] → वस् + स्य + तिप् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → वत् + स्य + ति [<<सः स्यार्द्धधातुके>> 7.4.49 इति सकारस्य तकारः] → वत्स्यति । 2) वस्-धातोः सन्-प्रत्ययान्तरूपम् - वस् + सन् [<<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> 3.1.17 इति सन्-प्रत्ययः] → वस् वस् + स [<<सन्यङोः>> 6.1.9 इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम् ] → व वस् + स [<<हलादिः शेषः>> 7.4.60 इति सकारलोपः] → वि वस् + स [<<सन्यतः>> 7.4.79 इति अकारान्तस्य अभ्यासस्य सन्-प्रत्यये परे इकारादेशः] → वि वत् स [<<सः स्यार्द्धधातुके>> 7.4.49 इति सकारस्य तकार] → विवत्स [<<सनाद्यन्ताः धातवः>> 3.1.32 इति इत्संज्ञा] ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'सः' इति षष्ठ्येकवचनमस्ति । 'सः अङ्गस्य' इत्युक्ते 'सकारान्तस्य अङ्गस्य' । <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यनेन अत्र तदन्तविधिः क्रियते । 2. <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अङ्गस्य अन्तिमवर्णस्य स्थाने आदेशः क्रियते । 3. अत्र 'सि' इति सप्तम्येकवचनमस्ति । <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> अनया परिभाषया 'सकारादौ प्रत्यये परे' इति अस्य अर्थः जायते ।

Balamanorama

Up

<<सः स्यार्द्धधातुके>> - सः सि । 'सः' इति छेदः । 'स' इति षष्ठन्तम् । सीति सप्तम्यन्तमार्धधातुकविशेषणं । तदादिविधिः । 'अच उपसर्गात्तः' इत्यतस्त इत्यनुवर्तते । अकार उच्चारणार्थः । तदाह — सस्य तः स्यादिति । आदेशे अकारस्य उच्चारणार्थत्वत्तकारः स्यादित्यर्थः ।

Padamanjari

Up

वत्स्यतीत्यादि ।'वस निवासे' , लट् । जिघत्सतीति ।'लुङ्सनोर्घस्लृ' । आस्से, वस्से इति । ठास उपवेशनेऽ,'वशे आच्छादने' - अदादी अनुदातेतौ । ठतङ्ऽ इत्युच्यिमाने व्यतिवत्सीष्टेत्यत्रापि न स्यात् ॥