विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्

5-1-24 विंशतित्रिंशद्भ्यां ड्वुन् असञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्

Sampurna sutra

Up

index: 5.1.24 sutra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्


विंशति-त्रिंशद्भ्यामा-अर्हात् असंज्ञायाम् ड्वुन्

Neelesh Sanskrit Brief

Up

index: 5.1.24 sutra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्


'विंशति' शब्दात् तथा च 'त्रिंशत्' शब्दात् आर्हीय-अर्थेषु संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.24 sutra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्


विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवति असंज्ञायां विषये आर्हीयेष्वर्थेषु। विंशकः। त्रिंशकः। ति विंशतेर्डिति 6.4.142 इति तिलोपः। असंज्ञायाम् इति किम्? विंशतिकः। त्रिंशत्कः। कथं पुनरत्र कन्, यावता अतिशदन्तायाः इति पर्युदासेन भवितव्यम्? योगविभागः करिष्यते, विंशतित्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुनसंज्ञायां इति।

Siddhanta Kaumudi

Up

index: 5.1.24 sutra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्


योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.24 sutra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्


प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु 'विंशति' तथा 'त्रिंशत्' शब्दानां विषये आर्हीय-अर्थेषु वर्तमानसूत्रेण तस्य बाधनं कृत्वा संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति । यथा -

  1. विंशत्या क्रीतम्

= विंशति + ड्वुन्

→ विंशति + अक [डकारनकारयोः इत्संज्ञा, लोपः । 'वु' इत्यस्य युवोरनाकौ 7.1.1 इति अक-आदेशः]

→ विंश + अक [ते विंशतेर्डिति 6.4.142 इति 'ति' इत्यस्य लोपः]

→ विंशक [अतो गुणे 6.1.97 इति पररूप-एकादेशः]

  1. त्रिंशता क्रीतम्

= त्रिंशत् + ड्वुन्

→ त्रिंशत् + अक [डकारनकारयोः इत्संज्ञा, लोपः । 'वु' इत्यस्य युवोरनाकौ 7.1.1 इति अक-आदेशः]

→ त्रिंश् + अक [टेः 6.4.143 इति टिलोपः]

→ त्रिंशक

परन्तु यदि संज्ञायाः (कस्यचन वस्तुनः नाम्नः) निर्देशः करणीयः अस्ति, तर्हि वर्तमानसूत्रेण ड्वुन्-प्रत्ययः न भवति - यतः अस्मिन् सूत्रे 'असंज्ञायाम्' इति उच्यते । अस्यां स्थितौ विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः करणीयः - इति भाष्यकारः वदति । वस्तुतः अत्र कन्-प्रत्ययस्य प्रसक्तिः नास्ति - अत्र औत्सर्गिकः ठञ्-प्रत्ययः एव भवेत्, परन्तु अत्र कन्-प्रत्ययः एव इष्यते । तदर्थम् संख्याया अतिशदन्तायाः कन् 5.1.22 इत्यस्मात् 'कन्' इत्यस्य अनुवृत्तिं कृत्वा भाष्यकारः योगविभागं कारयति - 'विंशतित्रिंशद्भ्यां कन् ; असंज्ञायाम् ड्वुन्' इति । अनेन प्रकारेण संज्ञायाः विषये विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः भवति । विंशत्या क्रीतम् विंशतिकम् , त्रिंशता क्रीतम् त्रिंशत्कम् ।

Balamanorama

Up

index: 5.1.24 sutra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्


विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् - विंशतित्रिशद्भ्यां । नन्वेकसूत्रत्वे विंशतितिंरशद्भ्यां ड्वुनेव स्यात्, कन् तु नस्यात्, 'अतिशदन्ताया' इति निषेधादित्यत आह — योगेति । विंशतित्रिशद्भ्यामित्येकं सूत्रम् ।ड्वुन्नसंज्ञायां॑मित्यपरमित्यर्थः । आद्यं व्याचष्टे — आभ्यां कन्स्यादिति ।शसङ्ख्याया अतिशदन्तायाः॑इत्यतः कनित्यनुवर्तते इति भावः । द्वितीयसूत्रे विंशतितिंरशद्भ्या॑मित्यनुवृत्तिभिप्रेत्याह — असंज्ञायामिति ।आभ्या॑मिति शेषः । विंशक इति । विंशत्या क्रीत इत्यर्थः । ड्वुन् । अकादेशः ।ति विंशतेर्डिती॑ति तिशब्दस्य लोपः । तिंरशक इति । ड्वुन् । अकादेशः ।टे॑रिति टिलोपः । आद्यसूत्रं परिशेषात्संज्ञायामित्यभिप्रेत्याह — संज्ञायां त्विति । कंसात् । इत्यादि स्पष्टम् ।

Padamanjari

Up

index: 5.1.24 sutra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्


विंशक इति।'ति विंशतेर्डिति' इति तिशब्दस्य लोपः, ठतो गुणेऽ इति पररूपत्वम्। यस्येति लोपस्तु न भवति, ठसिद्धवदत्राभात्ऽ इति तिलोपस्यासिद्धत्वात्। ननु सुबन्तातद्धितोत्पतिः, ततश्चान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा भवति, तत्कथं पररूपत्म्; या तु ड्वुनमपेक्ष्य भसंज्ञा, सा येन नाप्रप्तिन्यायेन'स्वादिषु' इति या पदसंज्ञा तामेव वाधते, न'सुप्तिङ्न्तं पदम्' इत्येतामपि ? एतामपि बाधते। कथम् ? परत्वात्। अत एव'सामन्यः' इत्यादौ नलोपाद्यभावः। कथं पुनरत्रेति। त्रिंशत्कमधिकृत्य प्रश्नप्रतिचने। विंशतिशब्दातु कनः सिद्धिः प्रागेव प्रतिपादिता। यदा तु द्वयोर्दशतोर्वलिशभावस्तिश्च प्रत्यय इति पक्षः, तदा विंशतिकमप्यधिकृत्य भवतः ॥