व्रातच्फञोरस्त्रियाम्

5-3-113 व्रातच्फञोः अस्त्रियाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः ञ्यः

Sampurna sutra

Up

व्रात-च्फञोः अस्त्रियाम् ञ्यः

Neelesh Sanskrit Brief

Up

व्रातवाचिभ्यः शब्देभ्यः तथा च्फञ्-प्रत्ययान्तशब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । परन्तु तद्धितान्तशब्दः स्त्रीलिङ्गे प्रयुज्यते चेत् अयम् प्रत्ययः न विधीयते ।

Kashika

Up

नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघ व्राताः। व्रातवाचिभ्यः प्रातिपदिकेभ्यः च्फञन्तेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियाम्। कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः। व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमन्तः। च्फञः खल्वपि — कौञ्जायन्यः, कौञ्जायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः ब्राध्नायन्यौ, ब्राध्नायनाः। अस्त्रियामिति किम्? कपोतपाकी। व्रीहिमती। कौञ्जायनी। ब्राध्नायनी ॥

Siddhanta Kaumudi

Up

व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी, गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये- कौञ्जिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

व्रातवाचिनः शब्दाः, तथा च च्फञ्-प्रत्ययान्तशब्दाः यदा स्त्रीत्वं न द्योतयन्ति तदा तेभ्यः स्वार्थे 'ञ्य' इति प्रत्ययः विधीयते । क्रमेण पश्यामः - 1. 'व्रात' इति कश्चन शब्दः । ये जनाः शरीरपरिश्रमेण जीविकाम् प्राप्नुवन्ति, तेषाम् सङ्घः 'व्रातः' नाम्ना ज्ञायते । People who primarily do laborious work for earning the living - इत्याशयः । यथा - कपोतपाक, व्रीहिमत् - आदीनि भिन्नानां व्रातानां नामानि सन्ति । एतादृशेभ्यः व्रातवाचिभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । यथा - [अ] कपोतपाकः व्रातः इत्येव = कपोतपाक + ञ्य → कापोतपाक्यः । [आ] व्रीहिमान् व्रातः इत्येव = व्रीहिमत् + ञ्य → व्रैहिमत्यः । स्मर्तव्यम् - <<समर्थानां प्रथमात् वा>> 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः 'ञ्य' प्रत्ययः विकल्पेनैव विधीयते । अतः 'कपोतपाकः' इत्यपि साधु रूपम्, 'कापोतपाक्यः' इत्यपि च साधु एव । 2. 'च्फञ्' इति कश्चन तद्धितप्रत्ययः । <<गोत्रे कुञ्जादिभ्यः च्फञ्>> 4.1.98 इत्यनेन कुञ्जादिगणस्य शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् च्फञ्-प्रत्ययः विधीयते । अस्मात् च्फञ्-प्रत्ययान्तशब्दात् नित्यम् स्वार्थे ञ्य-प्रत्ययः वर्तमानसूत्रेण दीयते । यथा - कुञ्जस्य गोत्रापत्यम् = कुञ्ज + च्फञ् + ञ्य → कौञ्जायन्यः । प्रक्रिया इयम् - कुञ्ज + च्फञ् + ञ्य → कुञ्ज + आयन + य [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति आयन-आदेशः] → कौञ्ज + आयन + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कौञ्ज् + आयन + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कौञ्जायन् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कौञ्जायन्य एवमेव - ब्रध्नस्य गोत्रापत्यम् ब्राध्नायन्यः । विशेषः - यद्यपि <<समर्थानां प्रथमात् वा>> 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, तथापि च्फञ्-प्रत्ययान्तशब्दात् ञ्य-प्रत्ययः नित्यम् विधीयते, विकल्पेन न । अस्मिन् सूत्रे 'अस्त्रियाम्' इति उच्यते, यतः स्त्रीलिङ्गे ये तद्धितान्तशब्दाः प्रयुज्यन्ते, तेषां विषये अयम् प्रत्ययः न भवति । यथा - 1) कपोतपाकः व्रातः इत्येव = कपोतपाका परिषद् । अत्र स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कर्तव्ये ञ्य-प्रत्ययः न भवति । 2) कुञ्जस्य गोत्रापत्यम् स्त्री = कुञ्जायन + च्फञ् + ङीष् → कौञ्जायनी । अत्र <<जातेरस्त्रीविषयादयोपधात्>> 4.1.63 इत्यनेन ङीष्-प्रत्यये कर्त्तव्ये च्फञ्-प्रत्ययात् अनन्तरम् ञ्य-प्रत्ययः न भवति । विशेषः - अनेन सूत्रेण उक्तस्य ञ्य-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> 5.3.119 इत्यनेन 'तद्राजसंज्ञा' भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> 2.4.62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , 'कौञ्जायन्य' शब्दस्य रूपाणि 'कौञ्जाजन्यः कौञ्जायन्योः कौञ्जायनाः ' इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते - कुञ्जायन + च्फञ् + ञ्य + जस् → कुञ्जायन + च्फञ् + जस् [<<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> 2.4.62 इति ञ्य-प्रत्ययस्य लुक्] → कौञ्जायनाः । एवमेव - 'कापोतपाक्यः, कापोतपाक्यौ कापोतपाकाः' इत्यपि सिद्ध्यति ।

Balamanorama

Up

<<व्रातच्फञोरस्त्रियाम्>> - आयुधजीवि । बाहीकेष्विति । बाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति । क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः । स एव क्षौद्रक्यः । मालव्य इति । मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः । स एव मालव्यः । टित्त्वान्ङीबिति । एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः । तद्विशेषेति । व्याख्यानादिति भावः ।

Padamanjari

Up

उत्सेधजीवित्वं व्रातस्य पूगाद्विशेषः। कौञ्जायनीति।'गोत्रे कुञ्जादिभ्यश्च्फञ्' ,'गोत्रं च चरणैः सह' इति जातित्वान्ङीष् ॥