4-1-177 अतः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्
index: 4.1.177 sutra: अतश्च
अतः तद्राजस्य स्त्रियाम् लुक्
index: 4.1.177 sutra: अतश्च
'अ' इति तद्राजप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् भवति ।
index: 4.1.177 sutra: अतश्च
स्त्रियाम् इत्येव। अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायाम् लुग् भवति। तकारो विस्पष्टार्थः। शूरसेनी। मद्री। दरत्। अवन्त्यादिभ्यो लुग्वचनात् तदन्तविधिरत्र नास्ति, तेनेह न भवति, आम्बष्ठ्या। सौवीर्या।
index: 4.1.177 sutra: अतश्च
तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥
index: 4.1.177 sutra: अतश्च
अतश्च - अतश्च । तद्राजस्याकारस्येति । 'अत' इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शूरसेनीति । अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान्ङीष् ।न लुमते॑ति निषेधस्तु न, ङीष्विधेरङ्गकार्यत्वाऽभावात् । एवं मद्री ।
index: 4.1.177 sutra: अतश्च
तकारो विस्पष्टार्थं इति । असति हि तस्मिन् ठस्यऽ इति निर्देशः स्यात्, ततश्च सन्देहः स्यात् - किमयं वर्णनिर्देशः ? आहोस्विदिदम इति ? इदमश्च निर्देशेऽनन्तरस्येञो लुक् प्रसज्येत, तकारे सत्येष दोषो न भवति, तपरनिर्देशस्य भूयसा वर्णेष्वेव प्रसिद्धत्वात्'तपरस्तत्कालस्य ' इति संज्ञाकरणाच्च । कथं'माद्रीसुतौ पुष्पफले समृद्धे' इति ? स्वच्छन्दवाच ऋषयः, मद्रीसुतावित्येव वा पाठ।ल्म् । अवन्त्यादिभ्यो लुग्वचनादिति । यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्याद्; अनेनैव सिद्धत्वात् । तदन्तविधौ त्वसति अकारमात्रस्य ग्रहणेन सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमर्थवद् भवति ॥