ति विंशतेर्डिति

6-4-142 ति विंशतेः डिति असिद्धवत् अत्र आभात् भस्य अल्

Sampurna sutra

Up

विंशतेः भस्य तेः डिति लोपः

Neelesh Sanskrit Brief

Up

भसंज्ञकस्य 'विंशति' शब्दस्य 'ति' इत्यस्य डित्-प्रत्यये परे लोपः भवति ।

Neelesh English Brief

Up

The 'ति' of the भसंज्ञक 'विंशति' word is removed.

Kashika

Up

भस्य विंशतेस्तिशब्दस्य डिति प्रत्यये परतो लोपो भवति। विंशत्या क्रीतो विंशकः। विशं शतम्। विंशतेः पूरणो विंशः। एकविंशः। डितीति किम्? विंशत्या॥

Siddhanta Kaumudi

Up

विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । दिरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम्? एकादशः॥

Neelesh Sanskrit Detailed

Up

'विंशति'-शब्दस्य कस्मिंश्चित् डित्-प्रत्यये परे भसंज्ञा भवति चेत् अस्य शब्दस्य अन्तिमवर्णद्वयम् 'ति' एतयोः लोपः भवति । यथा - 1) विंशति + डट् ['विंशतेः पूरणम्' अस्मिन् अर्थे विंशति-शब्दात् <<तस्य पूरणे डट्>> 5.2.48 अनेन सूत्रेण 'डट्' प्रत्ययः ।] →विंशति + अ [डकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, टकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा, द्वयोः <<तस्य लोपः>> 1.3.9 अनेन लोपः । अस्मिन् प्रत्यये परे 'विंशति' इत्यस्य <<यचि भम्>> 1.4.18 इत्यनेन भ-संज्ञा भवति।] → विंश + अ [<<ति विंशतेर्डिति>> 6.4.142 इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः] → विंश [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] अतः विंशतेः पूरणम् = विंशः । तथैव, एकविंशः, द्वाविंशः आदयः शब्दाः अपि सिद्ध्यन्ति । 2) विंशति + ड्वुन् ['विंशत्या क्रीतः' अस्मिन् अर्थे विंशति-शब्दात् <<विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायाम्>> 5.1.24 इति ड्वुन्-प्रत्ययः] → विंशति + वु [डकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, नकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा, द्वयोः <<तस्य लोपः>> 1.3.9 अनेन लोपः ] → विंशति + अक [<<युवोरनाकौ>> 7.1.2 इति वु-इत्यस्य अक-इत्यादेशः । अस्मिन् आदेशे परे 'विंशति' इत्यस्य <<यचि भम्>> 1.4.18 इत्यनेन भ-संज्ञा भवति] → विंश + अक [<<ति विंशतेर्डिति>> 6.4.142 इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः] → विंशक [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] 3) विंशति + ड ['विंशत्यधिकाः अस्मिन् शते' इत्यस्मिन् अर्थे <<शदन्तविंशतेश्च>> 5.2.46 इत्यनेन विंशति-शब्दात् ड-प्रत्ययः भवति ।] → विंशति + अ [डकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 अनेन लोपः । अकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भ-संज्ञा भवति ।] → विंश + अ [<<ति विंशतेर्डिति>> 6.4.142 इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः] → विंश [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'ति-इत्यस्य लोपः भवति' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अत्र <<अलोऽन्त्यस्य>> 1.1.52 अस्याः परिभाषायाः प्रयोगः न कर्तव्यः । 2. एतत् सूत्रम् <<टेः>> 6.4.143 इत्यस्य अपवादरूपेण आगच्छति । 'विंशति'-इति भसंज्ञकस्य डित्-प्रत्यये परे <<टेः>> 6.4.143 इत्यनेन टिसंज्ञकस्य लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन 'ति' इत्यस्य लोपः विधीयते ।

Balamanorama

Up

<<ति विंशतेर्डिति>> - आसन्नशब्दस्य विंशतिशब्देन षष्ठन्तेन समासे डचि कृतेटे॑रितीकारमात्रस्य लोपे प्राप्ते आह — ति विंशतेर्डिति । तीति लुप्तषष्ठीकम् ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यनुवर्तते । तदाह — विंशतेर्भस्येति । अलोऽन्त्यस्ये॑ति न भवति,नानर्थकेऽलोऽन्त्यविधि॑रित्युक्तेः । आसन्नविंशा इति । विंशतिसङ्क्याऽऽसन्नसङ्क्यावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दोऽदन्तः ।उत्तरपदत्वे चापदादिविधौ प्रतिषेधः॑ इति प्रत्ययलक्षणाऽभावेनाऽपदत्वात् । अथाऽदूरशब्दस्योदाहरति — अदूरतिंरशा इति । तिंरशतोऽदूरा इति विग्रहः । तिंरशत्सङ्ख्याया अदूरसङ्ख्यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति — अदिकचत्वारिंशा इति । चत्वारिंशतोऽधिका इति विग्रहः । चत्वारिंशत्सङ्ख्याया अधिकसङ्ख्यावन्त #इत्यर्थः । डचि टिलोपः । सङ्ख्यावाचकशब्दस्य सङ्ख्यावाचकशब्देन समासमुदाहरति — द्वित्रा इति ।वाऽर्थे बहुव्रीहिः । द्वित्यन्यतरा इत्यर्थः । डचि टिलोपः । ननुद्वित्रा आनीयन्ता॑मित्युक्ते कदाचिद्द्वावानयति, तदा कथं बहुवचनमिति चेत्, अत्र भाष्येअनिश्चये बहुवचनं प्रयोक्तव्य॑मिति वचनात् समाहितम् । तथाकार्यान्वये विकल्पः शब्दात्तु नियमेन कोटिद्वयोपस्थिति । तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः शब्दान्नियमेन पञ्चानामुपस्थिति॑रित्यपि समाहितम् । नच वाऽर्थप्राधान्यात् 'अनेकमन्यपदार्थे' इत्येवाऽत्र सिद्धमिति वाच्यं,शेषाद्विभाषे॑ति कबभावार्थकत्वात् । स हि कप् 'अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ सङ्ख्यायाः सङ्ख्यया समासे उदाहरणान्तरमाह — द्विदशा इति । शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्ख्याकदशत्ववन्त इत्यर्थः । फलितमाह — विंशतिरित्यर्थ इति ।

Padamanjari

Up

तिग्रहणं किमन्त्यस्य मा भूत् । सिद्धोऽन्त्यस्य लोप उतरसूत्रेण सिद्धे सत्यारम्भो नियमार्थः स्यात् - डित्येव यथा स्यादन्यत्र यस्येतिलोपो मा भूदिति । अथापि विधिनियमसम्भवे विधेरेव ज्यायस्त्वम् एवमप्यारम्भसामर्थ्यात् अलोऽन्त्यस्य इत्येतस्मिन् बाधिते समुदायस्यैव षष्ठीनिर्द्दिष्टस्य लोपप्रसङ्गः, न त्वसंशब्दितस्य तिशब्दस्य लोपः सिध्यति । तिग्रहणे तु सति तत्सामर्थ्याद् अलोऽन्त्यस्य इत्यस्यानुपस्थानात्सर्वस्य तिशब्दस्य भवति । विंशम्, विंशकमित्यादौ तिलोपे कृते अतो गुणे पररुपत्वम् । यस्येतिलोपस्तु न भवति तिलोपस्यासिद्धत्वात् ॥