5-1-53 आढकाचितपात्रात् खः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् ःअरति वहति आवहति सम्भवति अवहरति पचति
'तत् सम्भवति , अवहरति, पचति' (इति) आढक-आचित-पात्रात् अन्यतरस्याम् खः
सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्वितीयासमर्थेभ्यः आढक / आचित / पात्र - एतेभ्यः शब्देभ्यः ख-प्रत्ययः विकल्पेन भवति ।
आढकाचितपात्रशब्देभ्यो द्वितीयासमर्थेभ्योऽन्यतरस्यां संभवादिष्वर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः। पक्षे सोऽपि भवति । आढकं संभवत्यवहरति पचति वा आढकीना, आढकिकी। आचितीना, आचितिकी । पात्रीणा, पात्रिकी॥
पक्षे ठञ् । आढकं संभवति अवहरति पचति वा आढकीना-आढकिकी । अचितीना । आचितिकी । पात्रीणा पात्रीकी ॥
आढक (= unit of measuring grain ), आचित (= unit of measurement, equivalent to 10 भाराः ), पात्र (= vessel, unit of capacity) - एतानि सर्वाणि विशिष्टानि परिमाणानि । एतेषां विषये <<सम्भवत्यवहरति पचति>> 5.1.52 अस्मिन् अर्थे औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते ; तं बाधित्वा विकल्पेन ख-प्रत्ययः अपि भवति । पक्षे औत्सर्गिकः ठञ् तु भवत्येव । यथा - 1. आढकम् सम्भवति / अवहरति / पचति सः आढकीनः आढकिकः वा । प्रक्रिया - आढक + ख → आढक + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ख्-इत्यस्य ईन्-आदेशः] → आढक् + ईन [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आढकीन । पक्षे - आढक + ठञ् → आढक + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः, <<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → आढक् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आढकिक स्त्रीत्वे - 'ख'प्रत्ययान्तशब्दात् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् <<टिड्ढाणञ्..>> 4.1.15 इति ङीप्-प्रत्ययः भवति । आढकं परिमाणमस्य सा आढकीना आढकिकी वा । तथैव - 2. आचितं सम्भवति / अवहरति / पचति सः आचितीनः, आचितिकः । स्त्रीत्वे - आचितीना, आचितिकी । 3. पात्रं सम्भवति / अवहरति / पचति सः पात्रीणः, पात्रिकः । स्त्रीत्वे - पात्रिणी, पात्रिकी । वाक्येषु प्रयोगः - 1. 'आढकीनः कटाहः' - एकमाढकम् यावत् एव यस्य प्रमाणमस्ति, तस्मात् अधिकम् न, सः आढकीनः कटाहः । 2. 'आढकीना माता' - सा माता या एकमाढकम् यावत् धान्यस्य एकत्रीकरणं करोति । 3. 'आढकीनः पाचकः - सः पाचकः यः एकमाढकम् यावत् धान्यम् पचते । ज्ञातव्यम् - 'आचित' शब्दस्य 'loaded / collected' इति अपि कश्चन अर्थः अस्ति । तथैव, 'पात्र' शब्दस्य अपि 'व्याप्तिः' (यथा - नद्याः पात्रम्) इति अपि कश्चन अर्थः अस्ति । परन्तु 'आढक' शब्दस्य केवलं 'परिमाण' इत्येव अर्थः विद्यते, अतः अस्मिन् सूत्रे 'आढक' इत्यस्य साहचर्येण आचित-शब्दस्य तथा पात्र-शब्दस्यापि 'परिमाण' अयमेव अर्थः स्वीक्रियते । इत्युक्ते, केवलं परिमाणवाची यौ आचित/पात्रशब्दौ, तयोर्विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति ।
<<आढकाचितपात्रात् खोऽन्यतरयाम्>> - आढकाचित । आढक, आचित, पात्र — एभ्यो द्वितीयान्तेभ्य सम्भवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यर्थः । पक्षे ठञिति । 'आर्हाता' इत्यत्रः परिमाणपर्युदासान्न ठगिति भावः ।
ठञोऽपवाद इति। न ठकः, आढकादीनां परिमाणत्वात्। पात्रं भाजनमप्यस्ति, तस्य तु सम्भवत्यादिभिः सम्बन्धानुपपतेः, आढकाचितसाहचर्यच्च परिमाणस्यैव ग्रहणम् ॥