अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्

5-3-118 अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणः यञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

अभिजित्-विदभृत्-शालावत्-शिखावत्-शमीवत्-ऊर्णावत्-श्रुमत्-अणः यञ्

Neelesh Sanskrit Brief

Up

'अभिजित्', 'विदभृत्', 'शालावत्', 'शिखावत्', 'शमीवत्', 'ऊर्णावत्', 'श्रुमत्' एतेषाम् शब्दानाम् 'अण्' प्रत्ययान्तम् यत् रूपम्, तस्मात् स्वार्थे 'यञ्' प्रत्ययः विधीयते ।

Kashika

Up

आयुधजीविसंघादिति निवृत्तम्। अभिजिदादिभ्योऽणन्तेभ्यः प्रातिपदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति। अभिजितोऽपत्यमित्यण्। तदन्ताद् यञ्। आभिजित्यः, आभिजित्यौ, आभिजिताः। वैदभृत्यः, वैदभृत्यौ, वैदभृताः। शालावत्यः, शालावत्यौ, शालावताः। शैखावत्यः। शामीवत्यः। और्णावत्यः। श्रौमत्यः। गोत्रप्रत्ययस्यात्राणो ग्रहणमिष्यते। आभिजितो मुहूर्तः, आभिजितः स्थालीपाक इत्यत्र न भवति॥

Siddhanta Kaumudi

Up

अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अभिजित्', 'विदभृत्', 'शालावत्', 'शिखावत्', 'शमीवत्', 'ऊर्णावत्', 'श्रुमत्' एते शब्दाः अस्मिन् सूत्रे निर्दिश्यन्ते । एतेभ्यः अण्-प्रत्ययः यदा विधीयते, तदा तस्मात् जायमानात् प्रातिपदिकात् वर्तमानसूत्रेण स्वार्थे 'यञ्' इति प्रत्ययविधानमपि भवितुमर्हति । उदाहरणानि- 1. 'अभिजितः अपत्यम्' इत्यस्मिन् अर्थे <<तस्यापत्यम्>> 4.1.92 इत्यनेन 'अभिजित्' शब्दात् 'अण्' प्रत्ययं कृत्वा 'आभिजित' इति शब्दः जायते । अस्मादेव शब्दात् अग्रे वर्तमानसूत्रेण 'यञ्' प्रत्ययः भवति । यथा - आभिजितः इत्येव = अभिजित् + अण् + यञ् → आभिजित + य → आभिजित् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आभिजित्य । एवमेव - 2. शालावतः अपत्यम् शालावतः (= शालावत् + अण्) । स एव शालावत्यः (= शालावत् + अण् + यञ्) 3. ऊर्णावतः अपत्यम् और्णावतः (= ऊर्णावत् + अण्) । स एव और्णावत्यः (= ऊर्णावत् + अण् + यञ्) विशेषः - यद्यपि अण्-प्रत्ययः तद्धितप्रकरणे भिन्नेषु अर्थेषु विधीयते, तथापि वर्तमानसूत्रस्य प्रसक्तिः तदा एव अस्ति यदा 'अण्' इति प्रत्ययः अपत्यार्थे विधीयते । एतदेव स्पष्टीकर्तुम् भाष्यकारः 'गोत्रादिति च वक्तव्यम्' इति वदति । स्मर्तव्यम् - 1. <<समर्थानां प्रथमात् वा>> 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेनैव भवति। अतः 'आभिजितः' इत्यपि साधु प्रयोगः, 'आभिजित्य' इत्यपि च साधु प्रयोगः । एवमेव अन्येषां विषये अपि ज्ञेयम् । 2. अनेन सूत्रेण उक्तस्य यञ्-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> 5.3.119 इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> 2.4.62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'आभिजित्य' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'यञ्' प्रत्ययस्य लुक् भवति । यथा - अभिजित् + अण् + यञ् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → अभिजित् + अण् + जस् [यञ्-प्रत्ययस्य <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> 2.4.62 इति लुक्] → आभिजिताः अतः 'आभिजित्य' शब्दस्य रूपाणि - 'आभिजित्यः, आभिजित्यौ, आभिजिताः' इति भवन्ति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।

Balamanorama

Up

<<अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्>> - अभिजिद्विदभृत् । अभिजित्, पिदभृत्, शालावत्, शिखावत्, शमीवत्, ऊर्णावत्, श्रुमत् — एषां समाहारद्वन्द्वात्पञ्चम्या लुक् । अण इति प्रत्ययत्वात्तदन्तग्रहणम् । तदाह — अभिजिदादिभ्य इति । अत्रआयुधजीविसङ्घादिति निवृत्त॑मिति वृत्तिः ।आभिजित्य इति । अभिजितोऽपत्यमाभिजितः । अपत्येऽण् । आभिजित एव आभिजित्यः । वैदभृत्य इति । विदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः । शैखावत्यैति । शिखावतोऽपत्यं शैखावतः । स एव शैखावत्यः । शामीवत्य इति ।शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः । और्णावत्य इति । ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः । श्रौमत्य इति । श्रुमतोऽपत्यं श्रौमतः, स एव श्रौमत्यः । अत्र अभिजिदित्यादिशब्देषु यञः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहेगोत्रचरणा॑दिति वुञि॒आपत्यस्य चे॑ति यलोपे 'आभिजितक' इति भवति ।अपत्याऽणन्तेभ्य एवायं यञ् । तेन आभिजितो मुहूर्त इत्यादौ न य॑ञिति भाष्ये स्पष्टम् ।

Padamanjari

Up