2-4-62 तद्राजस्यबहुषु तेन एव अस्त्रियाम्
index: 2.4.62 sutra: तद्राजस्य बहुषु तेनैवास्त्रियाम्
ते तद्राजाः 4.1.172, ञ्याऽदयस् तद्राजाः 5.3.119 इति वक्ष्यति, तस्य तद्राजसंज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग् भवति, तेन एव चेत् तद्राजेन कृतं बहुत्वं भवति। अङ्गाः। वङ्गाः। पुण्ड्राः। सुह्माः। मगधाः। लोहध्वजाः। व्रीहिमन्तः। तद्राजस्य इति किम्? औपगवाः। बहुषु इति किम्? आङ्गः। तेन एव ग्रहणं किम्? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः। अस्त्रियाम् इति किम्? आङ्ग्यः स्त्रियः।
index: 2.4.62 sutra: तद्राजस्य बहुषु तेनैवास्त्रियाम्
बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः, तस्येव रघोः पाण्ड्याः इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरूध्यमाना यदुभिः कथंचित् इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥
index: 2.4.62 sutra: तद्राजस्य बहुषु तेनैवास्त्रियाम्
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥
index: 2.4.62 sutra: तद्राजस्य बहुषु तेनैवास्त्रियाम्
तद्राजस्य बहुषु तेनैवास्त्रियाम् - तद्राजस्य ।ण्यक्षत्रियार्षे॑त्यतोलु॑गित्यनुवर्तते ।तेने॑त्यनन्तरं कृते बहुत्वेइत्यध्याहारः । तदाह — बहुष्विति । तदर्थकृतबहुत्वे इति । अञादिप्रत्ययान्तमात्रार्थगतबहुत्वे सतीत्यर्थः । तेनेति किम् । प्रियो वाङ्गो येषां ते प्रियवाङ्गा इत्यत्र बहुत्वस्यान्यपदार्थगतत्वाद्वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थविसिष्टान्यपदार्थंगतं बहुत्वं वर्तिपदार्थगतमपि भवति, ततापि अञ्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकबः षञ्चाला इति ।जनपदशब्दा॑दिति विहिस्य अञो लुकि आदिवृद्धिनिवृत्तिः । इत्यादीति । अङ्गाः वङ्गा इत्यादि बोध्यम् । कतं तर्हीति । 'कौरव्या' इत्यत्र ण्यप्रत्ययस्य, 'पाण्ड' इत्यत्र डण्प्रत्ययस्य च तद्राजतया बहुषु लुक्प्रसङ्गादित्यर्थः । साधव इतीति । कौरव्यशब्दात्, पाण्डआशब्दाच्च 'तत्र साधुः' इति यत्प्रत्ययेयस्येति चे॑त्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाऽभावान्न लुगित्यर्थः । ननु रघुयदुशब्दयोर्जनपदवाचित्वाऽभावात्प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाऽभावात्कथं बहुषु तस्य लुगित्याशङ्क्यपरिहरति-रघूणामिति । लक्षणयेति । 'प्रयोग' इति शेषः । ततश्च नेदमपत्यप्रत्यान्तमिति भावः । लक्षणाबीजं तु रघुयदुसमानवृत्तिकत्वं बोध्यम् ।
index: 2.4.62 sutra: तद्राजस्य बहुषु तेनैवास्त्रियाम्
तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ इह बहुष्वित्यनेन जसादिबहुवचनं वा गृह्यएत? अर्थो वा ? आद्ये पक्षेऽयमर्थो भवति - जसादिषु बहुवचनेषु परतस्तद्राजस्यास्त्रीलिङ्गस्य लुगिति। द्वितीये - बहुष्वर्थेषु वर्तमानस्येति। बहुवचनशब्दे हि जसादिषु विनियुक्ते तदेकदेशेन बहुशब्देनापि जसादि शक्यं लक्षयितुम्। संज्ञानामेकदेशस्यापि प्रयोगदर्शनाद् भीमो भीमसेनः, सत्या सत्यभामेति। जसादीनां च बहुत्वाद् बहुष्विति बहुवचनोपपतिः। नन्वेवमपि मुख्यत्वादर्थग्रहणमेव युक्तम्? सत्यम्; तेनैव ग्रहणादस्य पक्षस्य सम्भवः। तद्धि प्रियवाङ्गा इत्यादौ बहुवचनं परमिति लुकः प्रसक्तस्य निवृतये कृतम्। अर्थग्रहणे चात्र तद्राजस्य बहुत्वे वृत्यभावादेव लुकोऽप्रसङ्गः। यद्येवम्, अस्मादेव लिङ्गाद् बहुवचनस्यैव निश्चयादर्तग्रहणस्यासम्भवः? उच्यते - अस्त्रियामिति प्रतिषेधादस्य पक्षस्य सम्भवः। तद्ध्याङ्ग्यः स्त्रिय इत्यादौ तद्राजस्य बहुषु वर्तमानस्य लुङ्मा भूदिति कृतम्। बहुवचनग्रहणे चात्र स्त्रीप्रत्ययेन व्यवधानादेव लुकोऽप्रसङ्गः। न चाम्बष्ठस्यापत्यानि बह्व्यः स्त्रियः'वृद्धेत्कोसलाजादाञ् ञ्यङ्' 'यङ्श्चाप्' आम्बष्ठ।ल इत्यत्रेकादेशस्यान्तवद्भावादव्यवधानाल्लुक्प्रसङ्गः; एकादेशस्य पूर्वविधौ स्थानिवद्भावादत्रापि चापा व्यवधानात्। तदेवं लिङ्गद्वयदर्शनात्पक्षद्वयसम्भवः। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। तत्राद्यो पक्षेऽतिक्रान्तोऽङ्गानत्यङ्गः, अतिगर्गः, अङ्गेभ्य आगतोऽङ्गरूप्यः, गर्गरूप्य इत्यादौ बहुवचनपरत्वाभावाल्लुङ्न स्यात्। न चच वृत्यर्थे वाक्ये यच्छसादि बहुवचनं तत्रैव परतस्तस्यामेवावस्थायां लुग्लभ्यतेऽन्तरङ्गत्वादिति वाच्यम्; ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति वचनात्। न च लुप्तेऽपि तस्मिन्प्रत्ययलक्षणेन लुग्लभ्यः,'न लुमताङ्गस्य' इति निषेधात्। ननु च न लुगङ्गस्य कार्यम्, किं तर्हि? तदेकदेशस्य प्रत्ययमात्रस्य, अङ्गरूप्य इत्यादौ च समर्थातद्धितोत्पतेः वृत्यर्थे वाक्ये यद्वहुवचनमङ्गेभ्य इत्यादि तत्रैव लुक् भविष्यति। इदं तर्हि - अत्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढक्, तस्य'कितः' इत्यन्तोदातत्वम्, तस्य जसि परतः ठत्रिभृगुऽ इति लुकि कृते उदातनिवृत्तिस्वरः प्राप्नोति, तस्माद् द्वितीयं पक्षमाश्रित्याह - बहुषु वर्तमानस्येति। नन्वत्रापि पक्षे आङ्गश्च वाङ्गश्च सौह्मश्र अङ्गवङ्गसुह्माः, गार्ग्यश्च वात्स्यश्च वाजयश्च गर्गवत्सवाजा इत्यादौ द्वन्द्वे लुग्न स्यात्; अत्र ह्यएकैकस्मिन्नेवार्थे प्रत्यय उत्पन्नः, पूर्वत्र तु पक्षेऽन्तिमस्यापि तावत्सिद्ध्यति, बहुवचनपरत्वात्? नैष दोषः; युगपदधिकरणतायां द्वन्द्वः, तत्रैकैकस्य वर्तिपदस्य बह्वर्थकत्वाल्लुग्भविष्यति। नन्वेवमपि तद्धिते उत्पत्तिदशायामेकैकस्मिन्नेवार्थे उत्पन्न इति तद्राजो यो बहुषु यञ् यो बहुषु अञ् यो बहुष्वित्युच्यमानो लुङ् न स्यादेव। नन्वत्र बहुष्वित्यनेन न प्रत्ययमात्रं विशेष्यते, किं तर्हि? प्रत्ययग्रहणपरिभाषया तदन्तग्रहणे सति तदन्तं विशेष्यते - तद्राजान्तं यद्वहुषु यञन्तं यद्बहुषु अञन्तं यद्वहुष्विति। यद्येवम्, कश्यपस्यापत्यं काश्यपः बिदाद्यञ्, तस्य प्रतिकृतय इति ठिवे प्रतिकृतौऽ इति कन्, तस्य'जीविकार्थे चापण्ये' इति देवपथादिषु अर्चासु पूजनार्थास्विति पाठाद्वा लुपि कृते काश्यपा इत्यञन्तस्य प्रतिकृतिबहुत्वे लुक् प्राप्नोति? नैष दोषः;'यञञोश्च' इत्यत्र'यस्कादिभ्यो गोत्रे' इत्यतो'गोत्रे' इत्यनुवर्तते, तेन गोत्रबहुत्वे लुक् प्रतिकृतिबहुत्वे न भविष्यति। नन्वेवमप्याङ्गस्यैकस्य प्रतिकृतयो बह्व्य इति तद्राजान्तस्य बहुषु वृतेर्लुक्प्रसङ्गः। नह्मत्रेदमस्ति - तद्राजान्तं यदपत्यं बहुत्वे वर्तत इति । एवं तर्हि तेनैव ग्रहणमस्मिन्पक्षे न कर्तव्यमित्युक्तं तदत्रोपयोक्ष्यामहे - यस्मिन्नर्थे लुग्भावी प्रत्यय उत्पन्नस्तेनैव चेत्कृतं बहुत्वमिति। इह चापत्ये प्रत्यय उत्पन्नः प्रतिकृतिकृतं च बहुत्वम्, यद्येवम्, आङ्गस्यापत्यानि ठणो द्व्यचःऽ इति फिञ्, तस्याब्राह्मणगोवमात्रादिति वा'तद्राजाच्चाणः' इति वा लुक्, अङ्गाः, बैदस्यापत्यानि ठत इञ्ऽ,'ण्यक्षत्रिय' इति लुक्, बिदाः, अत्र गोत्रे प्रत्यय उत्पन्नो युवकृतं चात्र बहुत्वामिति लुङ् न स्यात्? नैष दोषः; तेनैवेत्यस्य तज्जातीयेनैवेत्यर्थः, युवा चापत्यतया तज्जातीयो न प्रतिकृतिः। एवं च कृत्वा द्वन्द्वो यदा लोपिनामलोपिनां च भवति तदा न भवति - आङ्गदेवदतयज्ञदताः, गार्ग्यदेवदतयज्ञदताः। इह तु भार्गवश्च वात्स्यश्चाग्रायणश्च भृगुवत्साग्रायणा इति, यद्यपि नलोपिभिरेव कृतं बहुत्वम्, आग्रायणे नडादिफको लुगभावात्; तथाप्यपत्यतया तज्जातीयत्वमस्तीति लुग्भवत्येव। यद्येवम्, गार्ग्यश्च काश्यपश्च गालवश्च गार्ग्यकाश्यपगालवानामित्यत्र गालवे ऋष्यणो लुगभावेऽप्यपत्यतया तज्जातीयत्वाद्यञञोर्लुक्प्रसङ्गः। एवं तर्हि भृगुवत्साग्रायणेषु ठगार्ग्यकाश्यपगालवानाम्ऽ इति निर्देशद्वयाल्लोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः। तदेवं तद्राजान्तस्य बहुत्वे वर्तमानस्येति स्थितम्। वृतौ तु तद्राजसञ्ज्ञकस्य प्रत्ययस्य बहुषु वर्तमानस्येति व्यधिकरणो षष्ठ।ले, बहुषु वर्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य योऽवयवः प्रत्ययस्तस्येत्यर्थः। तेनैव चेतद्राजेनेति। अत्रापि तद्राजान्तेनेत्यर्थः। तद्राजेत्यापि लोपिप्रत्ययोपलक्षणम्। अङ्गगर्गलोहध्वजा इत्यादावपि भवतीत्याहुः। इहाङ्गस्यापत्यानि बहून्यङ्गास्तेषामपत्यं युवा युवानौ वा आङ्गः आङ्गाविति युवसङ्क्रान्तेः प्राग्गोत्रेऽलुगचीति प्रतिषेधाल्लुगभावः, पश्चातु बहुत्वाभावाद्। अचीति च विषयसप्तमी, तेन युवप्रत्यये पश्चाल्लुमता लुप्तेऽपि विषयभूत एव तस्मिन् प्रागेव लुकः प्रतिषेधः, लुप्तेऽपि वा प्रत्ययलक्षणेन। नन्वचीति वचनाद्वर्णाश्रयोऽयम्, नेत्याह; अचीति प्राग्दीव्यतीयस्य प्रत्ययस्य विशेषणं प्रत्ययश्च लुकि निमितम्। आङ्ग्यः स्त्रिय इति। इह च आङ्गी च वाङ्गश्च सौह्मश्चेति द्वन्द्रे आङ्गोतिशब्देन स्त्रीत्वयुक्तानामभिधानातदणो लुग्न भवति, आङ्गीवङ्गसुह्मा इति भवतीत्याहुः॥