विदेः शतुर्वसुः

7-1-36 विदेः शतुः वसुः अन्यतरस्याम्

Sampurna sutra

Up

विदेः शतुः वसुः अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

विद्-धातोः परस्य शतृ-प्रत्ययस्य विकल्पेन 'वसुँ' आदेशः भवति ।

Neelesh English Brief

Up

The शतृ प्रत्यय attached to the verb विद् (ज्ञाने) is optionally converted to 'वसुँ'.

Kashika

Up

<<विद ज्ञाने>> इत्येतस्माद् धातोरुत्तरस्य शतुर्वसुरादेशो भवति। विद्वान्,विद्वांसौ, विद्वांसः। स्थानिवद्भावादुगित्कार्ये सिद्धे वसोरुकारकरणं <<वसोः संप्रसारणम्>> ६.४.१३१ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। <<एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य>> इत्येतदपि न भवति। तथा सत्युकारकरणमनर्थकं स्यात्। अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति। विदन्, विदन्तौ, विदन्तः॥

Siddhanta Kaumudi

Up

वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥

Laghu Siddhanta Kaumudi

Up

वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥

Neelesh Sanskrit Detailed

Up

विद् (ज्ञाने) इति अदादिगणस्य धातुः । <<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 इत्यनेन अस्मात् धातोः शतृ-प्रत्ययः विधीयते । अस्य शतृ-प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'वसुँ' आदेशः भवति । अस्मिन् आदेशे कृते 'विद्वस्' इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् - विद् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → विद् + शतृ [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 इति लट्-इत्यस्य शतृ-आदेशः] → विद् + शप् + शतृ [<<कर्तरि शप्>> 3.1.68 इति शप्] → विद् + शतृ [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति विकरणस्य लुक्] → विद् + वसुँ [<<विदेः शतुर्वसुः>> 7.1.36 इति वसुँ-आदेशः] → विद् + वस् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति उँकारस्य इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → विद्वस् [<<कृत्-तद्धित-समासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा] अनेन सूत्रेण निर्दिष्टः आदेशः विकल्पेनैव भवति, नित्यम् न । अतः अस्य आदेशस्य अनुपस्थितौ विद्-धातोः शतृप्रत्ययान्तरूपम् 'विदत्' इति भवति - विद् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → विद् + शतृ [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 इति लट्-इत्यस्य शतृ-आदेशः] → विद् + शप् + शतृ [<<कर्तरि शप्>> 3.1.68 इति शप्] → विद् + शतृ [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति विकरणस्य लुक्] → विदत् [ शकार-ऋकारयोः इत्संज्ञा, लोपः । वर्णमेलनम् ।] अस्य रूपाणि अग्रे 'पठत्' शब्दवत् भवन्ति । ज्ञातव्यम् - 1. विद्वस्-शब्दः 'वसुँ' प्रत्ययान्तशब्दः अस्ति, अतः अयम् 'उगित्' अस्ति । अतः अस्य शब्दस्य प्रक्रियायाम् <<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इत्यनेन नुमागमः विधीयते । यथा - विद्वस् + औ [प्रथमाद्विवचनस्य प्रत्ययः] विद्वन् स् + औ [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः] → विद्वा न् स् औ [<<सान्तमहतः संयोगस्य>> 6.4.10 इति नकारस्य उपधावर्णस्य दीर्घः] → विद्वांसौ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अपदान्तनकारस्य अनुस्वारः] 2. धातुपाठे वस्तुतः 'विद्' इति पञ्च धातवः सन्ति । एतेषु केवलं अदादिगणस्य विद् (ज्ञाने) अस्य विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति ।

Balamanorama

Up

<<विदेः शतुर्वसुः>> - विदेः शतुर्वसुः । वेत्तेरिति । 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑त्युक्तेरिति भावः । वा स्यादिति ।तुह्रोस्तात॑ङ्ङित्यतस्तदनुवृत्तेरिति भावः । विदुषीति । उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम् ।

Padamanjari

Up