5-3-115 वृकात् टेण्यण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः आयुधजीविसङ्घात्
index: 5.3.115 sutra: वृकाट्टेण्यण्
आयुधजीविसङ्घात् वृकात् टेण्यण्
index: 5.3.115 sutra: वृकाट्टेण्यण्
आयुधजीविनाम् सङ्घस्य निर्देशवाची यः 'वृक' शब्दः, तस्मात् टेण्यण् प्रत्ययः स्वार्थे भवति ।
index: 5.3.115 sutra: वृकाट्टेण्यण्
आयुधजीविसङ्घातिति वर्तते। वृकशदातायुधजीविनः स्वार्थे टेण्यण् प्रत्ययो भवति। टकारो ङीबर्थो, णकारो वृद्ध्यर्थः। वार्केण्यः, वार्केण्यौ, वृकाः। आयुधजीविसङ्घविशेषणं, जातिशब्दान् मा भूत्। कामक्रोधौ मनुस्याणां खादितारौ वृकाविव।
index: 5.3.115 sutra: वृकाट्टेण्यण्
आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥
index: 5.3.115 sutra: वृकाट्टेण्यण्
'वृक' इति कस्यचन सङ्घस्य आयुधजीविनाम् सङ्घस्य नाम (Name of a tribe of people who earn their living using weapons, E.g. by hunting) । अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे टेण्यण्-प्रत्ययः भवति । यथा -
वृक + टेण्यण्
→ वृक + एण्य [टकारणकारयोः इत्संज्ञा, लोपः]
→ वार्क + एण्य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ वार्क् + एण्य [यस्येति च 6.4.148 इति अकारलोपः]
→ वार्केण्य ।
विशेषः - समर्थानां प्रथमात् वा 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः टेण्यण्-प्रत्ययः विकल्पेनैव भवति ।
स्मर्तव्यम् -
वृक + टेण्यण् + ङीप्
→ वृक + एण्य + ई [टकारणकारयोः इत्संज्ञा, लोपः]
→ वार्क + एण्य + ई[तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ वार्क् + एण्य + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ वार्केण्य् + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ वार्केण् + ई [हलस्तद्धितस्य 6.4.150 इति यकारलोपः]
→ वार्केणी
''वृक' इत्यस्य शब्दस्य 'शृगालः' (Jackal) इत्यपि अन्यः अर्थः अस्ति । परन्तु तस्मिन् सन्दर्भे वर्तमानसूत्रस्य प्रसक्तिः नास्ति । एतदेव स्पष्टीकर्तुमस्मिन् सूत्रे 'आयुधजीविसङ्घात्' इति शब्दः प्रयुज्यते । केवलमायुधजीविवाचिनि अर्थे प्रयुक्तः यः 'वृक'शब्दः, तस्मात् एव 'टेण्यण्' प्रत्ययः स्यात् - इति आशयः ।
अनेन सूत्रेण उक्तस्य टेण्यण्-प्रत्ययस्य ञ्यादयस्तद्राजाः 5.3.119 इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'वार्केण्य' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'टेण्यण्' प्रत्ययस्य लुक् भवति । यथा -
वृक + टेण्यण् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ वृक + जस् [टेण्यण्-प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इति लुक्]
→ वृकाः
अतः 'वार्केण्य' शब्दस्य रूपाणि - 'वार्केण्यः, वार्केण्यौ, वृकाः' इति भवन्ति ।
index: 5.3.115 sutra: वृकाट्टेण्यण्
वृकाट्टेण्यण् - वृकाट्टेण्यण् । वृको नाम कश्चिदायुधजीविसङ्घः । स एव वार्केण्यः । आदिवृद्धिः । रपरत्वम् । जातिविशेषादिति । वृको नाम कश्चिन्मनुष्यखादी चतुष्पाज्जातिविशेषः प्रसिद्धः,तस्मान्नेत्यर्थः ।
index: 5.3.115 sutra: वृकाट्टेण्यण्
पार्श्व इत्यादि। पर्शू, रक्षस्, असुर - इत्येते जनपदशब्दाः, तत्राकारान्ताद्बहुष्वपत्येषु'जनपदशब्दात्क्षत्रियादञ्' इत्यञ्, इतराभ्याम्'द्व्यञ्मगध' इत्यादिनाण्, तद्राजत्वाल्लुक्, पुनः सङ्घविवक्षायामनेनाण्। यौधेय इति। युधेतेऽसौ, युधेरिगुपधलक्षणः कः - युधा, तस्य अपत्यम्'द्व्यचः' इति ढक्, तदन्तात्सङ्घरूपविवक्षायामनेनाञ् - यौधेय इत्याद्यौदातं भवति। तथा यौधेयस्याङ्को लक्षणं वा यौधेय इति - सङ्घाङ्कलक्षणेष्वञ्लक्षणोऽण् भवति। एतेन यौधेयादिषु ये ढगन्तास्ते सर्वे व्याख्याताः। यौधेयादीनामस्मिन्प्रदेशे न पाठः, पठिता हि ते चतुर्थे -'न प्राच्यभार्गादियौधेयादिभ्यः' इत्यत्र ॥