6-1-124 इन्द्रे च संहितायाम् अचि प्रकृत्या गोः अवङ्
गोः इन्द्रे अवङ्
गो-शब्दस्य इन्द्र-शब्दे परे संहितायाम् अवङ्-आदेशः भवति ।
In the context of संहिता, The word गो when followed by the word इन्द्र gets the अवङ्-आदेश.
इन्द्रशब्दस्थेऽचि परतो गोर्नित्यमवङादेशो भवति। गवेन्द्रः। गवेन्द्रयज्ञस्वरः॥
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥
पदसंज्ञकस्य गो-शब्दात् परः संहितायाम् 'इन्द्र' इति शब्दः विद्यते चेत् <<अवङ् स्फोटायनस्य>> 6.1.123 इति सूत्रेण विकल्पेन प्राप्तः अवङ्-आदेशः <<इन्द्रे च नित्यम्>> 6.1.124 इत्यनेन नित्यम् (compulsory) एव विधीयते । यद्यपि अत्र सूत्रे 'नित्यम्' इति शब्दः नास्ति, तथापि अत्र सूत्रविधानसामर्थ्यात् एव नित्यत्वं सिद्ध्यति । इत्युक्ते, यदि 'इन्द्र' शब्दे परे अवङ्-आदेशः विकल्पेन एव अभविष्यत्, तर्हि <<अवङ् स्फोटायनस्य>> 6.1.123 इत्येव सूत्रं पर्याप्तं स्यात् । परन्तु इन्द्र-शब्दस्य विषये आचार्येण पृथक् सूत्रम् रचितम् अस्ति । एतदेव अवङ्-आदेशस्य नित्यत्वस्य ज्ञापकम् ।
अत्र प्रक्रिया एतादृशी वर्तते —
<<इन्द्रे च (नित्यम्)>> - इन्द्रे च ।गोः॑,अवङ्,अची॑त्यनुवर्तते । तदाह — गोरिति । विकल्पनिवृत्त्यर्थः । गवेन्द्र इति । गो-इन्द्र इति स्थिते अवङ् । आद्गुणः ।*समाप्तम्***अथ अदादिप्रकरणम् ।
अत्र यदि ठचिऽ इति विशेषणम्, इन्द्रशब्दो विशेष्यम्, तदाऽजादौ इन्द्रशब्द इत्यर्थः स्यात्। ततश्च गवेन्द्रयज्ञ इत्यादौ न स्यात्, अनुतरपदत्वात्। यद्यप्यत्रोतरपदग्रहणं नास्ति, तथाप्यर्थात्समास एतद्विधानम्, न ह्यन्यत्र गोरनन्तर इन्द्रशब्दः सम्भवति। समासे च विधानमर्थादुतरपद एव स्यात् -ष्यङः सम्प्रसारणवत्, तस्मादज्विशेष्यम्, इन्द्रशब्दो विशेषणम्, अचि परतः कस्मिन्निन्द्रे यः स्थितस्तस्मिन्निति, तदिदमुक्तम् -इन्द्रशब्दस्थेऽचीति ॥