5-4-1 पादशतस्य सङ्ख्यादेः वीप्सायां वुन्लोपः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः
संख्यादेः पाद-शतस्य वीप्सायाम् वुन् लोपः च
यस्य शब्दस्य आदौ सङ्ख्यावाचकः शब्दः विद्यते तथा च अन्ते 'पाद' उत 'शत' अयम् शब्दः विद्यते, तस्मात् शब्दात् वीप्सायाम् गम्यमानाम् स्वार्थे वुन्-प्रत्ययः भवति, तथा च प्रत्ययसंन्नियोगेन 'शत' / 'पाद' इत्यस्य अन्तिमवर्णस्य लोपः जायते ।
पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति, तत्सन्नियोगेन चान्तस्य लोपो भवति। यस्येति — ६.४.१४८ — लोपेनैव सिद्धे पुनर्वचनमनैमित्तिकार्थम्। यस्येतिलोपः परनिमित्तकः। तस्य स्थानिवद्भावात् <<पादः पत्>> ६.४.१३० इति पद्भावो न स्यात्। अस्य त्वनैमित्तिकत्वाद् न स्थानिवत्त्वम्। द्वौद्वौ पादौ ददाति, द्विपदिकां ददाति। द्वेद्वे शते ददाति, द्विशतिकां ददाति। <<तद्धितार्थो०>> २.१.५१ इति समासः। ततः प्रत्ययः। स्वभावात् च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते। पादशतस्येति किम्? द्वौद्वौ माषौ ददाति। संख्यादेरिति किम् ? पादंपादं ददाति। वीप्सायामिति किम्? द्वौ पादौ ददाति। द्वे शते ददाति। पादशतग्रहणमनर्थकम्, अन्यत्रापि दर्शनात्। द्विमोदकिकां ददाति। त्रिमोदकिकां ददाति ॥
लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् <{SK414}> । तद्धितार्थ <{SK728}> इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् ।<!पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् !> (वार्तिकम्) ॥ द्विमोदकिकाम् ॥
सूत्रस्य अर्थं क्रमेण पश्यामः - अ) यस्य शब्दस्य आदौ 'सङ्ख्यावाचकः शब्दः' तथा अन्ते 'पाद' उत 'शत' अयम् शब्दः वर्तते, तादृशस्य शब्दस्य विषये अत्र प्रत्ययविधानम् कृतमस्ति । यथा - द्विपाद, त्रिपाद, द्विशत, त्रिशत - आदयः । आ) एतादृशाात् शब्दात् वर्तमानसूत्रेण 'वुन्' प्रत्ययः उच्यते । 'वुन्' प्रत्यये नकारः इत्संज्ञकः अस्ति, तस्य लोपः भवति । 'वु' इत्यस्य <<युवोरनाकौ>> 7.1.1 इत्यनेन 'अक' आदेशः भवति । इ) अयम् वुन्-प्रत्ययः 'वीप्सायाः' विषये भवति । वीप्सा इत्युक्ते 'पौनःपुन्यम्' (repetition) । यथा - 'द्वौ द्वौ पादौ', 'द्वे द्वे शते' आदिषु सन्दर्भेषु अय् प्रत्ययः विधीयते । ई) अनेन सूत्रेण प्रातिपदिकस्य अन्तिमवर्णस्य लोपः अपि विधीयते । एतत् प्राकृतिककार्यमस्ति, न हि अङ्गकार्यम् । एतत् स्पष्टीकर्तुम् सूत्रे 'लोपश्च' इति निर्दिष्टमस्ति । स्पष्टतायै उदाहरणद्वयं पश्यामः । [1] द्वौ द्वौ शतौ (प्रक्रियालेखने आदौ समस्तपदस्य निर्माणम् कृत्वा ततः 'वुन्' प्रत्ययः प्रयोक्तव्यः इति कौमुदीकारः स्पष्टीकरोति, अतः प्रक्रिया अपि तादृशी एव लिख्यते) → द्वि + शत + वुन् [<<तद्धितार्थोपपदसमाहारे च>> 2.1.51 इति समस्तपदस्य निर्माणम् । ततः <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> 5.4.1 इति वुन्-प्रत्ययः] → द्वि + शत् + वुन् [वर्तमानसूत्रेण 'शत' इत्यस्य अन्तिमवर्णस्य लोपः । एतत् प्राकृतिककार्यमस्ति अतः प्रक्रियायाः प्रारम्भे एव भवति ।] → द्वि + शत् + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] → द्विशतक → द्विशतक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः] → द्विशतक + आ → द्विशतिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.44 इति इकारादेशः] → द्विशतिका [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] द्वौ द्वौ शतौ सा द्विशतिका । यथा - यदि कश्चन धनिकः पुनः पुनः द्वौ द्वौ शतौ ददाति , तर्हि सः 'द्विशतिकां ददाति' इति वक्तुं शक्यते । A donor who repeatedly gives two hundreds in donation can be said to be giving द्विशतिका । एवमेव त्रयः त्रयः शताः सा 'त्रिशतिका' इत्यपि सिद्ध्यति । 'पाद' शब्दस्य विषये अपि एतादृशम् एव प्रक्रिया विधीयते - [2] द्वौ द्वौ पादौ → द्वि + पाद + वुन् [<<तद्धितार्थोपपदसमाहारे च>> 2.1.51 इति समस्तपदस्य निर्माणम् । ततः <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> 5.4.1 इति वुन्-प्रत्ययः] → द्वि + पाद् + वुन् [वर्तमानसूत्रेण 'पाद्' इत्यस्य अन्तिमवर्णस्य लोपः] → द्वि + पाद् + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] → द्वि + पद् + अक [<<पादः पत्>> 6.4.130 इति 'पाद्' इत्यस्य 'पद्' आदेशः] → द्विपदक → द्विपदक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः] → द्विपदिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.44 इति इकारादेशः] → द्विपदिका [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] द्वौ द्वौ पादौ इति द्विपदिका । An entity that has two-two legs repeated (e.g. a song) is called द्विपदिका । अत्र पाद-शब्दस्य अर्थः 'नाणकम्' ( coin / quarter) इत्यपि भवति, अतः 'द्विपदिकां ददाति' इत्यस्य अर्थः 'पुनः पुनः द्वौ नाणकौ ददाति' इति अपि भवितुमर्हति । एवमेव - त्रयः त्रयः पादाः सा त्रिपदिका । विशेषः - अस्मिन् सूत्रे वुन्-प्रत्यये परे प्रातिपदिकस्य अन्तिमवर्णस्य लोपः उक्तः अस्ति । यथा, उपरिनिर्दिष्टायां प्रक्रियायाम् 'द्वि + पाद + अक' इति स्थिते तकारोत्तरस्य अकारस्य लोपः वर्तमानसूत्रे निर्दिष्टेन 'लोप' शब्देन क्रियते । वस्तुतः तु वुन्-प्रत्ययस्य 'अक' इति आदेशे कृते <<यस्येति च>> 6.4.148 इत्यनेन अपि अकारलोपः भवितुमर्हति एव - द्वि + पाद + अक → द्वि + पाद् + अक [ <<यस्येति च>> 6.4.148 इति अकारलोपः] परन्तु एवम् क्रियते चेत् अग्रिमसोपाने 'पाद्' शब्दस्य <<पादः पत्>> 6.4.130 इत्यनेन 'पद' आदेशः भवितुम् न अर्हति, यतः <<यस्येति च>> 6.4.148 तथा <<पादः पत्>> 6.4.130 एते सूत्रे <<असिद्धवदत्राभात्>> 6.4.22 इत्यस्मिन् आभीये असिद्धाधिकारे उच्येते, अतश्च परस्पर-असिद्धौ स्तः । इत्युक्ते, <<यस्येति च>> 6.4.148 इत्यनेन प्राप्तः अकारलोपः <<पादः पत्>> 6.4.130 इत्यस्य कृते असिद्धः अस्ति, अतः <<पादः पत्>> 6.4.130 इत्यनेन सूत्रेण 'पाद' इति अकारान्तशब्दः एव दृश्यते, यस्य कृते अस्य सूत्रस्य अवकाशः एव न विद्यते । अतः अत्र <<यस्येति च>> 6.4.148 इत्येनन अकारलोपः क्रियते चेत् पाद्-शब्दस्य पद्-आदेशः नैव स्यात्, यः अत्र इष्यते । एतमादेशम् कारयितुम् एव अस्मिन् सूत्रे लोपविधानम् कृतमस्ति । अनेन सूत्रेण उक्तम् लोपविधानम् प्राकृतिककार्यमस्ति, अतः एतत् अङ्गकार्यात् पूर्वम् विधीयते । अतः अग्रे <<पादः पत्>> 6.4.130 इत्यनेन पाद्-शब्दस्य पद्-आदेशः भवितुमर्हति । अत्र लोपग्रहणस्य अन्यत् एकम् प्रयोजनम् वर्तते । <<यस्येति च>> 6.4.148 इत्यनेन अकारलोपः क्रियते चेत् <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन स्थानिवद्भावेन लुप्त-अकारः पुनः आगच्छेत्, येन् 'पाद' इत्येव शब्दः पुनः लभ्येत, न हि 'पाद्' शब्दः । एवं सति <<पादः पत्>> 6.4.130 इत्यस्य विधानम् नैव सम्भवति, यत् अत्र प्रक्रियायामवश्यम् इष्यते । अस्य प्राप्त्यर्थम् एव वर्तमानसूत्रेण पुनः 'लोपः' उक्तः अस्ति । वर्तमानसूत्रेण उक्तः अयम् लोपः 'अनिमित्तकः' अस्ति - इत्युक्ते, अयम् लोपः प्राकृतिकरीत्या एव भवति, अस्य किमपि निमित्तम् न आवश्यकम् ; अतएव च अस्मिन् लोपे कृते <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यस्य प्रसक्तिः अपि न विद्यते - यतः <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यस्य प्रयोगार्थम् परनिमित्तकः लोपः आवश्यकः । इत्युक्ते, वर्तमानसूत्रेण कृतात् लोपात् परम् <<पादः पत्>> 6.4.130 इत्यनेन पाद्-शब्दस्य पद्-आदेशः अपि भवितुमर्हति । अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <!पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात्!> । इत्युक्ते, वर्तमानसूत्रे 'पाद' तथा 'शत' एतयोः निर्देशः न आवश्यकः, यतः अन्येषाम् शब्दानाम् विषये अपि वर्तमानसूत्रस्य प्रयोगः दृश्यते । यथा - 'द्वौ द्वौ मोदकौ सा द्विमोदिका ' । यद्यपि अनेन वार्त्तिकेन अन्येषाम् शब्दानाम् विषये वर्तमानसूत्रस्य प्रयोगः अनुमीयते, तथापि सः सर्वत्र न भवति । यथा, 'द्वौ द्वौ माषौ' एतादृशे वाक्ये अस्य सूत्रस्य प्रयोगः न भवति । अतः शिष्टप्रयोगमनुसृत्यैव एतत् सूत्रम् प्रयोक्तव्यम् । स्मर्तव्यम् - 1. वर्तमानसूत्रस्य प्रयोगः वीप्सा (व्याप्तेः इच्छा / repeatition) अस्ति चेदेव भवति । केवलम् 'द्वौ पादौ' उत 'द्वौ शतौ' एतत् विवक्ष्यते चत् अस्य सूत्रस्य प्रयोगः नैव कर्तव्यः । The application of this sutra requires that something is being done again-and-again - इत्याशयः । यथा - अ) द्वौ द्वौ पादौ सा द्विपदिका । आ) द्वौ द्वौ शतौ सा द्विशतिका । 2. एतत् सूत्रम् <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यत्र पाठितायां महाविभाषायां पाठ्यते, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेन भवति । अतः पक्षे ' द्वौ द्वौ पादौ' इत्यपि प्रयोगः अपि साधु ।
<<पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च>> - अथ पञ्चमस्य चतुर्थपादः-पादशतस्य । पादश्चशतं चेति समाहारद्वन्द्वाल्लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे । सङ्ख्यावचकशब्दपूर्वकात्पादशब्दाच्च वीप्साविशिष्टार्थवृत्तेः स्वार्ते वुन्प्रत्ययः स्यात्, प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः । ननु वुनोऽकादेशे सतियस्येति चे॑त्येव लोपसिद्धेरिह लोपविधिव्र्यर्थ इत्यत आह — अनैमित्तिकत्वार्थमिति ।यस्येति चे॑ति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्' इति स्थानिवत्त्वापादः प॑दिति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति । नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाऽभावात्कथमिह॒तद्धितार्थ॑ इति समास इति वाच्यं, वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशति कामिति । द्वे द्वे शते ददातीति विग्रहः । पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथं, पादशतभिन्नव्यावृत्त्यर्थत्वादित्यत आह — अन्यत्रापि दर्शनादिति । तदुदाहृत्य दर्शयति — द्विमोदकिकामिति । द्वौ द्वौ मोदकौ ददातीति विग्रहः ।
आदिशब्दोऽयमवयववाची, न तु व्यवस्थावाची;'संख्यायाः' इति पञ्चमीनिर्देशेनैव सिद्धेः। न च संख्यावचनः शब्दः पादशतशब्दयोरवयव उपपद्यते; अनारम्भकत्वात्। तस्मात्संख्यादेरिति वचनादिह ग्रहमवतापि प्रातिपदिकेन तदन्तविधिर्विज्ञायत इत्याह - पादशतान्तस्येति। आनन्तर्यलक्षणा चेयं षष्ठी वुन्विधौ, लोपविधौ तु स्थानषष्ठी। तत्संनियोगेन चेति। चकारस्य संनियोगार्थकत्वात्। अनैमितिकत्वार्थमिति। निमिते भवो नैमितिकः, अध्यात्मादिः। यस्योतिलोपः परनिमितक इति। ईति तद्धिते च परतो लोपविधानात्। पद्भावो न स्यादिति। पच्छब्दो हि तत्र स्थान्युपातः, स्थानिवत्वे च सति पादशब्दान्तमङ्गं भसंज्ञं भवति, न पाच्छब्दान्तमिति पादायेत्यादिवदत्रापि पद्भावो न स्यात्। अस्य त्वनैमितिकत्वादिति। न ह्यत्र वुन्निमितम्; सहविधानात्। द्विपदिकामिति। तद्धितेन द्योतितत्वाद्वीप्सायां द्विर्वचनं न भवति। तद्धितार्थ इति समास इति। प्रकृत्युपाधिरपि वीप्सा वुना द्योत्यत इति तद्धितार्थो भवति। द्वौ पादौ ददातीति। उतरसूत्रेवक्ष्यति -'दानं व्यवसर्गेः' इति, ठवीप्सार्थोऽयमारम्भःऽ इति च, तस्माद्भवितव्यमत्र वुना। क्रियान्तरं प्रत्युदाहर्तव्यम्-द्वौ पादौ लभत इत्यादि। अपर आह - दडितो व्यवसृजतीति प्रयोग एवोतरोऽविधिरिति। यद्वापरस्वत्वापादनं दानमुव्यवसर्गः, इह तु समर्पणमात्रे ददातिर्वर्तते; यथरजकस्य वस्त्रं ददातीति। अन्यत्रापि दर्शनादिति। द्वौ द्वौ माषौ ददातीत्यादौ त्वनभिधानादतिप्रसङ्गभावः ॥