5-2-46 शदन्तविंशते च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्मिन् अधिकम् इति
'तद् अस्मिन् अधिकम् इति' (इति) शदन्त-विंशतेः डः
'अस्मिन्' इत्यस्मिन् अर्थे 'अधिकम्' इति वक्तव्ये 'शत्' यस्य अन्ते अस्ति तादृशात् शब्दात्, तथा च 'विंशति' शब्दात् प्रथमासमर्थात् ड-प्रत्ययः भवति ।
तदस्मिन्नधिकमित्यनुवर्तते, ड इति च। शदन्तात् प्रातिपदिकाद् विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकमित्येतस्मिन् विषये। त्रिंशदधिका अस्मिञ् छते त्रिंशं शतम्। शद्ग्रहणेऽन्तग्रहणं प्रत्ययग्रहणे यस्मात् स तदादेः अधिकार्थम्। एकत्रिंशं शतम्। एकचत्वारिंशं शतम्॥ संख्याग्रहणं च कर्तव्यम्॥ इह मा भूद् — गोत्रिंशदधिका अस्मिन् गोशत इति॥ विंशतेश्च॥ विंशं शतम्॥ तदन्तादपीति वक्तव्यम्॥ एकविंशं शतम्। संख्याग्रहणं च कर्तव्यम्। इह मा भूत् — गोविंशतिरधिकास्मिन् गोशत इति॥
डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥
सूत्रार्थम् सम्यक् ज्ञातुमादौ केचन बिन्दवः ज्ञेयाः - 1. 'शदन्त' इत्युक्ते सः शब्दः यस्य अन्ते 'शत्' इति विद्यते । यथा - त्रिंशत्, चत्वारिंशत्, एकत्रिंशत्, द्विचत्वारिंशत् - एतादृशाः शब्दाः अनेन पदेन गृह्यन्ते । 2. अस्मिन् सूत्रे 'अधिकमस्मिन्' इति अर्थः उक्तः अस्ति । एतस्य स्पष्टीकरणार्थम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - <!शतसहस्रयोरेवेष्यते!> । इत्युक्ते, 'तत् अधिकमस्मिन् शते' ( A certain number more than hundred) तथा 'तत् अधिकमस्मिन् सहस्रे' (A certain number more than thousand) इत्येतयोः एव अर्थयोः अस्य सूत्रस्य प्रयोगः भवति । 3. अस्मिन् सूत्रे 'ड' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये 'ड्' इत्यस्य <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्य <<तस्य लोपः>> 1.3.9 इत्यनेन च लोपः भवति । प्रत्ययस्य डित्वात् <<टेः>> 6.4.143 इत्यनेन अङ्गस्य टिलोपः अपि विधीयते । इदानीम् कानिचन उदाहरणानि पश्यामः - 1. त्रिंशत् अधिकाः अस्मिन् शते = त्रिंशत् + ड → त्रिंश् + अ [<<टेः>> 6.4.143 इति टिलोपः] → त्रिंश यथा - 'त्रिंशम् शतम्' । This is thirty more than hundred - इत्यर्थः । 2. द्विचत्वारिंशत् अधिकाः अस्मिन् सहस्रे = द्विचत्वारिंशत् + ड → द्विचत्वारिंश् + अ [<<टेः>> 6.4.143 इति टिलोपः] → द्विचत्वारिंश यथा - द्विचत्वारिंशम् सहस्रम् । This is forty-two more than thousand - इत्यर्थः । 3. विंशतिः अधिकाः अस्मिन् सहस्रे = विंशति + ड → विंश + अ [<<ति विंशतेर्डिति>> 6.4.142 इति 'ति' इत्यस्य लोपः] → विंश [<<अतो गुणे>> 6.1.197 इति पररूपम्] यथा - विंशम् सहस्रम् । अत्र द्वे वार्त्तिके ज्ञातव्ये - 1. <!सङ्ख्याग्रहणम् च कर्तव्यम्!> । इत्युक्ते, 'शदन्त' इत्यनेन केवलम् सङ्ख्यावाचिशब्दानां एव ग्रहणं भवति, अन्येषाम् न । यथा - 'गोत्रिंशत् अधिका अस्मिन् शते' इत्यत्र वर्तमानसूत्रम् न प्रयुज्यते, यतः अत्र 'गोत्रिंशत्' इति समस्तपदम् सङ्ख्यासंज्ञकम् नास्ति । 2. <!विंशतेश्चान्तग्रहणम् कर्तव्यम् !> । इत्युक्ते, 'विंशति' शब्दस्य विषये 'तदन्तविधिः' स्वीकर्तव्यः, अत्रापि च सङ्ख्यावाचिशब्दानाम् एव ग्रहणम् कर्तव्यम्, अन्येषाम् न । यथा - [अ] पञ्चविंशतिः अधिकाः अस्मिन् शते = पञ्चविंशम् शतम् । [आ] गोविंशतिः अधिकाः अस्मिन् सहस्रे' - इत्यत्र प्रत्ययः न विधीयते । अस्य सूत्रस्य विषये केचन बिन्दवः स्मर्तव्याः - 1. अस्य सूत्रस्य प्रयोगः 'शतम्' / 'सहस्रम्' एतयोः विषये एव भवति । यथा - 'एकविंशतिः अधिका अस्मिन् त्रिंशति' इत्यत्र इदम् सूत्रम् न प्रयुज्यते । 2.अस्य सूत्रस्य प्रयोगस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!प्रकृतिप्रत्ययार्थयोः समानजातीयत्वे एवेष्यते!> । इत्युक्ते, यत्र 'शदन्त / विंशत्यन्त' शब्दः तथा च 'शतम् / सहस्रम्' शब्दः समानवस्तुनोः निर्देशं कुरुतः, तत्रैव अस्य सूत्रस्य प्रसक्तिः विद्यते, अन्यथा न । This sutra is applicable when the 'hundred / thousands' reference the same type of entity as the दशान्त represents. यथा - 'एकत्रिंशत् कार्षापणाः (coins) अधिकम् एतेषु शतेषु कार्षापणेषु' इत्यत्र 'एकत्रिंशम् कार्षापणशतम्' इति प्रयोगः भवति, परन्तु 'एकत्रिंशत् कार्षापणाः अधिकाः एतेषु शतेषु माषेषु (grains)' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 3. अस्मिन् सूत्रे 'इति' अयम् शब्दः अनुवृत्त्या स्वीक्रियते । अस्य प्रयोजनम् 'विवक्षा' इति अस्ति एतत् व्याख्यानानि स्पष्टीकुर्वन्ति । अत्र 'विवक्षा' इत्यनेन 'शत' तथा 'सहस्र' एतयोः निर्देशः भवति । इत्युक्ते, केवलम् 'शत' तथा 'सहस्र' एतयोः विषये एव वर्तमानसूत्रस्य प्रसक्तिः भवेत् - इति स्पष्टीकर्तुमेव अत्र 'इति' शब्दः उक्तः अस्ति ।
<<शदन्तविंशतेश्च>> - शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे — डः स्यादुक्तेऽर्थेइति । दशान्तत्वाऽभावात्पूर्वेणाऽप्राप्तिः । तिंरशं शतमिति । हे सतिटि॑रिति टिलोपः । विंशमिति । विंशतिरिस्मिन्नधिका इति विग्रहः ।ति विंशते॑रिति तिशब्दस्य लोपः । अन्तग्रहणादेकतिंरशं शतमिति सिद्धम् । अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् ।विंशतावप्यन्तग्रहण॑मिति वार्तिकादेकविंशं शतमित्यादि सिद्धम् ।