5-1-24 विंशतित्रिंशद्भ्यां ड्वुन् असञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्
विंशति-त्रिंशद्भ्यामा-अर्हात् असंज्ञायाम् ड्वुन्
'विंशति' शब्दात् तथा च 'त्रिंशत्' शब्दात् आर्हीय-अर्थेषु संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति ।
विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवत्यसंज्ञायां विषय आर्हीयेष्वर्थेषु । विंशकः। त्रिंशकः। <<ति विंशतेर्डिति>> ६.४.१४२ इति तिलोपः। असंज्ञायामिति किम् ? विंशतिकः। त्रिंशत्कः। कथं पुनरत्र कन्, यावता अतिशदन्ताया इति पर्युदासेन भवितव्यम् ? योगविभागः करिष्यते — विंशतित्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुन्नसंज्ञायामिति ॥
योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥
<<प्राग्वतेष्ठञ्>> 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु 'विंशति' तथा 'त्रिंशत्' शब्दानां विषये आर्हीय-अर्थेषु वर्तमानसूत्रेण तस्य बाधनं कृत्वा संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति । यथा - 1. विंशत्या क्रीतम् = विंशति + ड्वुन् → विंशति + अक [डकारनकारयोः इत्संज्ञा, लोपः । 'वु' इत्यस्य <<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] → विंश + अक [<<ते विंशतेर्डिति>> 6.4.142 इति 'ति' इत्यस्य लोपः] → विंशक [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] 2. त्रिंशता क्रीतम् = त्रिंशत् + ड्वुन् → त्रिंशत् + अक [डकारनकारयोः इत्संज्ञा, लोपः । 'वु' इत्यस्य <<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] → त्रिंश् + अक [<<टेः>> 6.4.143 इति टिलोपः] → त्रिंशक परन्तु यदि संज्ञायाः (कस्यचन वस्तुनः नाम्नः) निर्देशः करणीयः अस्ति, तर्हि वर्तमानसूत्रेण ड्वुन्-प्रत्ययः न भवति - यतः अस्मिन् सूत्रे 'असंज्ञायाम्' इति उच्यते । अस्यां स्थितौ विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः करणीयः - इति भाष्यकारः वदति । वस्तुतः अत्र कन्-प्रत्ययस्य प्रसक्तिः नास्ति - अत्र औत्सर्गिकः ठञ्-प्रत्ययः एव भवेत्, परन्तु अत्र कन्-प्रत्ययः एव इष्यते । तदर्थम् <<संख्याया अतिशदन्तायाः कन्>> 5.1.22 इत्यस्मात् 'कन्' इत्यस्य अनुवृत्तिं कृत्वा भाष्यकारः योगविभागं कारयति - 'विंशतित्रिंशद्भ्यां कन् ; असंज्ञायाम् ड्वुन्' इति । अनेन प्रकारेण संज्ञायाः विषये विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः भवति । विंशत्या क्रीतम् विंशतिकम् , त्रिंशता क्रीतम् त्रिंशत्कम् ।
<<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> - विंशतित्रिशद्भ्यां । नन्वेकसूत्रत्वे विंशतितिंरशद्भ्यां ड्वुनेव स्यात्, कन् तु नस्यात्, 'अतिशदन्ताया' इति निषेधादित्यत आह — योगेति । विंशतित्रिशद्भ्यामित्येकं सूत्रम् ।ड्वुन्नसंज्ञायां॑मित्यपरमित्यर्थः । आद्यं व्याचष्टे — आभ्यां कन्स्यादिति ।शसङ्ख्याया अतिशदन्तायाः॑इत्यतः कनित्यनुवर्तते इति भावः । द्वितीयसूत्रे विंशतितिंरशद्भ्या॑मित्यनुवृत्तिभिप्रेत्याह — असंज्ञायामिति ।आभ्या॑मिति शेषः । विंशक इति । विंशत्या क्रीत इत्यर्थः । ड्वुन् । अकादेशः ।ति विंशतेर्डिती॑ति तिशब्दस्य लोपः । तिंरशक इति । ड्वुन् । अकादेशः ।टे॑रिति टिलोपः । आद्यसूत्रं परिशेषात्संज्ञायामित्यभिप्रेत्याह — संज्ञायां त्विति । कंसात् । इत्यादि स्पष्टम् ।
विंशक इति।'ति विंशतेर्डिति' इति तिशब्दस्य लोपः, ठतो गुणेऽ इति पररूपत्वम्। यस्येति लोपस्तु न भवति, ठसिद्धवदत्राभात्ऽ इति तिलोपस्यासिद्धत्वात्। ननु सुबन्तातद्धितोत्पतिः, ततश्चान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा भवति, तत्कथं पररूपत्म्; या तु ड्वुनमपेक्ष्य भसंज्ञा, सा येन नाप्रप्तिन्यायेन'स्वादिषु' इति या पदसंज्ञा तामेव वाधते, न'सुप्तिङ्न्तं पदम्' इत्येतामपि ? एतामपि बाधते। कथम् ? परत्वात्। अत एव'सामन्यः' इत्यादौ नलोपाद्यभावः। कथं पुनरत्रेति। त्रिंशत्कमधिकृत्य प्रश्नप्रतिचने। विंशतिशब्दातु कनः सिद्धिः प्रागेव प्रतिपादिता। यदा तु द्वयोर्दशतोर्वलिशभावस्तिश्च प्रत्यय इति पक्षः, तदा विंशतिकमप्यधिकृत्य भवतः ॥