कम्बोजाल्लुक्

4-1-175 कम्बोजात् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात् तद्राजाः स्त्रियाम्

Sampurna sutra

Up

index: 4.1.175 sutra: कम्बोजाल्लुक्


तद्राजस्य कम्बोजात् लुक्

Neelesh Sanskrit Brief

Up

index: 4.1.175 sutra: कम्बोजाल्लुक्


'कम्बोज'शब्दात् विहितस्य तद्राजप्रत्ययस्य लुक् भवति ।

Kashika

Up

index: 4.1.175 sutra: कम्बोजाल्लुक्


जनपदशब्दात् क्षत्रियातित्यनेन विहितस्य अञो लुगुच्यते। कम्बोजात् प्रत्ययस्य लुक् भवति। कम्बोजः। कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम्। चोलः। केरलः। शकः। यवनः। तस्य राजनि इत्येव, कम्बोजो राजा।

Siddhanta Kaumudi

Up

index: 4.1.175 sutra: कम्बोजाल्लुक्


अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ ॥<!कम्बोजादिभ्य इति वक्तव्यम् !> (वार्तिकम्) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ-<{SK1473}> इत्यण् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.175 sutra: कम्बोजाल्लुक्


अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । कम्बोजादिभ्य इति वक्तव्यम् (वार्त्तिकम्) । चोलः । शकः । केरलः । यवनः ॥ इत्यपत्याधिकारः ॥ २ ॥

Balamanorama

Up

index: 4.1.175 sutra: कम्बोजाल्लुक्


कम्बोजाल्लुक् - कम्बोजाल्लुक् । 'तद्राजा' इत्यनुवृत्तं षष्ठआ विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थं सूत्रम् ।तदाह-कम्बोजः कम्बोजाविति ।जनपदशब्दा॑दिति विहितस्य अञो लुक् । चोलः शक इति । चोलशकौ देशविशेषौ, राजविशेषौ च द्व्यज्लक्षणस्येति ।द्व्यञ्मगधे॑ति विहितस्येत्यर्थः । केरल इति । केरलयवनशब्दौ देशराजोभयवाचिनौ । अञो लुगिति ।जनपदशब्दादिति विहितस्ये॑ति शेषः । ननु 'काम्बोज' इति कथं, लुक्प्रसङ्गादित्यत आह — कम्बोजाः समरे इति । दीर्घपाठे त्विति । अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति । यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति । सिन्धुतक्षेति । सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः ।

Padamanjari

Up

index: 4.1.175 sutra: कम्बोजाल्लुक्


चोलः, शक इति ।'द्व्यञ्मगध' इत्यस्याणः । केरल इत्यत्राञः ॥