ते तद्राजाः

4-1-174 ते तद्राजाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्

Sampurna sutra

Up

ते क्षत्रियात् जनपदशब्दात् (उक्ताः) प्रत्ययाः तद्राजाः

Neelesh Sanskrit Brief

Up

क्षत्रियवाचीनि यानि जनपदनामानि, तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे प्रयुक्ताः प्रत्ययाः 'तद्राज'संज्ञकाः भवन्ति ।

Kashika

Up

<<जनपदशब्दात् क्षत्रियादञ्>> ४.१.१६८ इत्येवमादयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते न तु पूर्वे, गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्। तेऽञादयस्तद्राजसंज्ञा भवन्ति। तथा चैवोदाहृतम्। तद्राजप्रदेशाः — <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> २.४.६२ इत्येवमादयः॥

Siddhanta Kaumudi

Up

अञादय एतत्संज्ञाः स्युः ॥

Laghu Siddhanta Kaumudi

Up

अञादयस्तद्राजसंज्ञाः स्युः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ते तद्राजाः>> - ते तद्राजाः । ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते । तदाह — अञादय इति ।

Padamanjari

Up

तथा चैवोदाहृतमिति । तत्र'तद्राजस्य बहुषु तेनैवास्त्रियाम्' मित्यत्र कार्याश्रयमुदाहृतम्, इह तु प्रकरणे रूपाश्रयम् ॥