7-1-57 गोः पादान्ते आमि नुट्
गो इत्येतस्मादृक्पादान्ते वर्तमानादुत्तरस्यामो नुडागमो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ०१०.४७.१)। पादान्त इति किम्? गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः (ऋ०२.२३.१८)। <<सर्वे विधयश्छन्दसि विकल्प्यन्ते>> इति पादान्तेऽपि क्वचिद् न भवति। ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् (ऋ० १०.१६६.१)॥
विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ॥
च्छन्दसि इत्यधिकारदृक्पादस्यै ग्रहणम्, श्लोकपादस्येत्याह - ऋक्पादान्त इति ॥