7-2-108 इदमः मः विभक्तौ सौ
इदमः सौ मः
इदम्-शब्दस्य सुँ-प्रत्यये परे मकारादेशः भवति ।
The word इदम् gets a मकारादेश when followed by the सुँ-प्रत्यय.
इदमः सौ परतो मकारोऽन्तादेशो भवति। इयम्। अयम्। इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम्॥
इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥
सौ। त्यदाद्यत्वापवादः॥
इदम्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे <<त्यदादीनामः>> 7.2.102 इत्यनेन अकारत्वे प्राप्ते तं बाधित्वा वर्तमानसूत्रेण मकारस्य पुनः मकारादेशः एव विधीयते - 1. इदम् + सुँ [पुंलिङ्गे प्रथमैकवचनस्य प्रत्ययः] → इदम् + सुँ [<<त्यदादीनामः>> 7.2.102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> 7.2.108 इति मकारस्य मकारः] → अयम् + सुँ [<<इदोऽयं पुँसि>> 7.2.111 इति 'इद्' इत्यस्य 'अय्' आदेशः] → अयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] 2. इदम् + सुँ [स्त्रीलिङ्गे प्रथमैकवचनस्य प्रत्ययः] → इदम् + सुँ [<<त्यदादीनामः>> 7.2.102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> 7.2.108 इति मकारस्य मकारः] → इयम् + सुँ [<<यः सौ>> 7.2.110 इत्यनेन दकारस्य यकारः] → इयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] 3. इदम्-शब्दस्य नपुंसकलिङ्गवाचिनः अङ्गात् सुँ-प्रत्यये परे <<स्वमोर्नपुंसकात्>> 7.1.23 इत्यनेन सुँ-प्रत्ययस्य लुक्-भवति, ततः <<न लुमताङ्गस्य>> 1.1.63 इत्यनेन अङ्गकार्यं निषिध्यते । अतः वर्तमानसूत्रस्य तत्र प्रसक्तिः नास्ति - इदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ] → इदम् [<<स्वमोर्नपुंसकात्>> 7.1.23 इत्यनेन सुँ-प्रत्ययस्य लुक्]
<<इदमो मः>> - अथ इदंशब्दे विशेषमाह — इदमो मः । साविति । 'तदोः सः सौ' इत्यतस्तदनुवृत्तेरिति भावः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य मस्य मः । ननु मस्य मविधिव्र्यर्थ इत्यत आह — त्यदाद्यत्वापवाद इति ।