कुलिजाल्लुक्खौ च

5-1-55 कुलिजात् लुक्खौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् ःअरति वहति आवहति सम्भवति अवहरति पचति

Sampurna sutra

Up

'तत् सम्भवति, अवहरति, पचति' (इति) कुलिजात् द्विगोः अन्यतरस्याम् लुक्-खौ, ष्ठन् च

Neelesh Sanskrit Brief

Up

सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्विगुसमासे विद्यमानात् 'कुलिज' शब्दात विकल्पेन ष्ठन् तथा ख-प्रत्ययौ भवतः ; पक्षे औत्सर्गिकः ठञ्-प्रत्ययः तस्य च वैकल्पिकः लुक् अपि भवति ।

Kashika

Up

द्विगोरित्येव। कुलिजशब्दान्ताद् द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ भवतः, चकारात् ष्ठंश्च। अन्यतरस्यांग्रहणानुवृत्त्या लुगपि विकल्प्यते। ठञः पक्षे श्रवणं भवति। तेन चातूरूप्यं संपद्यते। द्वे कुलिजे संभवत्यवहरति पचति वा द्विकुलिजिकी, द्विकुलिजीना, द्विकुलिजी, द्वैकुलिजिकी। <<परिमाणान्तस्यासंज्ञाशाणयोः>> ७.३.१७ इत्यत्र कुलिजग्रहणमपीष्यते। तेनोत्तरपदवृद्धिरपि न भवति॥

Siddhanta Kaumudi

Up

कुलिजान्ताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्ठंश्च । लुगभावे ठञः श्रवणम् । द्विकुलिजी-द्वैकुलिजिकी-द्विकुलिजीना-द्विकुलिजिकी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'कुलिज' इति मापनस्य किञ्चन परिमाणम् । अयं शब्दः यदि द्विगुसमासस्य उत्तरपदे विद्यन्ते, तर्हि तादृशात् द्वितीयासमर्थात् प्रातिपदिकात् <<सम्भवत्यवहरति पचति>> 5.1.52 अस्मिन् अर्थे - 1. विकल्पेन ख-प्रत्ययः भवति । 2. पक्षे विकल्पेन ष्ठन्-प्रत्ययः भवति । 3. पक्षे औत्सर्गिकः ठञ्-प्रत्ययः भवति । परन्तु तस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति नित्यं लुकि प्राप्ते वर्तमानसूत्रेण केवलं विकल्पेनैव लुक् भवति । यथा - द्वे कुलिजे सम्भवति, अवहरति, पचति सः - 1. द्वि + कुलिज + ख → द्विकुलिजीन । 2. द्वि + कुलिज + ष्ठन् → द्विकुलिजिक । स्त्रीत्वे <<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष् - द्विकुलीजिकी । 3. द्वि + कुलिज + ठञ् → द्वि + कुलिज → द्विकुलिज । अत्र ठञ्-प्रत्ययस्य वैकल्पिकः लुक् भवति । 4. द्वि + कुलिज + ठञ् → द्वैकुलिजिक । ठञ्-प्रत्ययस्य लुकः अभावात् आदिवृद्धिः विधीयते । वस्तुतः अत्र <<परिमाणान्तस्यासंज्ञाशाणयोः>> 7.3.17 इति उत्तरपदवृद्धिः भवेत्, परन्तु तत्रैव <! असंज्ञाशाणकुलिजानाम् चेति वक्तव्यम् !> अनेन पाठितेन वार्त्तिकेन कुलिजशब्दस्य विषये उत्तरपदवृद्धिनिषेधः कृतः अस्ति, अतः अत्र आदिवृद्धिः एव क्रियते ।

Balamanorama

Up

<<कुलिजाल्लुक्खौ च>> - कुलिजाल्लुक्खौ च । अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्याह — लुक्खौ वा स्त इति । 'आर्हात्' इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वहतीयस्य ठञःअध्यर्धे॑ति नित्यं लुकि प्राप्ते लुको विकल्पविधिः । चात्ष्ठंश्चेति । तथाच ठञो लुक्खश्च ष्ठंश्चेति । तथाच ठञो लुक्खश्च ष्ठंश्चेति त्रितयं विकल्प्यते । तत्र ष्ठनः खस्य ठञो लुकश्चाऽभावे ठञः श्रवणं पर्यवस्यति । तदाह — लुगभावे ठञः श्रवणमिति । द्विकुलजीति । ठञो लुकि रूपम् । 'द्विगोः' इति ङीप् । द्विकुलिजीनेति । खे रूपम् । द्विकुलिजिकीति । ष्ठनि रूपम् । द्वौकुलिजिकीति । ठञो लुगभावे रूपम् ।परिमाणान्तस्ये॑त्यत्रअसंज्ञाशाणकुलिजाना॑मित्युक्तेर्नोत्तरपदवृद्धिः ।

Padamanjari

Up

अन्यतरस्यांग्रहणानुवृत्या लुगपि विकल्प्यत इति। तच्च लुक्खग्रहणाद्विज्ञायते, अन्यथा कुलिजाच्चेत्येव वक्तव्यम्, द्विगोश्चेत्येव खोऽन्यतरस्यामिति च तत्र ठन्खाभ्यां मुक्ते पक्षे ठञ्, तस्य ठध्यर्द्धपूर्वऽ इति लुक्। एवं रूपत्रये सिद्धे लुक्खग्रहणं कुर्वतः सूत्रकारस्य'लुको' पि विकल्प इष्ट इति लक्ष्यतेऽ इति मन्यते। वाक्तेककारस्तु ठञो नित्यं लुकं मन्यमानः पूर्वसूत्रवत् त्रैरूप्यमेवेच्छन् लुक्खग्रहणं प्रत्याचष्टे,'कुलिजाच्च' इति सिद्धे लुक्कग्रहणानर्थक्यम्, पूर्वस्मिन् त्रिकभावादिति ॥