न प्राच्यभर्गादियौधेयादिभ्यः

4-1-178 न प्राच्यभर्गादियौधेयादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्

Sampurna sutra

Up

index: 4.1.178 sutra: न प्राच्यभर्गादियौधेयादिभ्यः


प्राच्य-भर्गादि-यौधेयादिभ्यः स्त्रियाम् तद्राजस्य लुक् न

Neelesh Sanskrit Brief

Up

index: 4.1.178 sutra: न प्राच्यभर्गादियौधेयादिभ्यः


पूर्वदिशायां विद्यमानाः ये जनपदाः, भर्गादिगणे विद्यमानाः ये जनपदाः, तथा यौधेयादिगणे विद्यमानाः ये जनपदाः, तेभ्यः विहितस्य तद्राजसंज्ञकप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् न भवति ।

Kashika

Up

index: 4.1.178 sutra: न प्राच्यभर्गादियौधेयादिभ्यः


प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्च उत्पन्नस्य लुग्न भवति। अतश्च 4.1.177 इत्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते। प्राच्येभ्यः क्षत्रियेभ्यस् तावत् पाञ्चाली। वैदेही। आङ्गी। वाङ्गी। मगधी। भर्गादिभ्यः भार्गी। कारूषी। कैकेयी। यौधेयादिभ्यः यौधेयी। शौभ्रेयी। शौक्रेयी। कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक् प्राप्तः प्रतिषिध्यते? पाञ्चमिकस्यञः, पर्श्वादियौधेयादिभ्यामनञौ इत्येतस्य। कथं पुनस् तस्य भिन्नप्रकरणस्थस्य अनेन लुक् प्राप्नोति? एतदेव विज्ञापयति पाश्चमिकस्य अपि तद्राजस्य अतश्च इत्यनेन लुग् भवतीति। किम् एतस्य ज्ञापनेन प्रयोजनम्? पर्श्वाद्याणः स्त्रियां लुक् सिद्धो भवति। पर्शूः। रक्षाः। असुरी। तथा च उक्तं यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुकिति। भर्ग। करूष। केकय। कश्मीर। साल्व। सुस्थाल। उरश। कौरव्य। इति भर्गादिः। यौधेय। शौभ्रेय। शौक्रेय। ज्याबानेय। धार्तेय। धार्तेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः। इति श्रीजयादित्यविरचितायाम् काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः। चतुर्थाध्यायस्य द्वितीयः पादः।

Siddhanta Kaumudi

Up

index: 4.1.178 sutra: न प्राच्यभर्गादियौधेयादिभ्यः


एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एत् प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । युधा शुक्रा आभ्यां द्व्यचः-<{SK1124}> इति ढक् । ततः स्वार्थे पर्श्वादियौधेयादिभ्योऽणञौ-<{SK2070}> इत्यञ् । शार्ङ्गरवाद्यञ -<{SK527}> इति ङीन् । अतश्च-<{SK1196}> इति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ॥

Balamanorama

Up

index: 4.1.178 sutra: न प्राच्यभर्गादियौधेयादिभ्यः


न प्राच्यभर्गादियौधेयादिभ्यः - न प्राच्य । एभ्य इति । प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चेतियर्थः । एते प्राच्या इति । 'क्षत्रिया' इति शेषः । यथायथमञोऽणश्च लुक् । भर्गादीनुदाहरति — भार्गीस कारूशी, कैकेयीति । जन्यजनकभावेति । अत्र यद्वक्तव्यं तत्पुंयोगादाख्याया॑मित्यत्रोक्तम् । अथ यौधेयादिभ्यो लुक्प्रतिषेधं दर्शयितुमाह — युधा, शुक्रा इत्यादिना । ढगिति । युधाया अपत्यं, शुक्राया अपत्यमिति विग्रहे तन्नामिकाऽणं बाधित्वा 'द्व्यचः' इति ढकि एयादेशेयस्येति चे॑त्यकारलोपे आदिवृद्धिः । यौधेयशब्दात्, शौक्रेयशबदाच्चपर्ाआदियौधेयादिभ्योऽणञौ॑ इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अञियस्येति चे॑त्यकारलोपे 'शाङ्र्गरवाद्यञः' इति ङीनि यौधेयी शौक्रेयीति रूपमिति भावः । नन्वत्र 'अतश्च' इत्यञोलुकि सत्यपिटिड्ढे॑ति ङीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणनर्थकमित्यत आह — अतश्चेति लुकि त्विति । उदात्तनिवृत्तीति । अनुदात्तस्य च यत्रोदात्तलोपः॑ इत्यनेन ङीबुदात्तः स्यात् । सिद्धान्ते त्वञन्तत्वान्ङीनि आद्युदात्तत्वमिति भावः ।

Padamanjari

Up

index: 4.1.178 sutra: न प्राच्यभर्गादियौधेयादिभ्यः


पाच्चालीत्यादि । पञ्चालादयः शरवत्याः प्राञ्चो जनपदाः । भर्गादिग्रहणमप्रागर्थम् । भृञो गः, भर्गः । कृञ उः, करुः, तमोषतिउद्वेष्टि, मूलविभूजादित्वात्कः, करूषाः । चिनोतेः कयः आदेश्च कः, बहुलवचनादित्संज्ञाभावः, केकयः । कशेर्मिरः, कश्मीरः । साल्वशब्दो निरुक्तः । शोभनानि स्थलान्यस्य सुस्थलः । उरसा शेते उरशः ।'कुरुनादिभ्यो ण्यः' कौरव्यः । यौधेयीत्यादि । युधाया अपत्यम्, शुभ्राया अपत्यम्,'द्व्यचः' इति ढक् । शुभ्राशब्दात्'शुभ्रादिभ्यश्च' इति, ततः स्वार्थे'पर्श्वादियौधेयादिभ्यः' इत्यञ् । यद्यञो लुक् स्याड्ढग्लक्षणे ङीपि सति उतादतनिवृत्तिस्वरः स्यात्, लुकि तु प्रतिषिद्धे'शार्ङ्गरवाद्यञः' इति ङीनि सत्याद्यौदातं भवति । कस्य पुनरिति । अस्य वक्ष्यमाणोऽभिप्रायः, तमेव प्रकाशयति - कथं पुनरिति । परिहरति - एतदेवेति पर्शुरिति । पर्शुः क्षत्रियो जनपदेन समानशब्दः, तस्यापत्यं सङ्घः, स्त्रीत्वविशिष्टः,'द्व्यञ्मगध' इत्यण्, तस्य ठतश्चऽ इति लुक्, पुनः पर्श्वादिलक्षणः स्वार्थिकोऽण्, तस्यापि लुक् । एवं रक्षा इति । रक्षसः क्षत्रियस्यापत्यम्, स्त्रीत्वविशिष्टः सङ्घः, पूर्ववदण्, द्वयस्यापि लुक्, ठत्वसन्तस्यऽ इति दीर्घः । आसुरीति । जनपदलक्षणस्याञो लुकि पर्श्वादिलक्षणस्याणो लुक्, जातिलक्षणो ङीष् । ज्ञापकत्वमेव द्रढयति - तथा चोक्तमिति । वार्तिककारेणैदुक्तम् । यौधेयादिषु त्रयो निरुक्ताः; ज्यायासहितो बाणो यस्याः सा ज्याब्राणा, तस्या अपत्यं ज्याबाणेयः । ज्यावानेय इत्यन्ये पठन्ति, तत्र ज्यावानो यस्या ज्यावाना ।'घृ क्षरणे' 'धृ धारणे' आभ्यां क्तिजन्ताभ्याम् ठितश्चानिञःऽ इति ढक्, घार्तेयः, धार्तेयः । त्रयो गर्ता येषां ते त्रिगर्ताः ।'भृञो' तच्ऽ, भरतः । वशेः कर्मणि किः, उशिः, उशयः, उष्टा नरा यस्य स उशीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घः ॥