5-3-119 ञ्यादयः तद्राजाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः
index: 5.3.119 sutra: ञ्यादयस्तद्राजाः
ञ्य-आदयः तद्राजाः
index: 5.3.119 sutra: ञ्यादयस्तद्राजाः
पूगाञ्ञ्योऽग्रामणीपूर्वात् 5.3.112 इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रम् यावत् उक्ताः प्रत्ययाः 'तद्राज' इति संज्ञां स्वीकुर्वन्ति ।
index: 5.3.119 sutra: ञ्यादयस्तद्राजाः
पूगाञ् ञ्योऽग्रामणीपूर्वात् 5.3.112 इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसंज्ञा भवन्ति। तथा च एव उदाहृतम्। तद्राजप्रदेशाः तद्राजस्य बहुसु इत्येवमादयः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादःपञ्चमाध्यायस्य चतुर्थः पादः।
index: 5.3.119 sutra: ञ्यादयस्तद्राजाः
पूगाञ्यः - <{SK2066}> इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥
index: 5.3.119 sutra: ञ्यादयस्तद्राजाः
अनेन सूत्रेण 'तद्राज' इति काचन संज्ञा पाठ्यते । पूगाञ्ञ्योऽग्रामणीपूर्वात् 5.3.112 इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रं यावत् पाठिताः सर्वे प्रत्ययाः 'तद्राज' नाम्ना ज्ञायन्ते । एतेषामावली इयम् -
1) ञ्य-प्रत्ययः - पूगाञ्ञ्योऽग्रामणीपूर्वात् 5.3.112, व्रातच्फञोरस्त्रियाम् 5.3.113
2) ञ्यट् -प्रत्ययः - आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् 5.3.114
3) टेण्यण्-प्रत्ययः - वृकाट्टेण्यण् 5.3.115
4) छ-प्रत्ययः - दामन्यादित्रिगर्तषष्ठाच्छः 5.3.116
5) अण्-प्रत्ययः - पर्श्वादियौधेयादिभ्यामणञौ 5.3.117
6) अञ्-प्रत्ययः - पर्श्वादियौधेयादिभ्यामणञौ 5.3.117
7) यञ्-प्रत्ययः - अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् 5.3.118
किम् प्रयोजनम् 'तद्राज'संज्ञायाः? तद्राजसंज्ञकप्रत्ययान्तशब्देभ्यः विहितः ये बहुवचनस्य सुप्-प्रत्ययाः, तेषाम् तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इत्यनेन लुक् उच्यते । उदाहरणद्वयम् पश्यामः -
अ) आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् 5.3.115 इत्यनेन 'कुण्डिबृस' शब्दात् स्वार्थे 'ञ्यट्' प्रत्ययं कृत्वा 'कौञ्डिबृस्य' इति प्रातिपदिकम् सिद्ध्यति । अस्य प्रथमाबहुवचनस्य रूपसिद्धिः इयम् -
कुण्डिबृस + ञ्यट् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ कुण्डिबृस + जस् [प्रथमाबहुवचनस्य जस्-प्रत्यये परे तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इति ञ्यट्-प्रत्ययस्य लुक्]
→ कुण्डिबृसाः ।
आ) वृकाट्टेण्यण् 5.3.115 इत्यनेन 'वृक' शब्दात् स्वार्थे 'टेण्यण्' प्रत्ययं कृत्वा 'वार्केण्य' इति प्रातिपदिकं सिद्ध्यति । अस्य चतुर्थीबहुवचनस्य रूपस्य प्रक्रिया इयम्
वृक + टेण्यण् + भ्यस् [चतुर्थीबहुवचनस्य प्रत्ययः]
→ वृक + भ्यस् [बहुवचनस्य प्रत्यये परे टेण्यण्-प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इति लुक्]
→ वृकेभ्यः
एवमेव सर्वासाम् विभक्तीनाम् विषये बहुवचनस्य प्रत्ययस्य लुक् भवति ।
स्मर्तव्यम् -
अत्र निर्दिष्टाः प्रत्ययाः केवलमस्मिन् सन्दर्भे एव तद्राजसंज्ञां स्वीकुर्वन्ति । यथा, 'छ' प्रत्ययः तदा एव तद्राजसंज्ञकः भवति यदा तस्य विधानम् दामन्यादित्रिगर्तषष्ठाच्छः 5.3.116 इत्यनेन क्रियते । अन्यैः सूत्रैः विहितः छ-प्रत्ययः तद्राजसंज्ञकः नास्ति । एवमेव अन्येषाम् विषये अपि ज्ञेयम् ।
एते सर्वे तद्राजसंज्ञकप्रत्ययाः समर्थानां प्रथमात् वा 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारे विधीयन्ते, अतः एते सर्वेऽपि विकल्पेनैव भवन्ति ।
तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणे ते तद्राजाः 4.1.174 इत्यपि किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण 'अञ्', 'अण्', 'ञ्यङ्', 'ण्य', 'इञ्' एते पञ्च प्रत्ययाः अपि विशिष्ट-सन्दर्भे तद्राजसंज्ञकाः भवन्ति ।
प्राग्दीव्यतीयप्रकरणे कम्बोजाल्लुक् 4.1.175 तथा स्त्रियामवन्तिकुन्तिकुरुभ्यश्च 4.1.176 इत्यनेन तद्राजप्रत्ययस्य उक्तः लुक् वर्तमानप्रकरणे न विधीयते, यतः वर्तमानप्रकरणे एतेभ्यः शब्देभ्यः तद्राजप्रत्ययः न पाठ्यते । तथा च, अतश्च 4.1.177 इत्यनेन उक्तः लुक् अपि वर्तमानप्रकरणस्य विषये न विधीयते, यतः न प्राच्यभर्गादियौधेयादिभ्यः 4.1.178 इत्यनेन वर्तमानप्रकरणस्य विषये विशिष्टरूपेण अयम् लुक् निषिध्यते ।
index: 5.3.119 sutra: ञ्यादयस्तद्राजाः
ञ्यादयस्तद्राजाः - ञ्यादयस्तद्राजाः । लोहितध्वजा इति ।पूगा॑दिति विहितस्य ञ्यस्य तद्वाजत्वाद्बहुत्वे लुक् । कपोतपाकाः कौञ्जायनाः ब्राआध्नायना इति ।व्रातच्फञो॑रिति विहितस्य ञ्यस्य लुक् । इत्यादीति । क्षौद्रक्यौ, क्षुद्रकाः ।आयुधजीवी॑ति ञ्यटो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दीमनीयौ, दामनयः, कौण्डोपरथाः इत्यादौदामन्यादित्रिगर्तषष्ठा॑दिति छस्य लुक् । पार्शवौः, पार्शव, पर्शवः, यौधेयाः इत्यत्र पर्ाआदियौधेयाद्यणञोर्लुक् । आभिजित्यः आभिजित्यौ, अभिजितः, विदभृत इत्यादौअभिजिद्विदभृ॑दित्यादिविहितस्य यञो लुगिति भावः । इति पञ्चमस्य तृतीयपादः ।