दामन्यादित्रिगर्तषष्ठाच्छः

5-3-116 दामन्यादित्रिगर्तषष्ठात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः आयुधजीविसङ्घात्

Sampurna sutra

Up

आयुधजीविसङ्घात् दामन्यादि-त्रिगर्तषष्ठात् छः

Neelesh Sanskrit Brief

Up

आयुधजीविनाम् सङ्घस्य निर्देशवाचिभ्यः दामन्यादिगणस्य शब्देभ्यः त्रिगर्तषष्ठेभ्यः च स्वार्थे छ-प्रत्ययः भवति ।

Kashika

Up

आयुधजीविसंघादिति वर्तते। दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यश्चायुध — जीविसंघवाचिभ्यः स्वार्थे छः प्रत्ययो भवति। येषामायुधजीविनां संघानां षडन्तर्वर्गास्तत्र च त्रिगर्तः षष्ठः। त्रिगर्तः षष्ठो येषाम्, ते त्रिगर्तषष्ठा इत्युच्यन्ते। तेषु चेयं स्मृतिः —

आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी।

क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तोऽथ जानकिः॥

इति। दामन्यादिभ्यस्तावत् — दामनीयः, दामनीयौ, दामनयः। औलपीयः, औलपीयौ, औलपयः। त्रिगर्तषष्ठेभ्यः खल्वपि — कौण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः। दाण्डकीयः, दाण्डकीयौ, दाण्डकयः। क्रौष्टकीयः। जालमानीयः। ब्राह्मगुप्तीयः। जानकीयः॥ दामनी। औलपि। आकिदन्ती। काकरन्ति। काकदन्ति। शत्रुन्तपि। सार्वसेनि। बिन्दु। मौञ्जायन। उलभ। सावित्रीपुत्र। दामन्यादिः॥

Siddhanta Kaumudi

Up

दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ 1 ॥ दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दामन्यादिगणः' इति कश्चन शब्दसमूहः । अस्मिन् समूहे विद्यमानाः शब्दाः यदि आयुधजीविनाम् सङ्घस्य निर्देशं कुर्वन्ति, तदा तेभ्यः स्वार्थे 'छ' प्रत्ययः विधीयते । तथैव, आयुधजीविनाम् ये सङ्घाः 'त्रिगर्तषष्ठ' नाम्ना ज्ञायन्ते, तेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । क्रमेण पश्यामः - 1. दामन्यादिगणः - अस्मिन् शब्दे एते सङ्घवाचकाः शब्दाः पाठ्यन्ते - दामनि, औलपि, आकिदन्ती, काकरन्ति, काकदन्ति, शत्रुन्तपि, सार्वसेनि, बिन्दु, मौञ्जायन, उलभ, सावित्रीपुत्र । एते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे 'छ' प्रत्ययः भवति । यथा - अ) दामनि इत्येव = दामनि + छ → दामनि + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय-आदेशः] → दामन् + ईय [<<यस्येति च>> 6.4.148 इति इकारलोपः] → दामनीय एवमेव - आ) औलपि इत्येव = औलपीयः । इ) आकिदन्ती इत्येव = आकिदन्तीयः । 2. त्रिगर्तषष्ठः - केचन आयुधजीविनः सङ्घाः 'त्रिगर्तषष्ठ' इति नाम्ना अपि ज्ञायन्ते । एतेषामावली एकेन श्लोकेन दीयते - आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी। क्रौष्टकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जानकिः। इत्युक्ते, 'कौण्डोपरथ', 'दाण्डकि', 'क्रौष्टकि', 'जालमानि', 'ब्रह्मगुप्त' (कुत्रचित् 'ब्राह्मगुप्त' इत्यपि दृश्यते) तथा 'जानकि' (कुत्रचित् 'जालकि' इत्यपि दृश्यते) एते षट् आयुधजीविनः सङ्घाः 'त्रिगर्तषष्ठः' नाम्ना ज्ञायन्ते । एतेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । यथा - अ) कौण्डोपरथः इत्येव = कौण्डोपरथीयः । आ) दाण्डकिः इत्येव = दाण्डकीयः । स्मर्तव्यम् - 1. <<समर्थानां प्रथमात् वा>> 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः छ-प्रत्ययः विकल्पेनैव भवति । अतः 'दामनिः' इत्यपि साधु प्रयोगः, 'दामनीयः' इत्यपि च साधु प्रयोगः । 2. अनेन सूत्रेण उक्तस्य छ-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> 5.3.119 इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> 2.4.62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'दामनि' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'छ' प्रत्ययस्य लुक् भवति । यथा - दामनी + छ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → दामनि + जस् [छ-प्रत्ययस्य <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> 2.4.62 इति लुक्] → दामनयः अतः 'दामनीय' शब्दस्य रूपाणि - 'दामनीयः, दामनीयौ, दामनयः' इति भवति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।

Balamanorama

Up

<<दामन्यादित्रिगर्तषष्ठाच्छः>> - दामन्यादि । दानिरादिर्यस्य दामन्यादिः । त्रिगर्तः षष्ठो यस्य वर्गस्य स त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगर्तषष्ठश्चेति समाहार द्वन्द्वात्पञ्चमी । फलितमाह — दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्त्रिगर्तो वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत् । के ते त्रिगर्तषष्ठा इत्यत आह — आहुरिति । कौण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राआहृगुप्तः, जालकिरित्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः ।जालकि॑रिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ । शेष इञन्तः । दामादिगणमुदाहरति — दामनीय इति । दामनिरेव दामनीयः । औलपीति । प्रकृतिप्रदर्शना । औलपीय इति । औलपिशब्दात्स्वार्थे छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वार्थे छः । दाण्डकीय इति । दाण्डकिशब्दात्वार्थे छः । क्रौष्टुकीयः, जालमानीयः, ब्राआहृगुप्तीयः, जालकीयः — इत्यप्युदाहार्यम् ।

Padamanjari

Up

अभिजयतीत्यभिजित्, वेतीति विदः, इगुपधलक्षणः कः, तान्बिभर्तीति विदभृत्, अन्ये मन्वन्ताः। अभिजिदादिभ्योऽणन्तेभ्य इति। सूत्रेऽभिजिदादय एवाणिति विशेषण समासः। अभिजिदादिप्रकृतयश्चाणन्ता अभिजिदादयः उच्यन्ते। गोत्रप्रत्ययस्येति। अपत्यप्रत्ययस्येत्यर्थः। आभिजितो मुहूर्त इति।'नक्षत्रेण युक्तः' इत्यण्, उतरस्य -'सास्य देवता' इति। इहाभिजित्यस्यायमाभिजितक इति'गोत्रचरणाद्वुञ्' भवति, ठापत्यस्यऽ इति यलोपः। गोत्रप्रत्ययान्ताद्ध्ययमिष्यते। तेन स्वार्थिकत्वादयमपि यञ् गोत्रप्रत्यय एव भवति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां पञ्चमस्याध्यायस्य तृतीयः पादः ॥