4-3-10 द्वीपात् अनुसमुद्रं यञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
समुद्रसमीपे यो द्वीपः, तस्माद् यञ् प्रत्ययो भवति शैषिकः। कच्छादिपाठाद् ४.२.१३३ अणो मनुष्यवुञः ४.२.१३४ चापवादः। द्वैप्यम्। द्वैप्यं भवन्तोऽनुचरिन्त चक्रम्। अनुसमुद्रमिति किम् ? द्वैपकम्। द्वैपमन्यत्॥
समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥
<<द्वीपादनुसमुद्रं यञ्>> - द्वीपादनु ।अनुसमुद्र॑मिति सामीप्ये अव्ययीभावः । अनुसमुद्रमिति सप्तम्यन्तम्, विद्यमानादित्यध्याहार्यम् । तदाह — समुद्रस्य समीपे इति । द्वैप्येति ।यञश्चे॑ति ङीप् तु न,अनपत्याधिकारस्थान्ने॑ति तन्निषेधात् ।
अनुसमुद्रमिति । ठनुर्यत्समयाऽ इत्यव्ययीभावः । सप्तम्यन्तं चैतद्, तद् द्वीपस्य विशेषणम्, तदाह - समुद्रसमीपे यो द्वीप इति ॥