4-1-174 ते तद्राजाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्
index: 4.1.174 sutra: ते तद्राजाः
ते क्षत्रियात् जनपदशब्दात् (उक्ताः) प्रत्ययाः तद्राजाः
index: 4.1.174 sutra: ते तद्राजाः
क्षत्रियवाचीनि यानि जनपदनामानि, तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे प्रयुक्ताः प्रत्ययाः 'तद्राज'संज्ञकाः भवन्ति ।
index: 4.1.174 sutra: ते तद्राजाः
जन्पदशब्दात् क्षत्रियादञ् 4.1.168 इत्येवमादयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते, न तु पूर्वे, गोत्रयुवसंज्ञाकान्डेन व्यवहितत्वात्। तेऽञादयः तद्राजसंज्ञा भवन्ति। तथा चोदाहृतम्। तद्राजप्रदेशाः तद्राजस्य बहुषु तेन एव अस्त्रियाम् 2.4.62 इत्येवमादयः।
index: 4.1.174 sutra: ते तद्राजाः
अञादय एतत्संज्ञाः स्युः ॥
index: 4.1.174 sutra: ते तद्राजाः
अञादयस्तद्राजसंज्ञाः स्युः॥
index: 4.1.174 sutra: ते तद्राजाः
ते तद्राजाः - ते तद्राजाः । ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते । तदाह — अञादय इति ।
index: 4.1.174 sutra: ते तद्राजाः
तथा चैवोदाहृतमिति । तत्र'तद्राजस्य बहुषु तेनैवास्त्रियाम्' मित्यत्र कार्याश्रयमुदाहृतम्, इह तु प्रकरणे रूपाश्रयम् ॥