8-3-39 इणः षः पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः अपदादौ
इणः विसर्जनीयस्य अपदादौ कुप्वोः षकारः
इण्-वर्णात् परस्य विसर्गस्य पाश-कल्प-क-काम्येषु परेषु षकारः भवति ।
A पदान्त विसर्ग which comes after a letter from the इण् प्रत्याहार, and which is followed by प्रत्ययाः - पाश्य, कल्प, क, काम्य - is converted to a षकार.
अपदादाविति वर्तते। इण उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः। पाशकल्पककाम्येषु। पाश — सर्पिष्पाशम्। यजुष्पाशम्। कल्प — सर्पिष्कल्पम्। यजुष्कल्पम्। क — सर्पिष्कम्। यजुष्कम्। काम्य — सर्पिष्काम्यति। यजुष्काम्यति। अपदादावित्येव — अग्निःकरोति। वायुः करोति । अग्निः पचति। वायुः पचति। कुप्वोरित्येवसर्पिस्ते। यजुस्ते। इत उत्तरं स इति, इणः ष इति च वर्तते। तत्रेणः परो यो विसर्जनीयस्तस्य षकारो भवति, अन्यस्य सकारो भवति॥
इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु। प्रियसर्पिष्कः॥
विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । परन्तु यदि तस्मात् विसर्गात् परः पाश्य-कल्प-क-काम्य एतेषु कश्चन शब्दः आगच्छति, तर्हि <<सोऽपदादौ>> 8.3.38 इत्यनेन विसर्गस्य सकारादेशः विधीयते । यदि एतादृशः विसर्गः इण्-वर्णात् अनन्तरमागच्छति, तर्हि वर्तमानसूत्रेण सकारस्यापि अपवादरूपेण विसर्गस्य षकारादेशः क्रियते । अस्मिन् सूत्रे 'अपदादौ' इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः 'अपदादौ कुप्वोः' अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् <<सोऽपदादौ>> 8.3.38 अस्मिन् सूत्रे स्थितेन वार्त्तिकेन दीयते - <!पाश-कल्प-क-काम्येष्विति वाच्यम् !> । इत्युक्ते, यदि सः 'अन्यः शब्दः' पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् षकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) । क्रमेण पश्यामः - 1) 'पाश' अयम् प्रत्ययः <<याप्ये पाशप्>> 5.3.47 इत्यनेन दीयते । 'याप्य' इत्युक्ते कुत्सितम् । यथा - सर्पिः + पाशम् → सर्पिष्पाषम् । (दुर्गतम् / अपेयम् घृतम् इत्यर्थः) । 2) 'कल्प' अयम् प्रत्ययः <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> 5.3.67 इत्यनेन दीयते । यथा - सर्पिः + कल्पम् → सर्पिष्कल्पम् । (सम्पूर्णरूपेण घृतम् न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) । 3) 'क' अयम् प्रत्ययः <<प्रागिवात्कः>> 5.3.70 अस्मिन् अधिकारे उक्तः अस्ति । यथा, <<अज्ञाते>> 5.3.73 अनेन सूत्रेण अयम् प्रत्ययः 'अज्ञातम्' अस्मिन् अर्थे विधीयते । धनुः + क = धनुष्क । (अज्ञातम् धनुः इत्यर्थः)। <<इसुसुक्तान्तात् कः>> 7.3.51 इत्यनेन सूत्रेण ठक्-प्रत्ययस्य 'क' इति आदेशः दीयते, तस्यापि अत्र ग्रहणं भवति । यथा, धनुः प्रहरणम् अस्य = धनुस् + क --> धानुः + क --> धानुष्क । 4) 'काम्य' अयम् प्रत्ययः <<काम्यच्च>> 3.1.9 इत्यनेन दीयते । 'धनुः आत्मानम् इच्छति' अस्मिन् अर्थे 'धनुः' शब्दस्य काम्यच्-प्रत्ययं कृत्वा 'धनुष्काम्य' इति धातुः सिद्ध्यति । यथा - सः धनुः आत्मानम् इच्छति = सः धनुष्काम्यति । <<सोऽपदादौ>> 8.3.38 सूत्रे निर्दिष्टेद्वे अपि वार्त्तिके अत्रापि विधियेते - 1. <!अनव्ययस्येति वाच्यम् !> - यदि विसर्गः अव्ययस्य अन्ते अस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति इत्यर्थः । यथा - उच्चैः + कल्पम् → उच्चैःकल्पम्, उच्चै≍कल्पम् । अत्र 'उच्चैः' इति अव्ययमस्ति, अतः वर्तमानसूत्रेण षकारादेशः न भवति, अपितु <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यनेन जिह्वामूलीय-विसर्गौ भवतः । 2. <!काम्ये रोरेवेति वाच्यम् !> - यदि विसर्गः रुँ-इत्यस्मात् निर्मितः नास्ति, तर्हि काम्य-शब्दे परे अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'गिर्' इति रेफान्तशब्दः ('वाणी' इति अर्थः) । अस्य प्रथमैकवचनम् 'गीः' इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः 'काम्यच्' प्रत्यये परे अस्य विसर्गस्य षकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गी≍काम्यति । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः इण्-प्रत्याहारः 'लण्'-इत्यस्य णकारेण गृह्यते । अतः इण् प्रत्याहारे एते वर्णाः समाविशन्ति - इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ, ह् , य्, व्, र्, ल् ।
पूर्वेण सत्वे प्राप्ते तदपवादः षत्वं विधीयते । अत्र केचिदाहुः -'ठ्यो' यम्'सो' पदादौऽ इति सकारः, स एवोतरत्र सर्वत्र कुप्वोः प्रकरणे विधीयते, अनेन तु तस्यैव सकारस्येण उतरस्य षत्वं विधीयते, न विसर्जनीयस्य, ठपदादौऽ इति चात्र न सम्बध्यते' इति । स तर्हि सकारः स्थानी निर्देअष्टव्यः ? नेत्याह; प्रकृतोऽनुवर्तते -'सो' पदादौऽ इति, तस्य ठिणःऽ इति पञ्चम्या षष्ठी प्रकल्प्यते । एवमपि वक्ष्यमाणैर्योगैर्विहितस्य सकारस्य षत्वं न प्रापनोति, अस्मिन्कर्तव्ये तेषामसिद्वात्वात् ? नैष दोषः; अचार्यप्रवृत्तिर्ज्ञापयति - न योगे योगोऽसिद्धः, किं तर्हि ? प्रकरणे प्रकरणमसिद्धमिति; यदयम् ठुपसर्गादसमासेऽपिऽ इत्यत्र ठसमासेऽपिऽ ग्रहणं करोति । कथं कृत्वा ज्ञापकम् ? अन्तरेणाप्यसमासेपिग्रहणं विशेषानुपादानात्समासासमासयोर्णत्वं भविष्यति, न च समासे'पूर्वपदात्संज्ञायामगः' इति नियमाण्णत्वस्य निवृत्तिः, नियमे कर्तव्ये ठुपसर्गात्ऽ इत्यस्य णत्वस्यासिद्धत्वात् । पश्यति त्वाचार्यः - प्रकरणे प्रकरणमसिद्धमिति, ततः ठसमासेपिऽ ग्रहणं करोति, तदा हि सह नियमेन सर्वमेव णत्वप्रकरणमेकमिति नियमे कर्तव्ये उपसर्गादिति णत्वस्य सिद्धत्वान्नियमेन व्यावृत्तिः स्यादिति कर्तव्यं समासेऽपिग्रहणम् । तदेवं सकारस्य षत्वं विधीयते, न विसर्जनीयस्य; उतरत्र च सत्वमेवानुवर्तते, न षत्वमिति । अयमपि पक्षो निर्दोष एव, किन्तु षष्ठीप्रकल्पनं ज्ञापकाश्रयणं चेति प्रतिपतिगौरवप्रसङ्गाद् वृत्तिकारेण नाश्रितः । कस्तर्हि तस्य पक्षः ? उतरत्र द्वयमप्यनुवर्तते - सकारः, षकारश्चेति । यद्येवम्, सर्वत्र द्वयमपि प्राप्नोति - अथ सकारो वानुवर्तते ठिदुदुपधस्य चऽ इत्यादौ यत्रेणः परो विसर्जनीयस्तत्रापि सकार एव प्राप्नोति; अथ षकार एवानुवर्तते'नमस्पुरसोर्गत्योः' इत्यादौ यत्रानिणः परो निसर्जनीयस्तत्रापि षकार एव प्राप्नोति ? नैष दोषः; ठिणः षःऽ इति समुदायस्य स्वरितत्वं प्रतिज्ञायते । यदाह - इणः ष इति वर्तत इति । ततः षत्वं तावदनिण्विषये न भविष्यति । एवमपि षत्वविषये सत्वमपि प्राप्नोति ? न; षकारेण तस्य बाधनात्, चकाराकरणाच्च । यदि परमनुवृत्तिसामर्थ्यातत्प्रसङ्गः ? तदपि न; उतरार्थमप्यनुवृत्तिसम्भवात् । तदिदमुक्तम् - य इणः परे विसर्जनीयस्तस्य षकार आदेशो भवत्यन्यस्य तु सकार इति । किमर्थं पुनरिदमारभ्यते, यावता सत्वमेवात्र प्रकरणे विधीयताम्, तस्य त्वादेशसकारत्वात् ठिण्कोःऽ इति षत्वं भविष्यति ? सिध्यति; ठपदान्तस्यऽ इति तत्र वर्तते, पदान्तार्थोऽयमारभः ॥