तिकादिभ्यः फिञ्

4-1-154 तिकादिभ्यः फिञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) तिकादिभ्यः फिञ्

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे तिकादिगणस्य शब्देभ्यः फिञ्-प्रत्ययः भवति ।

Kashika

Up

तिक इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति। तैकायनिः। कैतवायनिः। वृषशब्दोऽत्र पठ्यते, तस्य प्रत्ययसन्नियोगेन यकारान्तत्वमिष्यते। वार्ष्यायणिः। कौरव्यशब्दः पठ्यते, स च क्षत्रियवचनः, औरसशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात्। यस्तु <<कुर्वादिभ्यो ण्यः>> ४.१.१५१, तदन्ताद् इञैव भवितव्यम्। तथा च <<ण्यक्षत्रियार्षञितः०>> २.४.५८ इत्यत्रोदाहृतं कौरव्यः पिता, कौरव्यः पुत्र इति॥ तिक। कितव। संज्ञा। बाल। शिखा। उरस्। शाट्य। सैन्धव। यमुन्द। रूप्य। ग्राम्य। नील। अमित्र। गौकक्ष्य। कुरु। देवरथ। तैतिल। औरस। कौरव्य। भौरिकि। भौलिकि। चौपयत। चैतयत। चैटयत। शैकयत। क्षैतयत। ध्वाजवत। चन्द्रमस्। शुभ। गङ्गा। वरेण्य। सुयामन्। आरद। वह्यका। खल्या। वृष। लोमका। उदन्य। यज्ञ॥

Siddhanta Kaumudi

Up

तैकायनिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तिकादिभ्यः फिञ्>> - तिकादिभ्य फिञ् । इञोऽपवादः । तैकायनिरिति । फञि आयन्नादेशः ।

Padamanjari

Up

क्षत्रियवचन इति । यः'कुरुनादिभ्यो ण्यः' इति व्युत्पादितः । औरशशब्देनेति । उरसा शेते उरशः क्षत्रियः, पृषोदरादित्वाद्रूपम्, तस्यापत्यम्'जनपदशब्दात्क्षत्रियात्' इत्यञ् । किं पुनरेवं प्रयत्नेन क्षत्रियवचनस्य ग्रहणं व्याख्यायते ? इत्यत्राह - तथा चेति । उदाहृतमिति । पूर्वैरपि वृत्तिकारैरित्यर्थः । तिक्नोतेरिगुपधात्कः, तिकः । किं तवास्तीति प्रवर्तते कितवः, पृषोदरादिः । सम्पूर्वाज्जानातेः ठातश्चोपसर्गेऽ इति कः, स्त्रियां टाप्, संज्ञा । बालैर्बद्धा शिखास्य स बालशिखः । द्वौ शब्दावित्यन्ये, बलतेर्णिजन्तादच् बालः, तस्य बालायनिः । शिखाशब्देन तद्वान् लक्ष्यते, शैखायनिः । उरशशब्दो व्युत्पादितः ।'शटकुत्सायाम्' पचाद्यच्, ततो गर्गादित्वाद्यञ् - शाट।ल्ः; ततो यूनि फिञ् । सिन्धुशब्दाद्'द्व्यञ्मगध' इत्यण्, सैन्धवः, अत्रापि यूनि फिञ् । यममुनतीतियमुन्दः, शकन्ध्वादि । प्रशस्तं रूपमस्यास्ति रूपादाहतप्रशंसयोर्यप्ऽ, रूप्यः । ग्रामे भवो ग्राम्यः । नील वर्णे, इगुपधात्कः नीलः । ठम् रोगेऽ, औणाअदिक इत्रः, अमित्रः । गौकाक्ष्यो गर्गादियञन्तः ।'कृग्रोरुः' , कुरुः । देवस्येव रथोऽस्य देवरथः । तिलेतिलः, तितिलः, पृषोदरादिः, ततो मत्वर्थीय इन्, तितिलिनोऽपत्यमौत्सर्गिकोऽण्,'नस्तद्धिते' इति टिलोपः, तैतिलः । औरशशब्दो व्युत्पादितः ।'कुरुनादिभ्यो ण्यः' , कौरव्यः । भूरि अस्यास्ति भूरिको व्रीह्यादिः, तस्यैव पक्षे कपिलादित्वाल्लत्वं भूलिकः, ताभ्यामत इञ्, भौरिकिः, भौलिकिः ।'चुप मन्दायां गतौ' ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चौपयतः, एवं चैतयतः ।'चिट परप्रेष्ये' , ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चैटयतः ।'शीकृ सेचने' , णिजादि पूर्ववत्, शैकयतः । क्षितमाचष्टे क्षितयन्, तस्यापत्यं क्षैतयतः । ध्वजोऽस्यास्ति ध्वजवान्, तस्यापत्यं ध्वाजवतः । द्वौ शब्दावित्यन्ये,'ध्वज गतौ' ण्यन्तात्पचाद्यच्, ध्वाजः; वनोतेस्तःष वतः ।'चदि आह्लादने' , ततो रमस् चन्द्रमाः, तस्यापत्यं चान्द्रमसायनिर्बुधः । शोभतेऽसौ शुभः, इगुपधात्कः । गमेर्गन्, गङ्गा । वृञ एण्यः, वरेण्यः । सर्वधातुभ्यो मनिन्, यानं यामा, शोभनं यामास्य सुयाम् । आरदो नाम जनपदः, ततोऽपत्ये'जनपदशब्दात्' इत्यञ् - आरदः । वह्यं करणम्, वह्यमेव वह्यका, निपातनादित्वाभावः । खलाय हिता खल्या,'खलयव' इति यत् ।'वृषु सेचने' इगुपधात्कः - वृषः । लोमानि कामयति लोमका । उदकमिच्छत्यात्मन उदन्यः, ठशनायोदन्यधनायऽ इत्युदकस्योदन्भावः, ततः पचाद्यच् । यज्ञयोगाद्यज्ञः । एते तिकादयः ॥