7-3-51 इसुसुक्तान्तात् कः ठस्य इकः
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
इस्-उस्-उक्-त्-अन्तात् अङ्गात् ठस्य कः
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
इस्/उस्-प्रत्ययान्त-अङ्गात् , तकारान्त-अङ्गात्, तथा च उक्-प्रत्याहारस्य वर्णः यस्य अन्ते अन्ति तादृशात् अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य ककारादेशः भवति ।
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
A ठकार present at the beginning of a प्रत्यय is converted to 'क्' for an इस्-प्रत्ययान्त अङ्ग, उस्-प्रत्ययान्त अङ्ग,
उक्-वर्णान्त अङ्ग and तकारान्त अङ्ग.
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
इसुसित्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य कः इत्ययमादेशो भवति। इस् सार्पिष्कः। उस् धानुष्कः। याजुष्कः। उक् नैषादकर्षुकः। शाबरजम्बुकः। मातृकम्। पैतृकम्। तान्तात् औदश्वित्कः। शाकृत्कः। याकृत्कः। इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति, आशिषा चरति आशिषिकः। उषा चरति औषिकः। दोष उपसङ्ख्यानम्। दोर्भ्यां तरति दौष्कः।
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः । उषा चरति औषिकः ।<!दोष उपसंख्यानम् !> (वार्तिकम्) ॥ दोर्भ्यां चरित दौष्कः ॥
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
ठस्येकः 7.3.50 अनेन सूत्रेण प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य 'इक्'-आदेशे प्राप्ते तस्य अपवादत्वेन केभ्यश्चन अङ्गेभ्यः परस्य ठकारस्य वर्तमानसूत्रेण 'क्' इति आदेशः विधीयते । तानि अङ्गानि एतानि -
'इस्' इति कश्चन उणादिप्रत्ययः अस्ति । <ऽअर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ऽ> अनेन उणादिसूत्रेण अस्य प्रत्ययस्य विधानम् भवति । अर्चिस्, शुचिस्, सर्पिस् - एते शब्दाः इस्-प्रत्ययान्तशब्दाः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् -
सर्पिस् + ठक्
→ सर्पिस् + क [इसुसुक्तान्तात् कः 7.3.51 इति ठकारस्य ककारादेशः]
→ सार्पिस् + क [किति च 7.2.118 इति आदिवृद्धिः]
→ सार्पिः + क [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ सार्पिष् + क [इणः षः 8.3.39 इति विसर्गस्य षत्वम् ]
→ सार्पिष्क ।
'उस्' इति अपि कश्चन तद्धितप्रत्ययः । <ऽ अर्तिपॄवपियजितनिधनितपिभ्यो नित्ः ऽ> अनेन उणादिसूत्रेण (तथा अन्यैः कैश्चन उणादिसूत्रैः) अस्य विधानम् क्रियते । वपुस्, धनुस्, यजुस्, तनुस् - आदयः शब्दाः उस्-प्रत्ययान्ताः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् -
धनुस् + ठक् [प्रहरणम् 4.4.57 इति ठक्]
→ धनुस् + क [इसुसुक्तान्तात् कः 7.3.51 इति ठकारस्य ककारादेशः]
→ धानुस् + क [किति च 7.2.118 इति आदिवृद्धिः]
→ धानुः + क [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ धानुष् + क [इणः षः 8.3.39 इति विसर्गस्य षत्वम् ]
→ धानुष्क
उक्-प्रत्याहारे उ, ऋ, ऌ - एते वर्णाः वर्तन्ते । अतः यत् अङ्गमुकारान्तम् / ऋकारान्तम् / ऌकारान्तमस्ति, तस्मात् परस्य प्रत्ययादि-ठकारस्य वर्तमानसूत्रेण ककारादेशः भवति । उदाहरणे एते -
(अ) उवर्णान्तमङ्गम् -
धेनु + ठक् [तस्य समूहः 4.2.37 अस्मिन् अर्थे अचित्तहस्तिधेनोष्ठक् 4.2.47 इत्यनेन धेनु-शब्दात् ठक्-प्रत्ययः]
→ धेनु + क [इसुसुक्तान्तात् कः 7.3.51 इति ठकारस्य ककारादेशः]
→ धैनु + क [किति च 7.2.118 इति आदिवृद्धिः]
→ धैनुक
(आ) ऋवर्णान्तमङ्गम्
पितृ + ठञ् [ततः आगतः 4.3.74 अस्मिन् अर्थे ऋतष्ठञ् 4.3.78 इति ठञ्-प्रत्ययः]
→ पितृ + क [इसुसुक्तान्तात् कः 7.3.51 इति ठकारस्य ककारादेशः]
→ पैतृ + क [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ पैतृक
यदि तकारान्त-अङ्गात् परः ठकारादिप्रत्ययः आगच्छति, तर्हि तस्य ठकारस्य ककारादेशः भवति । यथा -
यकृत् + ठक् [संसृष्टे 4.4.22 इति ठक्]
→ यकृत् + क [इसुसुक्तान्तात् कः 7.3.51 इति ठकारस्य ककारादेशः]
→ याकृत् + क [किति च 7.2.118 इति आदिवृद्धिः]
→ याकृत्क ।
अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <!दोष उपसंख्यानम् !> । इत्युक्ते, 'दोष्' इत्यस्मात् शब्दात् यदि ठकारादिप्रत्ययः विधीयते, तर्हि तस्य ठकारस्य अपि ककारादेशः एव कर्तव्यः । यथा - दोष् + ठक् → दौष्क ।
स्मर्तव्यम् - सर्वे 'इस्' समुदायान्तशब्दाः इस्-प्रत्ययान्ताः न सन्ति । यथा, 'आशिस्' अयं शब्दः इस्-प्रत्ययान्तः नास्ति, अपितु 'आङ् + शास्' धातोः क्विप् प्रत्ययं कृत्वा सिद्ध्यति । अतः अस्य शब्दस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, आशिस् + ठक् → आशिषिक । अत्र ठस्येकः 7.3.50 इत्यनेन ठकारस्य इक्-आदेशः एव जायते ।
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
इसुसुक्तान्तात् कः - इसुसुक्तान्तात्कः । इसुसुक्ता अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः । ठस्य कः स्यादिति । ठकि ककार इत् । अकार उच्चारणार्थः, ठकारस्य शिष्यस्य ककार आदेश इति 'ठस्येकः' इत्यत्रोक्तम् ।आयती॑त्यस्य विवरणम् — वर्धते इति ।टु ओ इआ गतिवृद्ध्योः॑ इति धातुरिह वृद्धयर्थक इति भावः । उदइआदिति । क्विपि तुक् ।उदकस्योदः संज्ञाया॑मित्युदादेशः ।तक्रं हृदुइआन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्, इत्यमरः । प्रतिपदोक्तयोरिति । इत्त्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्क इति । आशिषिक इति ।चरती॑ति ठक् । शासुधातो क्विपि 'आशासः क्वौ' इत्युपधाया इत्त्वम् । उषा चरति औषिक इति । वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्त्य
index: 7.3.51 sutra: इसुसुक्तान्तात् कः
सार्पिष्क इति ।'तदस्य पण्यम्' इति ठक्, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् । धानुष्क इति । प्रहरणमिति ठक् । याजुष्क इति । दीव्यत्यर्थे ठक् । नैषादकर्षुकः, शाबरजम्बुक इति । भवादावर्थे ठोर्देअशे ठञ्ऽ, कादेशे कृते'के' णःऽ इति ह्रस्वत्वम् । मातृकम्, पैतृकमिति । तत आगतः, ठृतष्ठञ्ऽ । औदश्वित्क इति ।'संस्कृत भक्षाः' ,'दध्नष्ठक्' , ठुदश्वितोऽन्यतरस्याम्ऽ इति सप्तम्यन्ताट्ठक् । शाकृत्कः, याकृत्कः, याकृत्क इति ।'संसृष्टे' इति ठञ् । आशिषेति । ठाङ्ः शासु इच्छायाम्ऽ इत्यस्मादाशासनमाशीरिति सम्पदादित्वाद् भावे क्विप्, ठाशासः क्वावुपसंख्यानम्ऽ इतीत्वम् । उषेति । वसेः क्पिप्, यजादित्वात्सम्प्रसारणे लाक्षणिकं रूपमिति । सर्पिरादौ तु ठर्चिशुचिहूसृपिच्छादिभ्य इसिःऽ,'जनेरुसिः' , ठर्तिवपियजित्रापिधनिभ्यो नित्ऽ इति प्रतिपदोक्तमिसुसो रूपम् । दोष उपसंख्यानमिति । वर्णैकदेशानां वर्णग्रहणेनाग्रहणादोकारे य उकारः, तस्य उकारग्रहणेनाग्रहणादुपसंख्यानम् ॥