झयः

8-2-10 झयः पदस्य पूर्वत्र असिद्धम् मतोः वः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

झयन्तादुत्तरस्य मतोर्व इत्ययमादेशो भवति। अग्निचित्वान् ग्रामः। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान् (आ०श्रौ० २.११.१०)। दृषद्वान् देशः॥

Siddhanta Kaumudi

Up

झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥

Laghu Siddhanta Kaumudi

Up

झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<झयः>> - अथविद्युत्वा॑नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह — झयः । अपदान्तत्वादिति । तसौ मत्वर्थे॑ इति भत्वेन पदत्वबाधादिति भावः ।

Padamanjari

Up

अग्निचित्वानिति । पूर्ववद्भत्वाज्जश्त्वाभावः ॥