8-3-54 इडायाः वा पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु
इडायाः षष्ठीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परतश्छन्दसि विषये। इडायास्पतिः, इडायाः पतिः। इडा॑यास्पु॒त्रः (ऋ० ३.२९.३), इडायाः पुत्रः। इडायास्पृष्ठम्, इडायाः पृष्ठम्। इडायास्पारम्, इडायाः पारम्। इडा॑यास्प॒दम् (मा०सं० ४.२२), इडा॑याः प॒दम्(तै०सं० १.२.५.१)। इडायास्पयः, इडायाः पयः। इडायास्पोषम्, इडायाः पोषम्॥
पतिपुत्रादिषु परेषु । इलायास्पुत्रः (इळा॑यास्पुत्रः) । इळायाः पुत्रः । इळायास्पदे (इळा॑यास्प॒दे) । इळायाः पदे । निसस्तपतावनासेवने <{SK2403}> निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्तं रक्षो निष्टप्ता अरातयः (निष्ट॑प्तं रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः) । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ॥