तासस्त्योर्लोपः

7-4-50 तासस्त्योः लोपः सः सि

Sampurna sutra

Up

तास्-अस्त्योः अङ्गस्य सि लोपः

Neelesh Sanskrit Brief

Up

तास्-प्रत्ययस्य तथा अस्-धातोः सकारे परे लोपः भवति ।

Neelesh English Brief

Up

The सकार of तास् प्रत्यय and the verb root अस् is removed when followed by सकार.

Kashika

Up

तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति। तासेः कर्तासि। कर्तासे। अस्तेः त्वमसि। व्यतिसे। अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रम् एतत् पदम्, तेन <<सात् पदाद्योः>> 8.3.111 इति षत्वं न भवति।

Siddhanta Kaumudi

Up

तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥

Laghu Siddhanta Kaumudi

Up

तासेरस्तेश्च सस्य लोपः स्यात्सादौ प्रत्यये परे॥

Neelesh Sanskrit Detailed

Up

लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य, तथा अस्-धातोः अन्तिम-सकारस्य सकारे परे लोपः भवति । यथा - 1. पठ्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् - पठ् + लुट् [<<अनद्यतने लुट्>> 3.3.15 → पठ् + तास् + लुट् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + लुट् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + तास् + सिप् [<<तिप्तस्..>> 3.4.78 इति सिप्-प्रत्ययः] → पठ् इ + ता + सि [सकारे परे तास्-प्रत्ययस्य <<तासस्त्योर्लोपः>> 7.4.50 इति लोपः] → पठितासि 2. अस्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् - अस् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → अस् + सिप् [<<तिप्तस्..>> 3.4.78 इति सिप्] → अस् + शप् + सिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → अस् + सिप् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक्] → असि [सकारे परे अस्-इत्यस्य सकारस्य <<तासस्त्योर्लोपः>> 7.4.50 इति लोपः] ज्ञातव्यम् - अत्र <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिमवर्णस्य (इत्युक्ते 'तास्' तथा 'अस्' एतयोः सकारस्य) लोपः भवति ।

Balamanorama

Up

<<तासस्त्योर्लोपः>> - तदाह — तासस्त्योः । 'सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्त्राप्यूह्रम् ।

Padamanjari

Up

व्यतिसे इति ।'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम्, शपो लुक्,'श्नसोरल्लोपः' इत्यकारलोपः । प्रत्ययमात्रमेतत्पदमिति । तेन'सात्पदाद्योः' इति षत्वप्रतिषेध इति भावः ॥