4-3-78 ऋतः ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः विद्यायोनिसम्बन्धेभ्यः
विद्यायोनिसंबन्धेभ्य इत्येव। ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसंबन्धवाचिभ्यष्ठञ् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। वुञोऽपवादः। विद्यासंबन्धवाचिभ्यस्तावत् — होतुरागतं हौतृकम्। पौतृकम्। योनिसंबन्धवाचिभ्यः — भ्रातृकम्। स्वासृकम्। मातृकम्। तपरकरणं मुखसुखार्थम्। विद्यायोनिभ्यामन्यत्र सावित्रम्॥
वुञोऽपवादः । पैतृकम् । भ्रातृकम् ॥
<<ऋतष्ठञ्>> - ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । <<तत आगत>> इत्येव । हौतृकं भ्रातृकमिति। उकः परत्वाट्ठस्य कः ।
एषूदाहरणेषु 'इसुसुक्तान्तात्कः'। एवं च प्रक्रियालाघवाय कञेवायं विधेयः, तथा तु न कृतमित्येव॥