आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्

5-3-114 आयुधजीविसङ्घात् ञ्यट् वाहीकेषु अब्राह्मणराजन्यात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.3.114 sutra: आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्


वाहीकेषु आयुधजीविसङ्घात् अब्राह्मण-राजन्यात् ञ्यट्

Neelesh Sanskrit Brief

Up

index: 5.3.114 sutra: आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्


वाहीकेषु आयुधजीविनाम् सङ्घस्य निर्देशकाः ये शब्दाः, तेभ्यः स्वार्थे ञ्यट् प्रत्ययः भवति । परन्तु ब्राह्मणवाचिभ्यः शब्देभ्यः तथा च 'राजन्य' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

Kashika

Up

index: 5.3.114 sutra: आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्


आयुधजीविनां सङ्घः आयुधजीविसङ्घः। स वाहीकैर्विशेष्यते। वाहीकेषु य आयुधजीविसङ्घः, तद्वाचिनः प्रातिपदिकात् ब्राह्मणराजन्यवर्जितात् स्वार्थे ञ्यट् प्रत्ययो भवति। ब्राह्मणे तद्विशेषग्रहणम्। राजन्ये तु स्वरूपग्रहणम् एव। टकारो ङीबर्थः, तेन अस्त्रियाम् इति न अनुवर्तते। कौण्डिबृस्यः, कौण्डीवृस्यौ, कौण्डीवृसाः। क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः। मालव्यः, मालव्यौ, मालवाः। स्त्रियाम् कौण्दिवृसी। क्षौद्रकी। मालवी। आयुधजीविग्रहणं किम्? मल्लाः। शयण्डाः। सङ्घग्रहणं किम्? सम्राट्। वाहीकेसु इति किम्? शबराः। पुलिन्दाः। अब्राह्मणराजन्यातिति किम्? गोपालवा ब्राह्मणाः। शालङ्कायना राजन्याः।

Siddhanta Kaumudi

Up

index: 5.3.114 sutra: आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्


वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.114 sutra: आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्


'वाहीक' इति कस्यचन देशस्य नाम । अस्मिन् देशे ये सङ्घाः आयुधजीविनः सन्ति (इत्युक्ते, ते सङ्घाः येषां जनाः शस्त्राणाम् साहाय्येन मृगयादीनि कार्याणि कृत्वा जीविकामर्जयन्ति - people who earn their living using weapons, E.g. by hunting etc) तेषाम् निर्देशार्थमायुधजीविनां सङ्घवाचिभ्यः शब्देभ्यः (यथा - कुण्डिबृस, क्षुद्रक - आदिभ्यः शब्देभ्यः) स्वार्थे 'ञ्यट्' प्रत्ययः भवति । कानिचन उदाहरणानि एतानि -

  1. कुण्डिबृसः इत्येव = कुण्डिबृस + ञ्यट् → कौण्डिबृस्यः ।

  2. क्षुद्रकः इत्येव = क्षुद्रक + ञ्यट् → क्षौद्रक्यः ।

  3. मालवः इत्येव = मालव + ञ्यट् → मालव्यः ।

विशेषः - समर्थानां प्रथमात् वा 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः 'ञ्यट्' प्रत्ययः विकल्पेनैव विधीयते । अतः 'कुण्डिबृसः' इत्यपि साधु रूपम्, 'कौण्डिबृस्यः' इत्यपि च साधु एव ।

स्मर्तव्यम् -ञ्यट्-प्रत्ययः टित् अस्ति, अतः तस्मात् स्त्रीत्वे विवक्षिते टिड्ढाणञ्... 4.1.15 इत्यनेन ङीप्-प्रत्ययः भवति । यथा -

  1. कुण्डिबृसः इत्येव परिषद्

= कुण्डिबृस + ञ्यट् + ङीप्

→ कौण्डिबृस + य + ई [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ कौण्डिबृस् + य + ई [यस्येति च 6.4.148 इति अकारलोपः]

→ कौण्डिबृस् + य् + ई [यस्येति च 6.4.148 इति अकारलोपः]

→ कौण्डिबृस् + ई [हलस्तद्धितस्य 6.4.150 इति यकारलोपः]

→ कौण्डिबृसी ।

कुण्डिबृसः सङ्घः इत्यवे कौण्डीबृसी परिषद् ।

एवमेव -

  1. क्षुद्रकः सङ्घः इत्येव = क्षौद्रकी परिषद् ।

  2. मालवः सङ्घः इत्येव = मालवी परिषद् ।

अस्मिन् सूत्रे 'अ-ब्राह्मण-राजन्यात्' इत्यपि निर्देशः कृतः अस्ति । अस्य अर्थः एतादृशः -

अ) ये सङ्घाः ब्राह्मणवाचकाः सन्ति, तेषाम् विषये अयम् 'ञ्यट्' प्रत्ययः न विधीयते । यथा - गोपालकः सङघः इत्येव = गोपालकः ।

आ) 'राजन्य' इति वाहिकेषु विद्यमानस्य कस्यचन आयुधजीविनः सङ्घस्य नाम । अस्मात् शब्दात् अपि अयम् प्रत्ययः न भवति । यथा - राजन्यः सङ्घः इत्येव = राजन्यः ।

अत्र 'ब्राह्मण' इति शब्दः 'ब्राह्मणवाचकः' इत्यस्मिन् अर्थे स्वीकृतः अस्ति, परन्तु 'राजन्य' अयं शब्दः स्वस्य रूपस्य ग्रहणं करोतीति ज्ञेयम् ।

स्मर्तव्यम् - सूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् -

1) 'वाहीकेषु' इति किमर्थम् ? 'शबर', 'पुलिन्द' एतानि अपि आयुधजीविनां सङ्घानाम् नामानि सन्ति । परन्तु एतानि वाहीकदेशे न विद्यन्ते, अतः एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

2) 'आयुधजीविनः' इति किमर्थम् ? वाहिकेषु विद्यमानाः ये अन्ये सङ्घाः (=यथा मल्लाः, शयण्डाः) तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

3) 'सङ्घ' इति किमर्थम् ? वाहिकेषु विद्यमानाः आयुधजीविनाम् निर्देशकाः परन्तु सङ्घभिन्नाः शब्दाः (यथा - सम्राट्) एतम् प्रत्ययं न प्राप्नुयुः ।

विशेषः - अनेन सूत्रेण उक्तस्य ञ्यट्-प्रत्ययस्य ञ्यादयस्तद्राजाः 5.3.119 इत्यनेन 'तद्राज' इति संज्ञा भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , 'कौण्डिबृस्य' शब्दस्य रूपाणि 'कौण्डिबृस्यः कौण्डिबृस्यौ कुण्डिबृसाः' इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते -

कुण्डिबृस + ञ्यट् + जस्

→ कुण्डिबृस + जस् [तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इति ञ्यट्-प्रत्ययस्य लुक्]

→ कुण्डिबृसाः ।

एवमेव - 'क्षौद्रक्यः, क्षौद्रक्यौ क्षुद्रकाः' इत्यपि सिद्ध्यति ।

Note - All of the words shown as examples in this description represent names of the Vaahik tribes.

Padamanjari

Up

index: 5.3.114 sutra: आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्


'दामन्यादित्रिगर्तषष्ठात्' इति समाहारद्वन्द्वः, दामन्यादेरायुधजीविसङ्घात्रिगर्तषष्ठाच्चायुधजीविसङ्घादित्यन्वयः। त्रिगर्तषष्ठादित्यस्यार्थमाह - येषामिति। अन्तवर्गाःउअन्त्रगणः। ते पुनः के? इत्याहतेषु चाअ स्भृतिरिति। त्रिगर्तषष्ठाः स्मर्यन्तेउज्ञाप्यन्तेऽनयेति स्मृतिः। सा पुनः-आहुस्त्रिगर्तष्षठानित्यादिः श्लोकः। अत्र जानकयस्त्रिगर्तवर्गाः, तेषु च त्रिगर्तषष्ठेतषु, प्रथमपञ्चमौ शिवाद्यणन्तौ, शेषास्तु इञन्ताः। केचितु-अतद्धितान्तमेव पञ्चमं ब्रह्मगुप्तशब्दं पठन्ति ॥